संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथगृह्याग्ने:पुन:संधानम् अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथगृह्याग्ने:पुन:संधानम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथगृह्याग्ने:पुन:संधानम् Translation - भाषांतर श्री: ॥ पत्न्यासहकृतस्नानादि:कृतनित्यक्रियोदेशकालौसंकीर्त्यममगृह्याग्निविच्छेददिनादारभ्यैतावंतंकालंगृह्याग्निविच्छेदजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थं गृह्याग्निविच्छेददिनादारभ्यैतावदब्दपर्यंतंप्रत्यब्दमेकैककृच्छ्रं यथाशक्तितत्प्रत्याम्नायगोनिष्क्रयीभूतरजतनिष्कार्धनिष्कपादनिष्कपादार्धान्यतमद्रव्यदानेनाहमाचरिष्ये ॥ तथाएतावद्दिनेषुगृह्याग्निविच्छेदेनलुप्तसायंप्रातरौपासनहोमद्रव्यं तथालुप्तदर्शपौर्णमासस्थालीपाकादिकर्मपर्याप्तव्राह्याज्यद्रव्यं तन्निष्क्रयंवादातुमहमुत्सृज्ये ॥ इतिसंकल्प्यकृत्वापुनर्देशकालौस्मृत्वाविच्छिन्नस्यगृह्याग्ने:पुन:संधानंकरिष्यइतिसंकल्प्य स्थंडिलोपलेपनोल्लेखनाभ्युक्षणद्विजनामाग्निप्रतिष्ठापनानिकृत्वान्वाधानंकुर्यात् ॥ समिव्दृयमादायपुन:संधानहोमेदेवतापरीग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिंप्रजापतिंचाघारदेवतेआज्यने ॥ अत्रप्रधानं त्रिरग्निंपवमानंसकृदग्निंप्रजापतिंचाज्येनअर्यमाग्निंवरुणाग्निंपूषाग्निंप्रजापतिंचलाजद्रव्येन सूर्यासावित्रींचतुर्वारमाज्यद्रव्येण शेषेणस्विष्टकृतमित्यादिपरिसमूहनादिकृत्वा ॥ पात्रासादनेविशेष: ॥ प्रोक्षणींस्त्रुवंप्रणीतामाज्यपात्रंलाजशूर्पंइध्मंबर्हिश्च दधिप्राशनपक्षेदधिचासादयेत् ॥ आज्यसंस्कारादिकृत्वा ॥ तत्राज्येनसहलाजानामपिपर्यग्निकरणं ॥ आज्योत्पवनमात्रेकृतेलाजानांत्रि:प्रोक्षणं ॥ स्त्रुवसंमार्जनादि ॥ पत्न्यान्वारब्धइध्माधानाध्याघारांतंकुर्यान्नचक्षुषी ॥ अग्नआयूंषितितिसृणांशतंवैखासाऋषय: ॥ अग्नि:पवमानोदेवता ॥ गायत्रीछंद: ॥ पुन:संधानप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्नआयूंषिपवसआसवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्निऋषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥ अग्नये० ॥ ॐ अग्नपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिंमयिपोषंस्वाहा ॥ अग्नये० ॥ त्वमर्यमावसुश्रुतोग्निस्त्रिष्टुप् ॥ विनियोग:प्राग्वत् ॥ॐ त्वमर्यमाभवसियत्कनीनाम्नाम्स्वधावन्गुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यद्दंपतीसमनसाकृणोषिस्वाहा ॥ अग्नयइदं० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ विनियोग:प्राग्वत् ॥ ॐ प्रजापतेन० स्वाहा ॥ प्रजापतयइदं० ॥ अथपत्न्या:प्रक्षालितेंजलौपतिराज्येनोपस्तीर्यद्विर्लाजानोप्यपंचावत्तीतुत्रिरोप्यशूर्पस्थानभिघार्य अंजलिस्थानप्यभिघार्य स्वयमुपविष्टएवतिष्ठंत्याअंजलिंस्वकराभ्यांधृत्वा अर्यमणंवरुणंपूषणमितितिसृणांवामदेवोर्यमाग्निर्वरुणाग्नि:पूषाग्निरनुष्टुप् ॥ अग्निपुन:संधानलाजहोमेविनियोग: ॥ ॐ अर्यमणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमुंचातुनामुतस्वाहेतिपठितमंत्रातेअंजलिमविच्छिंदंती अंगुल्यग्रैरंगुलिवामपार्श्वेनवापत्नीजुहुयात् ॥ एवमग्रेपि ॥ अर्यम्णेग्नयइदं० ॥ ॐ वरुणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोवरुण:प्रेतोमुंचातुनामुतस्वाहा वरुणायाग्नयइदं० ॥ ॐ पूषणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुंचातुनामुतस्वाहा पूष्णेग्नय० ॥ तत:शूर्पकोणेनशिष्टान् सर्वान् लाजान्पति:पत्नीवाभ्यात्मंप्रजापतिंध्यायन् जुहुयात् ॥ प्रजापतयइदंनमम ॥ लाजानांस्विष्टकृन्नास्ति ॥ तिष्ठन्होमेकृतेउपविश्याज्यंपतिर्जुहुयात् ॥ आन:प्रजामितिचतसृणांसूर्यावासावित्रीसूर्यासावित्रीआध्याजगतीद्वितीयात्रिष्टुबंत्येद्वेअनुष्टुभौ ॥ अग्निपुन:संधानाज्यहोमे० ॥ ॐ आन:प्रजां० स्वाहा ॥ सूर्यासावित्र्याइदं० ॥ एवमग्रेपित्याग: ॥ ॐ अघोर० स्वाहा ॥इमांत्व० स्वाहा ॥ ॐ सम्राज्ञी० स्वाहा ॥ समंजंत्वित्यस्यसूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् ॥ (दधिप्राशने) आज्यशेषेणहृदयांजनेवावि० ॥ ॐ समंजंतुवि० ॥ एतेनस्वयंदधिप्राश्नीयात् ॥ आज्यशेषेणहृदयांजनंकुर्यात् ॥ पत्न्यैचदधिप्रयच्छेत् ॥ साचतूष्णींप्राश्नीयात् ॥स्वहृदयांजनपक्षेपन्त्याअपितूष्णींहृदयांजनं ॥ अथाज्येनयदस्यकर्मणइतिस्विष्टकृतंहुत्वाइध्मसंनहहोमादिकर्मशेषंसमापयेत् ॥ अत्रकारिका ॥ उपलेपादिकंकुर्यादाघारांतंविवाहवत् ॥ विवाहाज्याहुतीर्हुत्वालाजहोमोभवेदिह ॥ गृहप्रवेशनीयाश्चहुत्वास्याध्दृदयांजनं ॥ परिणीत्यादिनास्त्यत्रलाजानावपतिस्वयं ॥ इतिविच्छिन्नस्यगृह्याग्ने:पुन:संधानं ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP