संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथपिंडपितृयज्ञ: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथपिंडपितृयज्ञ: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथपिंडपितृयज्ञ: Translation - भाषांतर श्री: ॥ सचाऽनाहिताग्निनापिकार्य: ॥ एवमनाहिताग्निर्नित्येश्रपयित्वातिप्रणीयजुहुयादितिसूत्रात् ॥ नित्येऔपासनाग्नावित्यर्थ: ॥तस्यचायमाहिताग्नितोविशेष: ॥ हवि:श्रवणंकृत्वातिप्रणयनंकर्तव्यम् ॥ ततोतिप्रणीतस्योपसमाधानंपरिस्तरणंचकृत्वाततोर्वागतिप्रणीतादित्यादिसमानम् ॥ यस्मिन्नहोरात्रेपर्वप्रतिपदो:संधिस्तत्रापराह्णेयागदिनेवापिंडयज्ञ:कार्य: ॥ अहोरात्रतिथिसंधौतुयागपूर्वदिनएवेतिवृत्तिकृत् ॥ उक्तापराह्णेऔपासनाग्निंप्रज्वाल्यशुचिराचांत:प्राणानायम्यधृतपवित्रोदेशकालौस्मृत्वा पितृतृप्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थंपिंडपितृयज्ञंकरिष्ये इतिसंकल्प्याग्नेयाभिमुखोग्निंध्यात्वापरिसमुह्याग्नेय्यग्रकैर्दर्भै:परिस्तीर्याग्नेरीशान्यांवायव्यांवाग्नेयाग्रकान्दर्भानास्तीर्य पर्युक्ष्यतेषुचरुस्थालीशूर्पस्फ्योलूखलमुसलस्त्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नकुशेध्ममेक्षणजलपूर्णकमंडलूनितियथायोग्यंन्यग्बिलान्येकैकशआग्नेयसंस्थान्यासादयेत् ॥ काष्ठखड्ग:स्फ्य: ॥ आज्यधारणार्थांगंध्रुवा ॥ शेषंप्रसिध्दं ॥ पात्राण्युत्तानानिकृत्वाकमंडलुजलेनप्रोक्ष्यस्थालींशूर्पंचादायाग्नेर्दक्षिणतोवस्थितव्रीहिमच्छकटंदक्षिणतआरुह्य स्थालींशूर्पेनिधायव्रीहिभि:पूरयित्वायथास्थालीमुखोपरिस्था:शूर्पेपतंतितथानिमृज्य स्थाल्यास्यदेशत:पतितान्व्रीहीन् शकटेप्रास्याग्ने:पश्चिमतोवायव्यग्रीवेआस्तीर्णेकृष्णाजिनउलूखलंनिधाय तत्रस्थालीस्थान् व्रीहीन्निधायाग्नेय्यभिमुख्यातिष्ठंत्पापन्त्यावहतान् सकृत्फलीकृतानविविच्यसकृत्प्रक्षालितान् जीवतंडुलान् श्रपयेत् ॥ चरुमनुव्दास्यैवाग्नेरेकंप्रदीप्तमुल्मुकंगृहीत्वाग्नेराग्नेय्यांदिशिकृतेशुचिस्थंडिले ॥ येरुपाणिप्रतिमुंचमानाअसुरा:संत:स्वधयाचरंति ॥ परापुरोनिपुरोयेभरंत्यग्निष्टाँल्लोकात्प्रणुदात्वस्मात् इतिमंत्रेणनीत्वातमतिप्रणीताख्यमग्निमाग्नेयाग्रकै:कुशै:परिस्तीर्यदक्षिणाभिमुख: अपहताअसुरारक्षांसिवेदिषइतिमंत्रेणौपासनाइतिप्रणीतयोरंतरालेस्फ्येनसत्योत्तरपाणिव्दयगृहीतेनकुशमूलेनवाग्नेयाभिमुखांलेखामुल्लिख्यतामभ्दिरभ्युक्ष्यसकृदाच्छिन्नबर्हिषाच्छाध्यानुत्पूतमाज्यंविलापितमुत्पुतंनवनीतंवाध्रुवायामासिच्याग्नेर्दक्षिणत:कुशेष्वासाध्य स्त्रुवंसंमृज्यतेनध्रुवास्थमाज्यमादायचरुमभिघार्योदगुद्वास्यातिप्रणीताग्ने:पश्चादृर्भेष्वासाध्यतक्षिणतोभ्यंजनांजनकशिपूपबर्हणान्यासादयेत् ॥ ततोतिप्रणीताग्ने:पश्चिमउपविश्यार्चयित्वाप्राचीनावीत्याभिघारितमरत्निमितंपंचदशदारुकमिध्मंपितृतीर्थेनतूष्णीमग्नावभ्याधायस्त्रुवेणाजयमादायमेक्षणमुपस्तीर्यौध्दृतचरुंद्विधाविभज्योत्तरभागमध्यादंगुष्ठपर्वमात्रंमेक्षणेनावदाय पुन:पूर्वभागादवदायपात्रस्थमवत्तंचाभिघार्यसोमायापितृमतेस्वधानमइत्यतिप्रणीताग्नेर्दक्षिणभागेपराचीनपाणिर्हुत्वासोमायपितृमतइदंनममेतित्यजेत् ॥ पुन:पूर्ववद्दक्षिणभागस्थचरोरवदायाग्नयेकव्यवाहनायस्वधानमइत्यग्नेरुत्तरभागेपूर्वध्दुत्वाअग्नयेकव्यवाहनायेदंनममेतित्यक्त्वोपवीतीतूष्णींमेक्षणमग्नावनुप्रहरेत् ॥ स्वधानमस्थानेस्वाहाकारेणवाहोमस्तदाहुत्योर्व्यत्ययउपवीतिताचमेक्षणानुप्रहरणपर्यंतं ॥ यथाग्नयेकव्यवाहनायस्वाहेतिप्रथमाहुति: ॥ सोमायपितृमतेस्वाहेद्वितीयात्यागश्चआहुतिवत् ॥ तत:प्राचीनावीती ॥ पूर्वकृतलेखायांस्थापितकमंडलुजलंदक्षिणहस्तेनपितृतीर्थेनाग्नेयापवर्ग शुंधंतांपितर:शुंधंतांपितामहा:शुंधंतांप्रपितामहा: इतिमंत्रैस्त्रिर्निनयेत् ॥ ततोहुतशेषेणसाज्येनत्रीन्पिंडान्कृत्वातस्यांलेखायां प्राचीनावीती पराचीनपाणि:पितृतीर्थेनातान्पिंडानाग्नेयापवर्गपित्रादिभ्योदध्यात् ॥ तध्यथा ॥ एतत्तेऽमुकशर्मन् येचत्वामत्रानुतेभ्यश्चेतिपित्रेएवंपितामहप्रपितामहयोरपि ॥ तत: अत्रपितरोमादयध्वंयथाभागमावृषायध्वमितिसकृत्पिंडाननुमंत्र्यसव्येनपार्श्वेनवावृत्त्योदड्मुखोभूत्वा यथाशक्तिप्राणान्नियम्याभिपर्यावृत्त्यअमीमदंतपितरोयथाभगमावृषायीषत इतिपुनस्ताननुमंत्र्य उपवीती चरुशेषमवघ्रायाचम्य प्राचीनावीतीपूर्ववच्छुंधंतांपितरइत्याध्यैस्त्रिभि:कमंडलुजलंपिंडांतेनिनीयाऽमुकशर्मन्नभ्यंक्ष्वेतित्रिभ्योपिपिंडेष्वभ्यंजनंतैलंघृतंवादर्भेणदत्त्वाऽमुकशर्मन्नंक्ष्वेतितथैवांजनंध्यात् ॥ अथ एतद्व:पितरोवासोमानोतोन्यत्पितरोयुड्ध्वंइतिप्रतिपिंडंमन्त्रावृत्त्यानववासोदशांपंचाशव्दर्षाधिकंवयश्चेत्स्वप्रकोष्ठहृदयान्यतरल्लोमवादत्त्वा कशिपूपबर्हणेनिवेध्य सव्योत्तराभ्यांकृतांजलिराग्नेयाभिमुख:पिंडानुपतिष्ठेतमंत्रै: ॥ तध्यथा ॥ नमोव:पितरइषेनमोव:पितरोनमएतायुष्माकंपितरइमाअस्माकंजीवावोजीवंतइहसंत:स्याम ॥ मनोन्वाहुवामहेनाराशंसेनसोमेन ॥ पितृणांचमन्मभि: ॥ आतएतुमन:पुन:क्रत्वेदक्षायजीवसे ॥ ज्योक्चसूर्यदृशे॥ पुनर्न:पितरोमनोददातुदैव्योजन: ॥ जीवंव्रातंसचेमहि ॥४॥इतिचतसृभिर्मंत्रैरुपस्थाय ॥ अथ परेतनपितर:सोम्यासोगंभीरेभि:पथिभि:पूर्विणेभि: दत्त्वायास्मभ्यंद्रविणेहभद्रंरयिंचन:सर्ववीरंनियच्छत ॥ इतिमंत्रेणपिंडानाग्नेयाभिमुखंसकृदुत्तानेनहस्तेनचालयेत् ॥ तत: ॥ अग्नेतमध्याश्वंनस्तोमै:क्रतुंनभद्रंहृदिस्पृशं ॥ ऋध्यामातओहै: ॥ इतिऔपासनाग्निसमीपंगत्व ॥ यदंतरिक्षंपृथ्वीमुतध्यांयन्मातरंपितरंवाजिहिंसिम ॥अग्निर्मातस्मादेनसोगार्हपत्य:प्रमुंचतुकरोतुमामनेनसं ॥ इतिमंत्रंगार्हपत्यपदरहितंजपेत् ॥केचित्तुव्दाभ्यामपिमंत्राभ्यामग्न्युपस्थानमाहु: ॥ अथवीरंमेदत्तपितरइतिमंत्रेणमध्यमंपिंडमादायसुपुत्रप्राप्त्यैपत्न्याप्राशयेत् ॥ आधत्तपितरोगर्भंकुमारंपुष्करस्त्रजं ॥ यथायमरपाअसत् ॥ इतिमंत्रेण अयंमंत्र:पत्न्या: इतरौपिंडावप्स्वतिप्रणीतेवाक्षिपेत् ॥ आसादितानांव्दादशपात्राणांमध्येसकृदाच्छिन्नबर्हिरिध्ममेक्षणानांविनियुक्तत्वात् ॥ अवशिष्टानियानिनवतेषांव्दंव्दंशउत्सर्ग: ॥ अवशिष्टमेकंतृणेनसहोत्सृजेत् ॥ अत्रपित्रादिनामाज्ञानेतत्तन्नामस्थानीतत् इत्यस्यानंतरंतत् पितामहप्रपितामहइतिशब्दा:क्रमेणपिंडदानमंत्रेप्रयोज्या: ॥ एकस्यव्दयोर्वानामाज्ञानेपियथास्थानं ततादिशब्दप्रयोगोऽन्यत्रनामप्रयोग: ॥ अत्रपित्रादीनांमध्येएकस्यव्दयोर्वाजीवनेतत्पिंडदानकालेपूर्वोक्तपिंडदानमंत्रेणस्वाहाकारांतेनजीवदुद्देशेनाग्नौसव्यपाणिनापिंडहोम: ॥ त्रयाणामपिजीवनेपितृमातृजीवनेवात्रयोपिपिंडाहेतव्या: ॥ अथवापिंडदानरहितोहोमांतएवपिंडपितृयज्ञ: ॥ अनारंभोवापिंडपितृयज्ञस्य ॥ अन्येतुनजीवंतमपिदध्यादितिश्रुते: ॥ पितरितदादित्रिकेवाजीवतित्रिभ्योपिहोमएवनभूमौपिंडदानम् ॥जीवत्पितामहस्यपित्रेपिंडंदत्त्वाव्दयोर्होम: ॥ जीवत्प्रपितामहस्याध्ययो:पिंड:प्रपितामहस्यहोम: ॥ होमेचयज्ञोपवीतितासर्वत्र ॥ इत्याध्याकरतोज्ञेयम् ॥ अत्रचरुश्रपणहोमयोरधिकरणविकल्पमाहापस्तंब: ॥ सोयमेवंविहितस्यानाहिताग्नेरौपासनेश्रपणंहोमश्चातिप्रणीतेवाजुहुयादिति ॥ एतव्ध्याख्यारुद्रदत्तीया ॥ अनाहिताग्नेर्दक्षिणाग्निस्थानीयऔपासनेश्रपणहोमौभवत: ॥ अथवा औपासनएवश्रपयित्वाततोग्निंदक्षिणाप्रांचंप्रणीयतस्मिन् जुहुयादित्यर्थइति ॥ एवंचौपासनेएवहोम: अतिप्रणीतस्त्वदृष्टार्थइतिकेचित् ॥ अन्येतुनित्येश्रपयित्वातिप्रणीयजुहुयादित्याश्वलायनीयाव्दाक्यसमभिव्याहारात्सन्निधानादतिप्रणीतदृष्टार्थत्वाच्चातिप्रणीतएवहोमइति ॥ हरदत्तभाष्यमप्येवम् ॥ अत्रबहुलेख्यमपिपध्दतित्वान्नलिखितम् ॥ सयुक्तिकत्वात्तुअतिप्रणीतेहोमइत्युक्तम् ॥ यव्दायथासंप्रदायंविचार्यकार्यम् ॥ सकृदाच्छिन्नकुशाख्यपिंडबर्हिरभावेकाशादिग्राह्यम् ॥ तदुक्तंविष्णुधर्मोत्तरे ॥ पिंडनिर्वपणंकार्यकुशाभावेविचक्षणै: ॥ काशेषुराजदूर्वासुपवित्रेपरमेस्मृते इति ॥ राजदूर्वाअतिदीर्घदूर्वा: ॥ योनाहिताग्निरौपासनाग्निमान्मृतपितृक: सवक्ष्यमाणं पार्वणश्राध्दंपिंडपितृयज्ञंव्यतिषंगेणकुर्यात् ॥ व्यतिषंगोनामव्दयोर्विच्छिध्यसहानुष्ठानात्मकस्तंत्रविशेष: ॥ तत्रपार्वणश्राध्दंपिंडपितृयज्ञंचव्यतिषंगेणकरिष्येइतिसंकल्प्येध्माधानांतंतत्प्राक्तनंपितृयज्ञंकृत्वाब्राह्मणपच्छौचादिआच्छादनांतंश्राध्दंपुनरिध्माधानादिपितृयज्ञआमेक्षणानुप्रहरणमथपार्वणमत्रानुज्ञानादथोभयशेषंक्रमेणसमापयेदितिक्रम: ॥ आहिताग्निस्तुसर्वाधान्यर्धाधानीवादक्षिणाग्नावेवपिंडपितृयज्ञंकृत्वापार्वणश्राध्दंपृथगेवकुर्यात् ॥ तत्प्रकारंतुश्राध्दप्रयोगेवक्ष्याम: ॥ इतिप्रयोगरत्नेपिंडपितृयज्ञप्रयोग: ॥ N/A References : N/A Last Updated : August 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP