संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथविवाहहोम: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथविवाहहोम: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथविवाहहोम: Translation - भाषांतर श्री: ॥ वरोवेध्यांप्राड्मुखउपविश्यस्वदक्षिणतोनियमितवाचंवधूंचोपवेश्यद्विराचम्यप्राणानायम्यदेशकालौसंकीर्त्यप्रतिगृहीतायामस्यांवध्मांभार्यात्वसिध्दयेगृह्याग्निसिध्दयेचविवाहहोमंकरिष्ये ॥ तदंगंस्थंडिलोल्लेपनादियोजकनामाग्निप्रतिष्ठानांतंकृत्वाग्ने:प्रत्यगदृषदंसोपलांप्रतिष्ठाप्यप्रागुदीच्यांधान्यराशेरुपर्युदकपूर्णंकुंभंनिधायतंपल्लवैरपिधाय गंधपुष्पैरलंकृत्योदनग्ने:प्राक्संस्थंसप्ततंडुलराशीनुपकल्प्य समिद्वयमादायदेशकालौसंकीर्त्य क्रियमाणेविवाहहोमेदेवतापरिग्रहार्थमित्याध्याघारावाज्येन ॥ अत्रप्रधानं त्रिरग्निंपवमानंसकृदग्निंप्रजापतिंचाज्येनअर्यमाग्निंवरुणाग्निंपूषाग्निंप्रजापतिंचलाजद्रव्येणशेषेणस्विष्टकृतमित्यादिषट्पात्रासादनांतंकृत्वापात्रपश्चिमतोलाजशूर्पमासाध्यआज्याधिश्रयणांतंकृत्वाज्यंलाजै:सहत्रि:पर्यग्निकृत्वाज्योत्पवनेकृतेलाजांस्त्रि:प्रोक्ष्यबर्हिरास्तरणाध्याघारहोमांतंकृत्वा ॥ आज्यभागौनस्त: ॥ अथप्रधानहोम: ॥ अग्नाआयूंषीतितिसृणांशतंवैखानसाऋषय:अग्नि:पवमानोदेवता गायत्रीछंद:विवाहप्रधानाज्यहोमे० ॥ ॐ अग्नआयूंषि० नांस्वाहा० अग्नयेपवमानायेदं० ॥एवंप्रत्येकंत्याग: ॥ ॐ अग्निऋषि:पव० स्वाहा० ॥ ॐ अग्नेपवस्वव० ॥ स्वाहा ॥त्वमर्यमावसुश्रुतोग्निस्त्रिष्टुप् ॥ विवाहप्रधा० ॥ ॐ त्वमर्यमाभवसियत्कनीनांनामस्वधावन् गुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यदृंपतीसमनसाकृणोषिस्वाहा ॥ अग्नयइदं ॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ विवाहप्रधा० ॥ ॐ प्रजापतेन० स्वाहा० ॥ प्रजापतयइदं० ॥ एवंपंचाज्याहुतीर्हुत्वाप्राड्मुखोपविष्टाया:पुरत:प्रत्यड्मुखस्तिष्ठ्न् ॥ गृम्भामीतिसूर्यासावित्रीसूर्यासावित्रीत्रिष्टुप् ॥ वधूपाणिग्रहणेविनियोग: ॥ ॐ गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगोअर्यमासवितापुरंधिर्मह्यंत्वादुर्गार्हपत्यादेवा: ॥ इतिमंत्रेणभार्यायाउत्तानंसांगुष्ठंदक्षिणपाणिमुत्तानेनदक्षिणहस्तेनगृह्णीयात् ॥ ततोवधूमुत्थाप्यतयाकरौक्षालयित्वातस्याअंजलावाज्यमुपस्तीर्यवधूभ्रात्रातत्स्थानीयेनवातिष्ठताशूर्पस्थलाजान्मुष्ठयाद्विरोप्यस्वयंपंचावत्तीत्रिवारमोप्यशूर्पस्थानभिघार्यांजलिस्थानपिसकृदभिघार्य ॥ अर्यमणंनुवामदेवोर्यमाग्निरनुष्टुप् ॥ विवाहप्रधानलाजहोमेविनियोग: ॥ ॐ अर्यमणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमुंचातुनामुत: स्वाहेतिमंत्रंपठित्वोपविष्टस्तिष्ठंत्याधृतांजलिरंजल्यविच्छेदेनांगुल्यग्रैरंजलिपार्श्वेनहावयेत् ॥ वर:अर्यम्णेग्नयइदं० ॥ ततोदृषदुपलवर्जमग्निमुदकुंभंपात्राणिचवधूंप्रदक्षिणंपरिणयन् स्वयमग्रेगच्छन् जपेत् ॥ ॐ अमोहमस्मिसात्वंसात्वमस्यमोहंध्यौरहंपृथिवीत्वंसामाहमृक्त्वंतावेहविवहावहै ॥ प्रजांप्रजनयावहैसंप्रियौरोचिष्णूसुमनस्यमानौजीवेवशरद:शतं ॥ ततोवधूंप्राड्मुखींद्वाभ्यामपिपादाभ्यांदृषदं ॥ इममश्मानंवामदेवोवधूरनुष्टुप् ॥ अश्मारोहणेविनियोग: ॥ ॐ इममश्मानमारोहाश्मेवत्वंस्थिराभव ॥ सहस्वपृतनायतोभितिष्ठपृतन्यत: ॥ इतिमंत्रेणारोहयेत् ॥ सइमांदेवोवरुण:प्रेतोमुंचातुनामुत:स्वाहा ॥ वरुणाग्नयइदं० ॥ पुनरमोहमस्मीतिपूर्ववत्परिणीयइममश्मानमित्यश्मानमारोहयेत् ॥ पुन:पूर्वदंजल्युपस्तरणादि ॥ पूषणंनुवामदेव:पूषाग्निरनुष्टुप् ॥ विवाहप्रधानलाजहोमे० ॥ ॐ पूषणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुंचातुनामुत:स्वाहा ॥ पूष्णेग्नयइदं० ॥ पूर्ववदमोहमस्मीत्याध्यश्मारोहणंच ॥ ततोवरोऽवशिष्टांल्लजानात्माभिमुखंशूर्पकोणेनजुहुयात् प्रजापतयइतिस्मृत्वास्वाहेत्युच्चार्यप्रजापतयइदंनममेत्युक्त्व ॥ अत्रपरिणयनाश्मारोहणेनस्त: ॥ अथाग्नेरुदीच्यांसप्ततंडुलराशीन्पश्चिमतोवध्वादक्षिणपादेनवर:क्रमेणाभ्युत्क्रामयेन्मंत्रै: ॥ ॐ इषएकपदीभवसामामनुव्रताभव ॥ पुत्रान्विंदावहैबहूंस्तेसंतुजरदष्टय: ॥ इतिप्रथमं ॥ ऊर्जेद्विपदीभवेत्यादिद्वीतीयं ॥रायस्पोषायत्रिपदीभवेत्यादितृतीयं ॥ मायोभव्यायचतुष्पदीभवेत्यादिचतुर्थं ॥ प्रजाभ्य:पंचपदीभवेत्यादिपंचमं ॥ ऋतुभ्य:षट्पदीभवेत्यादिष्टं ॥ सखासप्तपदीभवेत्यादिसप्तमंराशिं ॥ तत:पूर्वस्थापितकुंभंकेनचिदानाय्यततस्थएववर:स्वशिरसावधूशिर:संयोज्यकलशस्थमुदकमादायात्मशिरोवधूशिरश्चशांतिरस्त्वित्यादिपंचदशमंत्रैरभिषिच्य स्वासनेउपविश्याज्येनस्विष्टकृदादिहोमशेषंसमाप्यपूर्वबध्दोत्तरीयांतौविस्त्रस्यध्रुवारुंधतीसप्तर्षिप्रभृतीन्वध्वासहदृष्ट्वा जीवपत्नीप्रजांविंदेयेतिवध्वावाचयेत् ॥ ततोवधूर्वाड्नियमंविसृजेत् ॥ दिनविवाहेसायंसंध्यामुपास्यरात्रिविवाहेसायंसंध्यामनुपास्यैवध्रुवादिदर्शनं ॥ एतदादिविवाहाग्निंरक्षेत् ॥रक्षितोग्निश्चतुर्थीकर्मपर्यंतंगृहप्रवेशनीयहोमात्पूर्वमनुगतश्चेद्विवाहहोम:पुन:कार्य: ॥ गृहप्रवेशनीयोत्तरंगतौहोमद्वयमपिपुन:कार्यं ॥ केचित्तुद्वादशरात्रपर्यंतवृत्त्युक्तायाश्चेत्याज्याहुतिमेवाहु: ॥ इतिविवाहहोम: ॥ N/A References : N/A Last Updated : July 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP