संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथाग्निद्वयसंसर्गप्रयोग: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथाग्निद्वयसंसर्गप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथाग्निद्वयसंसर्गप्रयोग: Translation - भाषांतर श्री: ॥ द्वितीयादिविवाहव्रतांतेशुभदिनेप्राणायामदेशकालस्मरणादिकृत्वाममविवाहद्वयेनजातयोर्व्दयोर्गृह्योग्न्यौ:संसर्गमहंकरिष्ये ॥ इतिसंकल्प्योदक्संस्थयोर्व्दयो:स्थंडिलयोरुपलेपादिपूर्वकंक्रमेणगृह्याग्नीप्रतिष्ठाप्यप्रथमाग्नावन्वादध्यात् ॥ तत्रक्रम: ॥ क्रियमाणेऽग्निद्वयसंसर्गकर्मण्यन्वाधानंकरिष्ये ॥ अस्मिन्नित्याध्याज्यभागांमुक्त्वाअग्निंप्रधानदेवतांनवभिराज्याहुतिभिर्यक्ष्ये ॥ शेषेणस्विष्टकृतमित्याध्याज्यभागांतंकृत्वाआध्ययापत्न्यासमन्वारब्धोनवाहुतीर्जुहुयात् ॥ अग्निमीळइतिनवानांमधुच्छंदाअग्निर्गायत्री ॥ अग्निद्वयसंसर्गप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्निमीळे० इतिनवभि:स्वाहांताभिर्नवाहुतीर्हुत्वाप्रत्याहुत्यग्नयइदंनममेतित्यक्त्वास्विष्टकृदादिहोमशेषमुपस्थानांतंसमाप्यअग्नेत्वंनइतिचतसृभिश्चोपस्थाय तमग्निं अयंतेयोनिऋत्वियइत्यस्यगाथिनोविश्वामित्रोग्निरनुष्टुप् ॥ अग्निसमारोपणेविनियोग: ॥ ॐ अयंतेयोनिऋत्वियोयतोजातोअरोचथा: ॥ तंजानन्नग्न आसीदाथानोवर्धयागिर: ॥ इतिसमिधिसमारोप्यद्वितीयाग्नौप्रत्यवरोहयेत् ॥ तध्यथा ॥ प्रत्यवरोहेत्यस्यहिरण्यगर्भोग्निस्त्रिष्टुप् ॥ अग्निप्रत्यवरोहणेविनि० ॥ ॐ प्रत्यवरोहजातवेद:पुनस्त्वंदेवेभ्योहव्यंवहन:प्रजानन् ॥ प्रजांपुष्टिंरयिमस्मासुधेह्यथाभवयजमानायशंयो: ॥ इतितंप्रत्यवरोह्यान्वाधानेपूर्ववदाज्यभागांतमुक्त्वात्रप्रधानं ॥ षड्रवारमग्निंचतुर्गृहीताज्येनशेषेणस्विष्टकृतमित्याध्याज्यभागांतंकृत्वातत:स्त्रुचिस्त्रुवेणचतुर्वारंप्रभूतमाज्यंगृहीत्वा पत्नीभ्यामन्वारब्धस्तेनाज्येनावयश:षडाहुतीर्जुहुयान्मंत्रै: ॥ तेच ॥ अग्नावग्निर्हिरण्यगर्भोग्नि:शक्करी ॥ अग्निद्वयसंसर्गप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्नावग्निश्चरतिप्रविष्टऋषीणांपुत्रोअधिराजएष: ॥ तस्मैजुहोमिहविषाघृतेनमादेवानांमोमुहभ्दागधेयंमोअस्माकंमोमुहभ्दागधेयंस्वाहा ॥१॥अग्नयइदंनममेतिसर्वत्रत्याग: ॥ अग्निनाग्निर्मधुच्छंदाअग्निर्गायत्री ॥ अग्निद्वयसंसर्गप्रधानाज्यहोमिवि० ॥ ॐ अग्निनाग्नि:समिध्यतेकविर्गृहपतिर्युवा ॥ हव्यवाड्जुह्वास्य:स्वाहा ॥२॥अस्तीदमधिमंथनमितितिसृणांविश्वामित्रोग्निरनुष्टुप् ॥ अंत्येद्वेत्रिष्टुभौ ॥ वि० प्राग्वत् ॥ ॐ अस्तीदमधिमंथनमस्तिप्रजननंकृतं ॥ एतांविश्पत्नीमाभराग्निंमंथामपूर्वथास्वाहा ॥३॥ॐ अरण्योर्निहितोजातवेदागर्भइवसुधितोगर्भिणीषु ॥ दिवेदिवईडयोजागृवभ्दिर्हविष्मभ्दिर्मनुष्येभिरग्नि:स्वाहा ॥४॥ॐ उत्तानायामवभराचिकित्वान्सध्य:प्रवीतावृषणंजजान ॥ अरुषस्तूपोरुदस्यपाजइळायास्पुत्रोवयुनेजनिष्टस्वाहा ॥५॥पाहिनोअग्नएकयेतिप्रगाथोभर्गोग्निर्बृहती ॥ विनियोग:प्राग्वत् ॥ ॐ पाहिनोअग्नएकयापाह्यु१ तद्वितीयया ॥ पाहिगीर्भिस्तिसृभिरुर्जांपतेपाहिचतसृभिर्वसोस्वाहा ॥६॥गृह्यपरिशिष्टमतेस्त्रुवेणैवअष्टाहुतय: ॥ ताश्च ॥ अग्निनाग्नि:समिध्यतइत्युक्तयैका ॥१॥त्वंह्यग्नेअग्निनेत्यस्यविरुपोग्निर्गायत्री ॥ विनियोग:प्राग्वत् ॥ ॐ त्वंह्यग्नेअग्निनाविप्रोविप्रेणसन्त्सता ॥ सखासख्यासमिध्यसेस्वाहा ॥२॥पाहिनोअग्नइतितृचस्यप्रगाथोभर्गोग्निर्बृहती ॥ विनियोग:प्राग्वत् ॥ ॐ पाहिनोअग्नइत्युक्ता ॥ ॐ पाहिविश्वस्माद्रक्षसोअराव्ण:प्रस्मवाजेषुनोव ॥ त्वामिध्दिनेदिष्ठंदेवतातयाआपिंनक्षामहेवृधेस्वाहा ॥ ॐ आनोअग्नेवयोवृधंरयिंपावकशंश्यं ॥ रास्वाचनउपमातेपुरुस्पृहंसुनीतीस्वयशस्तरंस्वाहा ॥ अस्तीदमितितृचउक्त: ॥ सर्वत्राग्नयइदंनमतेतित्याग: ॥ एवंहुत्वास्विष्टकृदादिहोमशेषंसमाप्यआयतनेऽग्निंनिधायथापूर्वंपरिचरेत् ॥ इतिअग्निद्वयसंसर्गप्रयोग: ॥ N/A References : N/A Last Updated : August 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP