संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथस्थालीपाकप्रयोग: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथस्थालीपाकप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथस्थालीपाकप्रयोग: Translation - भाषांतर श्री: ॥ तत्रयजमान:कृतनित्यक्रिय:शुचि:परिहितधौतवासा:पीठोपवशिष्ट:प्राड्मुखोवाग्यतोद्विराचम्यदर्भपाणि:प्राणानायम्यदेशकालौसंकीर्त्यममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थममुककर्मकरिष्ये ॥ तदंगहोमंकर्तुंस्थंडिलसंस्कारादिकरिष्ये ॥ इतिसंकल्प्य गोमयादिलिप्तेशुध्ददेशेशुध्दमृदाऐशान्यारंभमुदक्संथंचतुरंगुलोन्नतमंगुलोन्नतंवाचतुर्दिक्षुमिलित्वाद्विसप्तत्यंगुलपरिधिकंफलितमष्टादशांगुलविस्तृतं होमानुसारेणतदधिकंवानतुतोन्यूनं मध्योन्नतंस्थंडिलंकुर्यात् ॥ तद्गोमयेनप्रदक्षिणमुपलिप्यदक्षिणेष्टौउदीच्यांद्वेप्रतीच्यांचतु:प्राच्यामर्धमित्यंगुलानित्यक्त्वा दक्षिणोप्रक्रमामुदक्संस्थांप्रादेशमात्रामेकांलेखांलिखित्वातस्यादक्षिणोत्तरयो:प्रागायतेपूर्वरेखयाअसंसृष्टेप्रादेशसंमितेद्वेलेखेलिखित्वा तयोर्मध्येपरस्परमसंसृष्टाउदक्संस्था:प्रागायता:प्रादेशसंमितास्तिस्त्रइतिषड्रलेखायज्ञियशकलमूलेनदक्षिणहस्तेनोल्लिख्यलेखासुतच्छकलमुदगग्रंथनिधाय स्थंडिलमभ्दिरभ्युक्ष्यशकलंभंक्त्वाग्नेय्यांनिरस्यपाणिंप्रक्षाल्यवाग्यतोभवेत् ॥ ततसैजसेनासंभवेमृन्मयेनवापात्रयुग्मेसंपुटीकृत्यसुवासिन्याश्रोत्रियागारात्स्वगृहाद्वासमृध्दंनिर्धूमग्निमाहृतंस्थंडिलादाग्न्येय्यांनिधाय ॥ जुष्टोदमूनाआत्रेयोवसुश्रुतोग्निस्त्रिष्टुप् ॥एह्यग्नेराहूगणोगोतमोग्निस्त्रिष्टुप् ॥ अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथिर्दुरोणइमंनोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्नेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एह्यग्नइहहोतानिषीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविश्वमिन्वेयजामहेसौ मनसायदेवान् ॥ इत्यक्षतैरावाह्याच्छादनंदूरीकृत्य ॥ समस्तव्याहृतीनांपरमेष्ठीप्रजापति: प्रजापतिर्बृहती ॥ अग्निप्रतिष्ठापने विनियोग: ॥ ॐ भूर्भव:स्वरित्यात्माभिमुखंपाणिभ्यांषट्सुलेखास्वमुकनामानमग्निंप्रतिष्ठापयामीत्यग्निंप्रतिष्ठाप्य ॥ प्रोक्षितेधनानिनिक्षिप्यवेणुधमन्याप्रबोध्यध्यायेदेवम् ॥ चत्वारिश्रृंगागोतमोवामदेवोग्निस्त्रिष्टुप् ॥ अग्निमूर्तिध्यानेविनियोग: ॥ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहादेवोमर्त्यांऽआविवेश ॥ सप्तहस्तश्चतु:श्रृंग:सप्तजिह्वोद्विशीर्षक: ॥ त्रिपात्प्रसन्नवदन:सुखासीन:शुचिस्मित: ॥ स्वाहांतुदक्षिणेपार्श्वेदेवींवामेस्वधांतथा ॥ बिभ्रदृक्षिणहस्तैस्तुशक्तिमन्नंस्त्रुचंस्त्रुवं ॥ तोमरंव्यजनंवामैर्घृतपात्रंचधारयन् ॥ मेषारुढोजटाबध्दोगौरवर्णोमहौजस: ॥ धूम्रध्वजोलोहिताक्ष:सप्तार्चि:सर्वकामद: ॥ आत्माभिमुखमासीनएवंरुपोहुताशन: ॥ ततोयदिसमिदादौसमोरोपितोग्निस्तर्हिप्रत्यवरोहणंकार्यम् ॥ तच्चैवम् ॥ प्रत्यवरोहेत्यस्यहिरण्यगर्भोग्निस्त्रिष्टुप् ॥ समारोपितस्याग्ने:प्रत्यवरोहणेविनियोग: ॥ ॐ प्रत्यवरोहजातवेद:पुनस्त्वंदेवेभ्योहव्यंहन:प्रजानन् ॥ प्रजांपुष्टिंरयिमस्मासुधेह्यथाभवयजमानायशंयो: ॥ इतिमंत्रेणसमारोपिताग्निसमिधंस्थापितेग्नौप्रक्षिपेदिति ॥ एतदंतंसंस्थापितेग्नौहोमेकार्यं ॥ नित्यधारितहोमेतुनैतावत् ॥ तत:पार्वणस्थालीपाकेप्रधानदिनात्पूर्वदिनेसध्यस्कालायांपौर्णमास्यामशक्तौचप्रधानदिनएववाप्रातरौपासनंहुत्वान्वाधानंकुर्यात् ॥ तच्चेत्थं ॥ आचम्यप्राणानायम्यसमिदृद्वयंत्रयंवादायदेशकालौस्मृत्वा ममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीर्त्यर्थं दर्शपूर्णमासाभ्यांस्थालीपाकाभ्यांयक्ष्ये ॥ तत्रेदानींपूर्णमासस्थालीपाकेनयक्ष्ये ॥ दर्शेतुपूर्वसंकल्पितेनदर्शस्थालीपाकेनयक्ष्यइतिविशेष: ॥ तत्रदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिंचाघारदेवतेआज्येनाग्नीषौमौचक्षुषीआज्येन ॥ अग्निमग्नीषोमौचप्रधानदेवतेचरुद्रव्येण ॥ दर्शेतुअग्निमिंद्राग्नीचप्रधानदेवतेचरुद्रव्येण इतिविशेष: ॥ शेषेणस्विष्टकृतमग्निमिध्मसहसन्नहनेनरुद्रमयासमग्निंदेवान् विष्णुमग्निंवायुंसूर्यंप्रजापतिंचैता:प्रायश्चित्तदेवताआज्येन ज्ञाताज्ञातदोषनिबर्हणार्थंत्रिवारमग्निंमरुतश्चाज्येनविश्वान् देवान् संस्त्रावेणांगदेवता:प्रधानदेवता:सर्वा:सन्निहिता:संतुएवंसांगोपांगेनकर्मणाश्वोयक्ष्ये ॥ सध्यस्कालेकर्तव्येतुसध्योयक्ष्ये इतिसंकल्प्यतूष्णींसमस्तव्याहृतिभिर्वासमिध्दोमंकुर्यात् ॥ व्याहृतिपक्षे समस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती अन्वाधानसमिध्दोमेविनियोग: ॥ ॐ भूर्भव:स्व:स्वाहा ॥ प्रजापतयइदंनमम ॥ (तंचाग्निंधारयेत् ॥ संकटेतुतुभ्यंताइर्त्यृचाज्याहुतिंहुत्वासमारोपयेत् ॥ तध्यथा ॥ अग्ने: समारोपकं० ॥ तुभ्यंताविरुपोग्निर्गायत्री ॥ कृतान्वाधानाग्ने: समारोपाधिकार्थंप्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ तुभ्यंताअंगिरस्तमविश्वा:सुक्षितय:पृथक् ॥ अग्नेकामाययेमिरेस्वाहा ॥ अग्नयइदंनमम) व्रतलोपाहुतिंहुत्वा ॥ तत:प्रतिपदिप्रातरौपासनंहुत्वाग्निंपरिसमुह्यपरिस्तृणीयात् ॥ तच्चेत्थं ॥ अग्न्यायतनादष्टांगुलपरिमितेदेशेऐशानींदिशमारभ्यप्रदक्षिणंसमंतात्सोदकेनपाणिनात्रि:परिमृज्यैकादशांगुलमितेदेशेप्राच्यादिषुपूर्वमुपरिनिहितदर्भै:परिस्तृणीयात् ॥तत्रप्राच्यांप्रतीच्यांचोदगग्रादर्भा: अवाच्यामुदीच्यांचप्रागग्रा: पूर्वपश्चात्परिस्तरणमूलयोरुपरिदक्षिणपरिस्तरणं उत्तरपरिस्तरणंतुतदग्रयोरधस्तात् ॥ तेचदर्भाअनियतसंख्याएकैकस्यांदिशिचत्वारश्चत्वारइत्येवंषोडशवा ॥ ततोग्नेर्द्क्षिणतोब्रह्मासनार्थंउत्तरतश्चपात्रासादननार्थंकांश्चित्प्रागग्रान्दर्भानास्तृणीयात् ॥ अग्नेरैशानीतस्त्रिरंभसापरिषिच्य उत्तरास्तीर्णेषुदर्भेषुदक्षिणसव्यपाणिभ्यांक्रमेण चरुस्थालीप्रोक्षण्यौ दर्वीस्त्रुवौ प्रणीताज्यपात्रे इध्माबर्हिषीशूर्पकृष्णाजिने उलूखलमुसले चेतिद्वेद्वेउदगपवर्गंप्राक्संस्थंचन्युब्जान्यासादयेत् ॥ आज्यमात्रहोमेतु प्रोक्षणीस्त्रुवौ प्रणीताज्यपात्रेइध्माबर्हिषीचेत्येतावतामेवासादनम् ॥ तत:प्रोक्षणीपात्रमुत्तानंकृत्वातत्रानंतर्गर्भितसाग्रसमस्थूलप्रादेशमात्रकुशद्वयरुपेपवित्रेनिधायशुध्दाभिरभ्दिस्तत्पात्रंपूरयित्व गंधपुष्पादिक्षिप्त्वाहस्तयोरंगुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यांपाणिभ्यामुदगग्रेपृथक् पवित्रेधृत्वाअपस्त्रिरुत्पूयपात्राण्युत्तानानिकृत्त्वा इध्मंविस्त्रस्यसर्वाणिपात्राणित्रि:प्रोक्षेत् ॥ ताअप:किंचित्कमंडलौक्षिपेदित्येके ॥ ततोयथोक्तलक्षणमीशानदिगवस्थितंब्रह्माणमस्मिन्कर्मणिब्रह्माणंत्वामहंवृणइतितत्पाणिंपाणिगृहीत्वावृणुयात् ॥बृह्यावृतोस्मीत्युक्त्वाप्राड्मुखोयज्ञोपवीत्याचम्यसमस्तपाण्यंगुष्ठोभूत्वाग्रेणाग्निंपरीत्यदक्षिणतउदड्मुख:स्थित्वाआसनार्थदर्भेषुदक्षिणभागस्थमेकंदर्भमंगुष्ठानामिकाभ्यांगृहीत्वा निरस्त:परावसु:इतिनैऋत्यांनिरस्याप:स्पृष्ट्वा इदमहमर्वावसो:सदनेसीदामीत्युक्त्वोदड्मुखएववामोरुपरिदक्षिणपादंसंस्थाप्योपविश्ययजमानेनगंधाक्षतादिभिरर्चित:सन् ॥ ॐ बृहस्पतिर्बह्माब्रह्मसदनआशिष्यतेबृहस्पतयेयज्ञंगोपाय (सयज्ञंपाहिसयज्ञपतिंपाहिसमांपाहि) इतिजपित्वासदायज्ञमनाएववर्तेत ॥ ततोयजमान:प्रणीतापात्रमग्ने:प्रत्यड्निधायतत्रप्रागपवित्रेनिधायोत्पूताभिरभ्दिस्तत्पात्रंपूरयित्वागंधपुष्पाक्षतान्निक्षिप्य ब्रह्मन्नप:प्रणेष्यामीतिपृच्छेत् ॥ ततोब्रह्माउपांशुभूर्भव:स्वर्बृहस्पतिप्रसूत: ॥ उच्चै: ॐ प्रणय इत्युनुजानीयात् ॥ कर्तापूर्णपात्रंमुखसमुध्दृत्याग्नेरुत्तरतोदर्भेषुनिधायतेपवित्रेगृहीत्वान्यैर्दर्भैराच्छादयेत् ॥ (तत:प्रत्यगग्ने:कुशेषुशूर्पंनिधायतत्रप्रागग्रेपवित्रेनिधाय अग्नयेत्वाजुष्टंनिर्वपामि)इतिमंत्रावृत्त्याव्रीहीणांयवानांवाचतुरश्चतुरोमुष्टीन्निरुप्याग्नीषोमाभ्यांत्वाजुष्टनिर्वपामीतितथैवनिरुप्यतेपवित्रेनिरुप्तव्रीहीणामुपरिनिधायोत्पूताभिरभ्दिरग्नयेत्वाजुष्टंप्रोक्षामीतिनिर्वापसंख्ययाप्रोक्षेत् ॥ एवमग्नीषोमाभ्यांत्वाजुष्टंप्रोक्षामीतितथैवप्रोक्षेत् ॥ दर्शेतुअग्नीषोमस्थानेइंद्राग्निभ्यांत्वेत्यादिनिर्वापेप्रोक्षणेचविशेष: ॥ एवंनाममंत्रकहोमेनिर्वाप:प्रोक्षणंचयथाप्रधानदैवतंदेवतानामग्रहणेकार्यम् ॥ समंत्रकहोमेतुश्रवणाकर्मादौतूष्णींचतुरश्चतुरोमुष्टीन्निर्वपेत् प्रोक्षेच्च ॥तत:पात्राणामुत्तरत:प्राग्ग्रीवमास्तीर्णेऊर्ध्वलोम्निकृष्णाजिनेनिहितेउलूखलेमुसलेनपत्न्यवहत्यशूर्पेणतुषादीन् संशोध्यत्रि:शुक्लीकुर्यात् ॥ ततश्च तांस्त्रि:प्रक्षालितान्पृथक् पात्रीकपात्रेवाअविग्धमनवस्त्रावितमंतरुष्मपक्वंसुश्रृतंचरुंपचेत् ॥ ततस्तेपवित्रेआज्यपात्रेनिधायतत्पात्रंपुरत:संस्थाप्यतस्मिन्नाज्यमासिच्य अग्नेरुत्तरत:स्थितांगारान्भस्मनासहाग्नेरुदक् परिस्तरणाब्दहिर्निरुह्य तेष्वाज्यपात्रमधिश्रित्य ज्वलतादर्भोल्मुकेनावज्वल्यांगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्षिप्य पुनर्ज्वलतातेनैवदर्भोल्मुकेन चरुणासहाज्यंत्रि:पर्यग्निकृत्वा तदुल्मुकमपास्याप:स्पृष्ट्वाआज्यस्थालींभुविकर्षयित्वाउदगुद्वास्यअंगारान्प्रत्यूह्याप:स्पृष्ट्वातत्रस्थमेवाज्यं ॥सवितुष्ट्वाहिरण्यस्तूप:सवितापुरउष्णिक् ॥ आज्यस्योत्पवनेविनियोग: ॥ ॐ सवितुष्ट्वाप्रसवउत्पुनाम्यच्छिद्रेणपवित्रेणवसो:सूर्यस्यरश्मिभिरितिमंत्रेणकश्रुत्योच्चारितेनैकवारंद्विस्तूष्णीं उत्तानपाणिद्वयांगुष्ठोपकनिष्ठिकाभ्यामंतयोरसंसृष्टगृहीताभ्यामुदग्राभ्यांपवित्राभ्यांप्रागुत्पूय तेपवित्रेअभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥ तूष्णीं (स्कंदायस्वाहा स्कंदायेदंनमम इतिमंत्रेणेतिकेचित् ) ॥अथाग्ने:पश्चात्परिस्तरणाब्दहिरात्मनोग्रतोभूमिंप्रोक्ष्यतत्रबर्हि:सन्नहनींरज्जुमुदगग्रांप्रसार्यतस्यांबर्हि:प्रागग्रमुदगपवर्गमविरलमास्तीर्यतस्मिन्नाज्यपात्रंनिधायस्त्रुवादिसंमार्जयेत् ॥ तध्यथा ॥ दक्षिणेनहस्तेनस्त्रुक्स्त्रुवौगृहीत्वासव्येनकांश्चिदृर्भानादायसहैवाग्नौप्रताप्य स्त्रुचंनिधायस्त्रुवंवामहस्तेगृहीत्वा दक्षिणहस्तेनुस्त्रुवस्यबिलंदर्भाग्रै:प्रादक्षिण्येनप्रागादिप्रागपर्वर्गंत्रि: समृज्याभ्दि:प्रोक्ष्यस्त्रुवंनिष्टप्याज्यस्थाल्याउत्तरत:स्त्रुगसंसृष्टंनिधायोदकंस्पृष्टातैरेवदर्भेर्जुहूंचैवमेवसंमृज्यस्त्रुवादुत्तरतोनिधायदर्भानभ्दि:क्षालयित्वाग्नावनुप्रहरेत् ॥ तत:श्रृतंचरुंस्त्रुवगृहीतेनाज्येनाभिघार्योदगुद्वास्याग्न्याज्ययोर्मध्येननीत्वाज्यादृक्षिणतोबर्हिषिसांतरमासाध्यपुनरप्यभिघार्य [नवाभिघार्य] हवि:पृथक्करणायपात्रांतरंचर्वाज्ययोर्मध्येनिधायैकादशांगुलिमितेदेशेगंधाक्षतपुष्पैरग्निंसमंत्रकमचर्येत् ॥ विश्वानिनइतिसृणामात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् द्वयोरर्चनेअंत्यायाउपस्थानेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥ ॐ सिंधुंननावादुरितापिपर्षि ॥ ॐ अग्नेअत्रिवन्नमसागृणान: ॥ ॐ अस्माकंबोध्यवितातनूनां ॥ ॐ यस्त्वाहृदाकीरिणामन्यमान: ॥ ॐ अमर्थ्यंमर्त्योजोहवीमि ॥ ॐ जातवेदोयशोअस्मासुधेहि ॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥ ॐ यस्मैत्वंसुकृतेजातवेदउलोकमग्नेकृणवस्योनं ॥ अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ ततआत्मानंचालंकृत्यहस्तंप्रक्षाल्यइध्मब्म्धनरज्जुमिध्मस्थानेनिधायपाणिनेध्ममादायमूलमध्याग्रेषुस्त्रुवेणात्रिभिघार्यं मूलमध्ययोर्मध्यभागेगृहीत्वा ॥ अयंतेवामदेवोजातवेदाअग्निस्त्रिष्टुप् इध्महवनेविनियोग: ॥ ॐ अयंतइध्मआत्माजातवेदस्तेनेध्यस्ववर्धस्वचेध्दवर्धयचास्मान्प्रजयापशुभिर्ब्रह्मवर्चसेनान्नाध्येनसमेधयस्वाहा ॥ जातवेदसेग्नयइदंनमम ॥ तत:स्त्रुवेणाज्यमादायाग्नेरायतनस्यवायव्यकोणमारभ्याग्नेयकोणपर्यंतंप्रजापतयइतिमनसास्मरन् स्वाहेत्युच्चार्यनैरंतर्येणाज्यधारामग्नाविध्मदरुपरिहुत्वा ॥ पुनराज्यमादायाग्नेरायतनस्यनैऋतकोणतऐशानीपर्यंतंतथैवहुत्वात्यक्त्वाच ॥ स्त्रुवेणाज्यमादायअग्नयेस्वाहेत्यग्नेरुत्तरपार्श्वेपूर्वभागेहुत्वा पुनरज्यंसोमायस्वाहेत्यग्निदक्षिणपार्श्वेतत्समप्रदेशेहुत्वा ॥ पूर्वनिहितपात्रेचरुमुध्दृत्यपृथक्कृत्य इदमग्नयेइदमग्नीषोमाभ्यामितिचरुभागद्वयमुत्तरसंस्थमभिमृश्यावदानधर्मेणजुहुयात् ॥ एवंनाममंत्रकहोमेयथादैवतंविभक्तस्यचरोरभिमर्श: ॥ समंत्रकहोमेतुनविभागोनाभिमर्शश्च ॥ अथावदानधर्म: ॥ स्त्रुवेणस्त्रुच्यामुपस्तीर्यप्रथमप्रधानदेवताचरुभागमध्यादंगुष्ठपर्वमात्रंतिरश्चीनाभिरंगुष्ठमध्यमानामिकाभिरुदग्राभिर्नखस्पर्शमकुर्वन्नवदायदर्व्यामोप्य ततश्चपूर्वभागंप्रागग्राभिस्ताभिस्तथैवावदाय दर्व्यामोप्य पात्रस्थंहविरभिघार्य दवींस्थमवत्तंचाभिघार्यविधूमज्वालाग्नौ ॥ ॐ अग्नयेस्वाहेत्याज्यभागयोर्मध्यदेशेतत्प्रत्यग्देशेवाआच्छादयन्निवदर्व्यापार्श्वेनहुत्वाअग्नयइदंनममेतित्यक्त्वा ॥पुन:पूर्ववदुत्तरहविर्भागावदाय ॥ ॐ अग्नीषोमाभ्यांस्वाहेतिपूर्वाहुते:प्राग्भागेहुत्वाअग्नीषोमाभ्यास्वाहेतिपूर्वाहुते:प्राग्भागेहुत्वाअग्नीषोमाभ्यामिदंनममेतित्यजेत् ॥ पंचावत्तीतुदर्व्यामुपस्तीर्यमध्यात्पूर्वार्धात्पश्चार्धाच्चत्रिर्हविषोवदायाभिघार्यजुहुयात् ॥ दर्शेतुअग्नीषोमस्थानेइंद्राग्निभ्यांस्वाहाइंद्राग्निभ्यामिदंनममेतिविशेष: ॥ पुनर्दर्व्यामुपस्तीर्यप्रथमहविर्भागस्योत्तरार्धत: पूर्वावदानतोभूयोनूचीनाभिरेवांगुलिभिरवदायदर्व्यामोप्य द्वीयहविर्भागस्यतथैवावदायपंचावत्तीतुहविर्भागद्वयेपिउत्तरार्धात्पूर्वार्धाच्चद्विर्द्विरवदाय पात्रस्थमनभिघार्यावत्तंतुद्विरभिघार्य ॥ यदस्येतिहिरण्यगर्भोग्नि: स्विष्टकृदतिधृति: स्विष्टकृध्दोमेविनियोग: ॥ ॐ यदस्यकर्मणोत्यरीचंयद्वान्यूनमिहाकरं ॥ अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वंस्विष्टंसुहुतंकरोतुमे ॥ अग्नयेस्विष्टकृतेसुहुतहुतेसर्वप्रायश्चित्ताहुतीनांकामानांसमर्धत्रियेसर्वान्न: कामान्त्समर्धयस्वाहा इत्येकश्रुत्योच्चार्याग्नावैशानदेशेजुहुयात् ॥ स्विष्टकृतेग्नयइदंनम ॥ इध्मबंधनरज्जुंविस्त्रस्य रुद्रायस्वाहारुद्रायेदंनमम ॥ अपउपस्पृश्य स्त्रुवेणप्रायश्चित्ताज्याहुती:सप्तजुहुयात् ॥ अयाश्चेतिविमदोऽयाअग्नि:पंक्ति: ॥ प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ अयाश्चाग्नेस्यनभिशस्तीश्चसत्यमित्वमयाअसि ॥ अयासावयसाकृतोयासन्हव्यमूहिषेयानोधेहिभेषजंस्वाहा ॥ अयासेग्नयइदंनमम ॥१॥अतोदेवा:काण्वोमेधातिथिर्देवागायत्री ॥ सर्वत्रप्राग्वद्विनियोग: ॥ ॐ अतोदेवाअवंतुनोयतोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि:स्वाहा ॥ देवेभ्यइदंनमम ॥२॥इदंविष्णु:काण्वोमेधातिथिर्विष्णुर्गायत्री ॥ प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं ॥ समूह्लमस्यपांसुरेस्वाहा ॥ विष्णवइदंनमम ॥३॥व्यस्तसमस्तव्याहृतीनांविश्वामित्रजमदग्निभरद्वाजप्रजापतयऋषय: ॥ अग्निवायुसूर्यप्रजापतयोदेवता: ॥ गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि ॥ प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ भू:स्वाहा ॥ अग्नयइदंमनम ॥ ॐ भुव:स्वाहा ॥ वायवइदंनमम ॥ ॐ स्व:स्वाहा ॥ सूर्यायेदंनमम ॥ ॐ भूर्भव:स्व:स्वाहा ॥ प्रजापतयइदंनमम ॥७॥ततोब्रह्माकर्तारंपरीत्याग्नेर्वायव्यदेशेतिष्ठन्नेताएवसप्ताज्याहुतीर्जुहुयात् ॥ त्यागंयजमानोऽत्रकुर्यात् ॥ ततस्तत्रस्थोब्रह्मैवमंत्रविपर्यासादिनियतनिमित्तेसति ॥ अनाज्ञातमितिमंत्रद्वयस्यहिरण्यगर्भोग्निरनुष्टुप् ॥ ज्ञाताज्ञातदोषनिबर्हणार्थंप्रायश्चित्ताज्यहोमेविनियोग: ॥ॐ अनाज्ञातंयदाज्ञातंयज्ञस्यक्रियतेमिथु ॥ अग्नेतदस्यकल्पयत्वहिवेत्थयथातथस्वाहा ॥यजमान: अग्नयइदंनमम ॥ ॐ पुरुषसंमितोयज्ञोयज्ञ:पुरुषसंमित: ॥ अग्नेतदस्यकल्पयत्वहिवेत्थयथातथस्वाहा ॥ अग्नयइदंनमम ॥ यत्पाकत्रेत्याप्त्यास्त्रितोऽग्निस्त्रिष्टुप् ॥प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ यत्पाकत्रामनसादीनदक्षानयज्ञस्यमन्वतेमर्त्यास: ॥अग्निष्टध्दोताक्रतुविद्विजानन्याजिष्ठोदेवाँऋतुशोयजातिस्वाहा ॥ अग्नयइदंनमम ॥यद्वोदेवाअभितपामरुतस्त्रिष्टुप् ॥ मंत्रतंत्रविपर्यासादिनिमित्तकप्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ यद्वोदेवाअतिपातयानिवाचाचप्रयुतीदेवहेळनं ॥ अरायोअस्माँअभिदुच्छुनायतेन्यत्रास्मन्मरुतस्तन्निधेतनस्वाहा ॥ मरुभ्ध्यइदंनमम ॥ तत:स्कन्नभिनाध्यनियतनिमित्तेसतिवक्ष्यमाणप्रकारेणतत्प्रतिपदोक्तजपहोमान्कुर्याब्र्दह्या ॥ ब्रह्मणोऽभावेयजमानएवैतान्प्रायश्चित्तादीन्कृत्वाऽन्यस्मैवरंदध्यात् ॥ ततोयजमान: सर्वकर्मप्रपूरणींभद्रद्रव्यदांपूर्णाहुतिमाज्येनहोष्यामिइतिसंकल्प्य ॥ स्त्रुवेणाज्यंचतुर्वारंगृहीत्वास्त्रुचंसमबिलांपूरयित्वातस्यांस्त्रुवमूर्ध्वबिलंनिधायपुनरधोबिलंनिक्षिप्यस्त्रुवाग्रेकुसुमाक्षतंनिधाय सव्यपाणिनास्त्रुक् स्त्रुवमूलेधृत्वादक्षिणपाणिनास्त्रुक् स्त्रुवंशंखमुद्रयागृहीत्वा तिष्ठन्समपादऋजुकाय:स्त्रुवाग्रन्यस्तदृष्टि:प्रसन्नात्मा ॥ समुद्रादूर्मिरित्येकादशर्चस्यसूक्तस्यगौतमोवामदेवआपस्त्रिष्टुप् अंत्याजगती पूर्णाहुतौविनियोग: ॥ ॐ समुद्रादूर्मि० ऋक् ११ ॥मधुमंतंतऊर्मिस्वाहा ॥ इतिपठन्यवपरिमितांधारांसंततांस्त्रुगग्रेणसशेषंहुत्वाअभ्ध्यइदंनममेत्युद्दिश्यत्यक्त्वा ॥ विज्योतिषेत्यस्यजारोवृशोग्निस्त्रिष्टुप् ॥ पूर्णाहुतिशेषाज्यहोमेविनियोग: ॥ ॐ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥ प्रादेवीर्माया:सहतेदुरेवा:शिशीतेशृंगेरक्षसेविनिक्षेत्रस्वाहा ॥ इत्यनेनचतथैवावशेषंहुत्वाग्नयइदंनममेतित्यक्त्वाविश्वेभ्योदेवेभ्य:स्वाहेतिसंस्त्राबंहुत्वा विश्वेभ्योदेवेभ्यइदंनममेतित्यजेत् ॥ ततस्तंदुलकणान्समिद्दर्भशकलान्यभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥ पूर्णाहुत्याध्येतदंतंसमूलंप्रयोगपारिजातकारेणलिखितमपीदानींशिष्टानकुर्वंति ॥ अथावभृथस्थानीयंपूर्णपात्रजलेनमार्जनंकुर्यात् ॥ तध्यथा ॥ पूर्वासादितंपूर्णपात्रमास्तीर्णेबर्हिषिदक्षिणपाणिनानिधायतत्रगंगादिपुण्यनदी:स्मरन्दक्षिणपाणिनास्पृशन् ॥ पूर्णमसिपूर्णंमेभूया:सुपूर्णमसिसुपूर्णंमसिसुपूर्णंमेभूया:सदसिसन्मेभूया:सर्वमसिसर्वंमेभूया: ॥ अक्षितिरसिमामेश्रेष्ठा: ॥ इतिजपित्वाकुशाग्रै:प्रागादिपंचदिक्षुजलंमंत्रैर्थथालिंगंसिंचेत् ॥ तेचमंत्रा: ॥ प्राच्यांदिशिदेवाऋत्विजोमार्जयंतां ॥ दक्षिणस्यांदिशिमासा:पितरोमार्जयंतां ॥ अपउपस्पृश्य ॥ प्रतीच्यांदिशिग्रहा:पशवोमार्जयंतां ॥ उदीच्यांदिश्यापओषधिवनस्पतयोमार्जयंतां ॥ ऊर्ध्वायांदिशियज्ञ:संवत्सर:प्रजापतिर्मार्जयंतां ॥ इत्येकश्रुत्यापठन्प्रतिदिशंसिक्त्वाकुशाग्रै:स्वशिरसिमार्जयेत् ॥ आपोअस्मानित्यस्यदेवश्रवाआपस्त्रिष्टुप् ॥ मार्जनेविनियोग: ॥ ॐ आपोअस्मान्मातर:शुंधयंतुघृतेननोघृतप्व:पुनंतु ॥ विश्वंहिरिप्रंप्रवहंतिदेवीरुदिदाभ्य:शुचिरापूतएमि ॥ इदमाप:सिंधुद्वीप आपोनुष्टुप् ॥ मार्जनेविनियोग: ॥ ॐ इदमाप:प्रवहतयत्किंचिदुरितंमयि ॥ यद्वाहमभिदुद्रोहयद्वाशेषउतानृतं ॥ सुमित्र्यानआपओषधय:संतु ॥ इत्येतैर्मंत्रातेमार्जनंकृत्वा ॥ दुर्मित्र्यास्तस्मैसंतुयोऽस्मान्द्वेष्टियंचवयंद्विष्मस्तंहन्मि ॥ इतिनिऋतिदेशेकुशाग्रैरप:सिंचेत् ॥ ततो ब्रह्मा यजमानवामपार्श्वस्थितपत्न्यंजलौपूर्णपात्रस्थंजलं ॥ ॐ माहंप्रजांपरासिचंयान:सयावरी:स्थन ॥ समुद्रेवोनिनयानिस्वंपाथोअपीथ ॥ इतिमंत्रमेकश्रुत्यापत्न्यावाचयन्स्वयंवापठन्प्रत्यड्मुखंनिषिच्यांजलिस्थजलै:पापानोदार्थमात्मानंयजमानंपत्नींचप्रोक्षेत् ॥पत्नीतज्जलंबर्हिषिनिषिंचेत् ॥ अथवायजमानएवस्ववामपाणावुत्तानेबर्हिर्निधायतत्रदक्षिणपाणिनापूर्णपात्रमादायमाहंप्रजामित्यनेनतज्जलंप्रत्यड्मुखंनिषिच्यताआप:समुद्रंगच्छंतीतिध्यात्वापाणिस्थजलैरात्मानंपत्नींप्रोक्षेत् ॥ तत:कर्ताग्नेर्वायव्येस्थित:संस्थाजपेनोपतिष्ठेत् ॥ तध्यथा ॥ अग्नेत्वंनइतिचतसृणांगौपायनावाबंधु:सुबंधु:श्रुतबंधुर्विप्रबंधुश्चैकैकर्चाऋषय: ॥ अग्निर्देवता ॥ द्विपदाविराट्छंद: ॥ अग्न्यपस्थानेविनियोग: ॥ ॐ अग्नेत्वंनोअंतमउतत्राताशिवोभवावरुथ्य: ॥ वसुरग्निर्वसुश्रवाअच्छानक्षिध्युमत्तमंरयिंदा: ॥ सनोबोधिश्रुधीहवमुरुष्याणोअघायत:समस्तात् ॥ तंत्वाशोचिष्ठदीदिव:सुम्नायनूनमीमहेसखिभ्य: ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥ यत्तेन्यूनंतस्मैतौपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ ॐ स्वस्ति ॥ श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलं ॥ आयुष्यंतेजाअरोग्यंदेहिमेहव्यवाहन ॥ मानस्तोकइत्यस्यकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेतनयेमानआयौमानोगुषोमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ इतिस्त्रुवबिलपृष्ठेनैशानीगतांविभूतिंगृहीत्वा ॥ ॐ त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमितिदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसिधारयेत् ॥ केचित्तूपस्थानात्पूर्वंविभूतिधारणमाहुरिति ॥ तत:परिस्तरणानिविसृज्याग्निंपरिसमुह्यपरिषिच्य विश्वानिनइत्यर्चयित्वानत्वाचपुष्पादिभिरलंकृत्यनैवेध्यंतांबूलंचनिवेध्य ब्रह्मणेयथोक्तदक्षिणांदक्षिणाभावेहुत् शेषंघृतादिसहिरण्यंदत्वा ब्रह्माभावेन्यस्मैब्राह्मणायदत्वापात्राणिप्रक्षाल्यपूर्वक्रमेणद्वंद्वशउत्सृज्य ॥ यस्यस्मृत्येतिश्रीविष्णुंनत्वाचम्यधृतपवित्र ग्रंथिंविस्त्रस्ययस्यस्मृतेतिविष्णुंनत्वाकर्मेश्वरार्पणंकृत्वाद्विराचामेत् ॥ इतिस्थालीपाकप्रयोग: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP