संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथपुण्याहवाचनम् अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथपुण्याहवाचनम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथपुण्याहवाचनम् Translation - भाषांतर श्री: ॥ (अग्रेसर्वत्रप्रतिकलशंमंत्रावृत्तिरुत्तरसंस्थताच) कर्तास्वपुरत: ॥ ॐ महीध्यौ:पृथिवीचनइमंयज्ञंमिमिक्षतां ॥ पिपृतांनोभरीमभि: ॥ इतिमंत्रावृत्त्यादक्षिणोत्तरतोभूमिंस्पृष्ट्वा ॥ ॐ ओषधय:संवदंतेसोमेनसहराज्ञा ॥ यस्मैकृणोतिब्राह्मणस्तेराजन्पारयामसि ॥ इतितथैवतंदुलपुंजौकृत्वा ॥ ॐ आकलशेषुधावतिपवित्रेपरिषिच्यते ॥उक्थैर्यज्ञेषुवर्धते ॥ इतितत्रद्वौकलशोनिधाय ॥ ॐ इमंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुद्वृधेवितस्तयार्जीकीयेश्रृणुह्यासुषोमया ॥ इतितीर्थजलेनप्रत्येकंपूरयित्वा ॥ ॐ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणी ॥ ईश्वरींसर्वभूतानांतामिहोपह्वयेश्रियं ॥ इतिगंधंप्रक्षिप्य ॥ ॐ कांडात्कांडात्प्ररोहंतीपरुष:परुष:परि ॥ एवानोदूर्वेप्रतनुसहस्त्रेणशतेनच ॥ इतिदूर्वा: ॥ ॐ अश्वत्थेवोनिषदनंपर्णेवोवसतिष्कृता ॥ गोभाज इत्किलासथयत्सनवथपुरुषं ॥ इतिपल्लवान् ॥ ॐ या:फलिनीर्याअफलाअपुष्पायाश्चपुष्पिणी: ॥ बृहस्पतिप्रसूतास्तानोमुचंत्वंहस: ॥ इतिफलं ॥ ॐ सहिरत्नानिदाशुषेसुवातिसविताभग: ॥ तंभागंचित्रमीमहे ॥ इतिरत्नानि ॥ ॐ हिरण्यरुप:सहिरन्यसंदृगपान्नपात्सेदुहिरण्यवर्ण: ॥ हिरण्ययात्परियोनेर्निषध्याहिरण्यदाददत्यन्नमस्मै ॥ इतिहिरण्यं ॥ ॐ युवासवासा:परिवीताआगात्स उश्रेयान्भवतिजायमान: ॥ तंधीरास:कवयउन्नयंतिस्वाध्यो३मनसादेवयंत: ॥ इतिवस्त्रं ॥ ॐ पूर्णादर्विपरापतसुपूर्णापुनरापत ॥ वस्त्रेवविक्रीणावहाइषमूर्जशतक्रतो ॥ इतिसतंदुलाभ्यांपूर्णपात्राभ्यांकलशयोराननेपिदध्यात् ॥ तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् ॥ उत्तरकलशेवरूणावाहने० ॥ ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेळमानोवरुणेहबोध्युरुशंसमानआयु:प्रमोषी: ॥ कलशेवरुणंसांगंपरिवारंसायुधंसशक्तिकमावाहयामि ॥ ॐ भूर्भव:स्व:वरुणायनम: चंदनंसमर्पयामि इत्यादिपंचोपचारै:संपूज्य तत्त्वायामीतिपुष्पांजलिंसमर्प्य ॥ अनेनपूजनेनवरुण:प्रीयतां ॥ कलशस्यमुखेविष्णु:कंठेरुद्र:समाश्रित: ॥ मूलेतत्रस्थितोब्रह्मामध्येमातृगणा:स्मृता: ॥ कुक्षौसागरा:सर्वेसप्तद्वीपावसुंधरा ॥ ऋग्वेदोथयजुर्वेद:सामवेदोह्यथर्वण: ॥ अंगैश्चसहिता:सर्वेकलशांबुसमाश्रिता: ॥ अत्रगायत्रीसावित्रीशांति:पुष्टिकरीतथा ॥ आयांतुममशात्यर्थंदुरितक्षयकारका: ॥ सर्वेसमुद्रा:सरितस्तीर्थानिजलदानदा: ॥ आयांतुममशांत्यर्थंदुरितक्षयकारका: ॥ उत्तरकलशेअक्षतान्क्षिपेत् ॥ मातृदेवोभव ॥ पितृदेवोभव ॥ आचार्यदेवोभव ॥अतिथिदेवोभव ॥ सर्वेभ्योब्राह्मणेभ्योनमोनम: ॥ तत:अवनिकृतजानुमंडल:कमलमुकुलसदृशमंजलिंशिरस्याधायदक्षिणेनपाणिनासुवर्ण (स्वर्ण:) पूर्णकलशंधारयित्वा आशिष:प्रार्थयते ॥ प्रार्थनामाह ॥ एता:सत्याआशिष:संतु ॥ दीर्घानागानध्योगिरयस्त्रीणिविष्णुपदानिचतेनायु:प्रमाणेनपुण्याहंदीर्घमायुरस्तु ॥ ब्राह्मणहस्ते शिवाआप:संतु ॥ सौमनस्यमस्तु ॥ अक्षतंचारिष्टंचास्तु ॥ गंधा:पातु ॥ सौमंगल्यंचास्तु ॥ अक्षता:पांतु ॥ आयुष्यमस्तु ॥ पुष्पाणिपांतु ॥ सौश्रियमस्तु ॥ तांबूलानिपांतु ॥ ऐश्वर्यमस्तु ॥ दक्षिणा:पांतु ॥ बहुदेवंचास्तु ॥ दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्तु ॥ श्रीर्यशोविध्याविनयोवित्तंबहुपुत्रंचायुष्यंचास्तु ॥ यंकृत्वासर्ववेदयज्ञक्रियाकरणकर्मारंभा:शुभा:शोभना:प्रवर्तंतेतमहमोंकारमादिंकृत्वाऋग्यजु:सामाशीर्वचनंबह्वृषिमतंसंविज्ञातंभवभ्दिरनुज्ञात:पुण्यंपुण्याहंवाचयिष्ये ॥ विप्रा: वाच्यतां ॥ ततोयजमान: ॥ ॐ भद्रंकर्णेभि:श्रॄणुयामदेवाभद्रंपश्येमाक्षाभिर्यजत्रा: ॥स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायु: ॥ ॐ द्रविणोदाद्रविणसस्तुरस्यद्रविणोदा:सनरस्यप्रयंसत् ॥ द्रविणोदावीरवतीमिषंनोद्रविणोदारासतेदीर्घमायु: ॥ ॐ सवितापश्चातात्सवितापुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ॥ सवितान:सुवतुसर्वतातिंसवितानोरासतांदीर्घमार्यु: ॥ ॐ नवोनवोभवतिजायमानोह्नांकेतुरुषसामेत्यग्रं ॥ भागंदेवेभ्योविदधात्यायन्प्रचंद्रमास्तिरतेदीर्घमायु: ॥ ॐ उच्चादिविदक्षिणावंतोअस्थुर्येऽअश्वदा:सहतेसूर्येण ॥ हिरण्यदाअमृत्वंभजंतेवासोदा: सोमप्रतिरंतआयु: ॥ ॐ आपउंदंतुजीवसेदीर्घायुत्वायवर्चसे ॥ यस्त्वाहृदाकीरिणामन्यमानोमर्त्यंमर्त्योजोहवीमि ॥ जातवेदोयशोअस्मासुधेहिप्रजाभिरग्नेअमृतत्वमश्यां ॥ यस्मैत्वंसुकृतेजातवेदउलोकमग्नेकृणव:स्योनं ॥ अश्विनंसपुत्रिणंवीरवंगंगोमतंयिंनशतेस्वस्ति ॥ संत्वासिंचामियजुषाप्रजामायुर्धनंच ॥ (व्रतनियमत:स्वाध्यायक्रतुदमदानविशिष्टा:) भोब्राह्मणा:मन:समाधीयतां ॥ विप्रा: ॥ समाहितमनस:स्म: ॥ यजमान: ॥ प्रसीदंतुभवंत: ॥ विप्रा: ॥ प्रसन्नास्म: ॥ यजमान: ॥ शांतिरस्तु ॥ पुष्टिरस्तु ॥ तुष्टिरस्तु ॥वृध्दिरस्तु ॥ अविघ्नमस्तु ॥ आयुष्यमस्तु ॥ आरोग्यमस्तु ॥ शिवंकर्मास्तु ॥ इष्टसंपदस्तु ॥ धर्मसमृध्दिरस्तु ॥ वेदसमृध्दिरस्तु ॥ शास्त्रसमृध्दिरस्तु ॥ पुत्रसमृध्दिरस्तु ॥धनधान्यसमृद्धिरस्तु ॥ इष्टसंपदस्तु ॥ बहिर्देशेसर्वारिष्टनिरसनमस्तु ॥ यत्पापंतत्प्रतिहतमस्तु ॥ यच्छ्रेयस्तदस्तु ॥ उत्तरेकर्मण्यविघ्नमस्तु ॥ उत्तरोत्तरमहरहरभिवृध्दिरस्तु ॥ उत्तरोत्तरा: क्रिया:शुभा:शोभना:संपध्यंतां ॥ इष्टा:कामा:संपध्यंतां ॥ तिथिकरणमुहूर्तनक्षत्रसंपदस्तु ॥ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवता:प्रीयंताम् ॥ तिथिकरणेमुहूर्तनक्षत्रेसग्रहेसदैवतेप्रीयताम् ॥ दुर्गापांचाल्यौप्रीयेतां ॥ अग्निपुरोगाविश्वेदेवा:प्रीयंतां ॥ इंद्रपुरोगामरुद्गणा:प्रीयंतां ॥ ब्रह्मपुरोगा:सर्वेवेदा:प्रीयंतां ॥ विष्णुपुरोगा:सर्वेदेवा:प्रीयंतां ॥ माहेश्वरीपुरोगाउमामातर: प्रीयंतां ॥ वसिष्ठपुरोगाऋषिगणा:प्रीयतां ॥अरुंधतीपुरोगाएकपत्न्य:प्रीयंतां ॥ ऋषयश्छंदांस्याचार्यावेदादेवायज्ञाश्चप्रीयंतां ॥ ब्रह्मचब्राह्मणाश्चप्रीयंतां ॥ श्रीसरस्वत्यौप्रीयेतां ॥ श्रध्दामेधेप्रीयेतां ॥ भगवतीकात्यायप्रीयतां ॥ भगवंतौ विघ्नविनायकौप्रीयेताम् ॥ भगवान्स्वामीमहासेन:सपत्नीक:ससुत:सपार्षद:सर्वस्थानगत:प्रीयतां ॥ हरिहरहिरण्यगर्भा:प्रीयंतां ॥ सर्वाग्रामदेवता:प्रीयंतां ॥ सर्वा:कुलदेवता:प्रीयंतां ॥ सर्वावास्तुदेवता:प्रीयंतां ॥ बहिरप: ॥ हताब्रह्मद्विष: ॥ हता:परिपंथिन: ॥ हताअस्यकर्मणोविघ्नकर्तार: ॥ शत्रव:पराभवंयांतु ॥ शाम्यंतुघोराणि ॥ शाम्यंतुपापानि ॥ शाम्यंत्वीतय: ॥ शुभानिवर्धंतां ॥ शिवाआप:संतु ॥ शिवाऋतव:संतु ॥ अहोरात्रेशिवेस्याताम् ॥ निकामेनिकामेन:पर्जन्योवर्षतु ॥ फलिन्योनओषधय:पच्यंतां ॥ योगक्षेमोन:कल्पताम् ॥ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिताआदित्यपुरोगा:सर्वेग्रहा:प्रीयंतां ॥ भगवान्नारायण:प्रीयतां ॥ भगवान्पर्जन्य:प्रीयतां ॥ प्रीयतांभगवान्सामीमहासेन: ॥ पुण्याहकालान्वाचयिष्ये ॥ वाच्यतामितिविप्रा: ॥ ॐ उद्गातेवशकुनेसामगायसिब्रह्मपुत्रैवसवनेषुशंससि ॥ वृषेववाजीशिशुमतीरपीत्यासर्वतोन:शकुनेभद्रमावदविश्वतोन:शकुनेपुण्यमावद ॥ याज्ययायजतिप्रत्तिर्वैयाज्यापुण्यैवलक्ष्मी: पुण्यामेवतल्लक्ष्मींसंभावयतिपुण्यांलक्ष्मींसंस्कुरुते ॥ यत्पुण्यंनक्षत्रं ॥ तब्टट्कुर्वीतोपव्युषं ॥ यदावैसूर्य उदेति ॥ अथनक्षत्रंनैति ॥ यावतितत्रसूर्योगच्छेत् ॥ यत्रजघन्यंपश्येत् ॥तावतिकुर्वीतयत्कारीस्यात् ॥ पुण्याहएवकुरुते ॥ तानिवाएतानियमनक्षत्राणि ॥ यान्यवदेवनक्षत्राणि ॥ तेषुकुर्वीतयत्कारीस्यात् ॥ पुण्याहएवकुरुते ॥ मह्यंसकुटुंबिनेमहाजनान्नमस्कुर्वाणायाशीर्वचनमपेक्षमाणायाध्यकरिष्यमाणामुककर्मण:पुण्याहंभवंतोब्रुवंत्वितित्रिर्वदेत् ॥ ॐ पुण्याहमितित्रिर्विप्रा: ॥ ॐ स्वस्तयेवायुमुपब्रवामहैसोमंस्वस्तिभुवनस्ययस्पति: ॥ बृहस्पतिंसर्वगणंस्वस्तयेस्वतय:आदित्योसोभवंतुन: ॥ आदित्यउदयनीय:पथ्ययैवेत:स्वस्त्याप्रयंतिपथ्यांस्वस्तिमभ्यध्यंतिस्वस्त्येवेत:प्रयंतिस्वस्त्युध्यंतिस्वस्त्युध्यं ति ॥ ॐ स्वस्तिनइंद्रोवृध्दश्रवा: ॥ स्वस्तिन:पूषाविश्ववेदा: ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमि: ॥ स्वस्तिनोबृहस्पतिर्दधातु ॥ अष्टौदेवावसव:सोम्यास: ॥ चतस्त्रोदेवीरजरा:श्रविष्ठा: ॥ तेयज्ञंपांतुरजस:परस्तात् ॥ संवत्सरीणममृतस्वस्ति ॥ मह्यामित्यादिख्यायकर्मणेस्वस्तिभवंतोब्रुवंत्वितित्रि: ॥ ॐ आयुष्मतेस्वस्तीतिप्रतिवचनंत्रि: ॥ ॐ ऋध्दयामस्तोमंसनुयामवाजमानोमंत्रंसरथेहोपयातं ॥ यशोनपक्वंमधुगोष्वंतराभूतांशोअश्विनो:काममप्रा:॥ सर्वामृध्दिमृध्नुयामितितंवैतेजसैवपुरस्तात्पर्यभवच्छंदोभिर्मध्यतोक्षरैरुपरिष्टाद्गायत्र्यासर्वतोद्वादशाहंपरिभूयसर्वामृध्दिमार्ध्नोत्सर्वामृध्नोतियएवंवेद ॥ ॐ ऋध्द्यास्महव्यैर्नमसोपसध्य ॥ मित्रंदेवंमित्रधेयंनोअस्तु ॥ अनूराधान्हविषावर्धयंत: ॥ शतंजीवेशरद:सवीरा:॥ त्रीणित्रीणीवैदेवानामृध्दानि ॥ त्रीणिच्छंदासित्रीणिसर्वनानि ॥ त्रयइमेलोका: ॥ ऋध्ध्यामेवतद्वीर्यएषुलोकेषुप्रतितिष्ठति ॥ मह्यमित्यादिअस्यकर्मण:ऋध्दिंभवंतोब्रुवंत्वितित्रि: ॥ ॐ ऋध्ध्यतामितिप्रतिवचनंत्रि: ॥ ॐ श्रियेजातश्रियऽआनिरियायश्रियंवयोजरितृभ्योदधाति ॥ श्रियंवसानाअमृत्वमायन्भवंतिसत्यासमिथामितद्रौ ॥ श्रियएवैनंतच्छ्रियामादधातिसंततमृचावषट्कृत्यंसंतत्यैसंधीयतेप्रजयापशुभिर्यएवंवेद ॥ यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् ॥ अमुंचलोकमिदमुचसर्व ॥ तन्नोनक्षत्रमभिजिद्विजित्य ॥ श्रियंदधात्वहृणी यमानं ॥ अहेबुध्नियंमंत्रंमेगोपाय ॥ यमृषयस्त्रयिविदाविदु: ॥ ऋच:सामानियजूषि ॥साहिश्रीरमृतासतां ॥ एतैर्मन्त्रैर्नीराजनंकारयंति ॥ मह्यमित्यादिअमुककर्मण:श्रीरस्त्वितिभवंतोब्रुवंत्वितित्रि: ॥ ॐ अस्तुश्रीरितित्रिर्विप्रा: ॥ वर्षशतंपूर्णमस्तु ॥ गोत्राभिवृध्दिरस्तु ॥ कर्मांगदेवताप्रीयतां ॥ ॐ शुक्रेभिरंगैरजआततन्वान्क्रतुंपुनान:कविभि:पवित्रै: ॥ शोचिर्वसान:पर्यायुरपांश्रियोमितेबृहतीरनूना: ॥ तदप्येष:श्लोकोभिगीतोमरुत:परिवेष्टारोमरुत्तस्यावसन् गृहे ॥ आविक्षितस्यकामप्रेर्विश्वेदेवा:सभासदइति ॥ ततउत्तरकलशंदक्षिणहस्तेदक्षिणकलशंवामहस्तेगृहीत्वाताभ्यांधाराद्वयंसंततंपात्रेनिषिंचेदेभिर्मंत्रै: ॥ (वास्तोष्पतइतिचतसृणांवसिष्ठोवास्तोष्पतिस्त्रिष्टुबंत्यागायत्री उदकसेचनेवि०) ॐ वास्तोष्पतेप्रतिजानीह्यस्मान्त्स्वावेशोअनमीवोभवान: ॥ यत्त्वेमहेप्रतितन्नोजुषस्वशंनोभवद्विपदेशंचतुष्पदे ॥ वास्तोष्पतेप्रतरणोनएधिगयस्फानोगोभिरश्वेभिरिंदो ॥ अजगरास्तेसख्येस्यामपितेवपुत्रान्प्रतिनोजुषस्व ॥ वास्तोष्पतेशग्मयासंसदातेसक्षीमहिरण्वयागातुमत्या ॥ पाहिक्षेमउतयोगेवरंनोयूयंपातस्वस्तिभि:सदान ॥ अमीवहावास्तोष्पतेविश्वरुपाण्यविशन् ॥ सखासुशेवएधिन: ॥ शिवंशिवंशिवं ॥ तत:कर्त्तुर्वामत:पत्नीमुपवेश्यपात्रपातितजलेनपल्लवदूर्वाभिरुदड्मुखास्तिष्ठंतोविप्राअभिषिंचेयु: ॥ (समुद्रज्येष्ठाइतिचतसृणांवसिष्ठआपस्त्रिष्टुप् ॥ त्रायंतामितिसृणांविश्वामित्रजमदग्निवसिष्ठाआपोनुष्टुप् ॥ इमाआपइतितिसृणामैतरेयआपोनुष्टुब्जगत्यनुष्टुभ: ॥ देवस्यत्वेत्यस्यैतरेय:सविताश्विनौपूषाचयजु: ॥ समस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजाप्रतिर्बृहती ॥ अभिषेकेवि० ) ॥ॐ समुद्रज्येष्ठा:सलिलस्यमध्यात्पुनानायंत्यनिविशमाना: ॥ इंद्रोयावज्रीवृषभोररादताआपोदेवीरिहमामवंतु ॥ यासांराजावरुणोयातिमध्येसत्यानृतेअवपश्यंजनानां ॥ मधुश्चुत:शुचयोया:पावकास्ताआपोदेवीरिहमामवंतु ॥ यासुराजावरुणोयासुसोमोविश्वेदेवायासूर्जंमदंति ॥ वैश्वानरोयास्वग्नि:प्रविष्टस्ताआपोदेवीरिहमामवंतु ॥ त्रायंतामिहदेवास्त्रायतांमरुतांगण: ॥ त्रायंतांविश्वभूतानियथायमरपाअसत् ॥ आपइद्वाउभेषजीरापोअमीवचातनी: ॥ आप:सर्वस्यभेषजीस्तास्तेकृण्वंतुभेषजं ॥ हस्ताभ्यांदशशाखाभ्यांजिव्हावाच:पुरोगवी ॥ अनामयित्नुभ्यांत्वाताभ्यांत्वोपस्पृशामसि ॥ इमाआप:शिवतमाइमा:सर्वस्यभेषजी: ॥ इमाराष्ट्रस्यवर्धनीरिमाराष्ट्रभृतोमृता: ॥ याभिरिंद्रमभ्यषिंचत्प्रजापति:सोमंराजानंवरुणंयमंमनुं ॥ ताभिरभ्दिरभिषिंचामित्वामहंराज्ञांत्वमधिराजोभवेह ॥ महांतंत्वामहीनांसम्राजंचर्षणीनांदेवीजनित्र्यजीजनभ्दद्राजनित्र्यजीजनत् ॥ देवस्त्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामग्नेस्तेजसासूर्यस्यवर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ बलायश्रियैयशसेन्नाध्याय ॥ ॐ भूर्भव:स्व: अमृताभिषेकोऽस्तु ॥ शांति:पुष्टिस्तुष्टिश्चास्तु ॥ द्विराचामेत् ॥ इतिपुण्याहवाचनम् ॥ N/A References : N/A Last Updated : July 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP