संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयनित्यविधि:| श्रीसूर्यार्यास्त्रोत्रम् अथ ऋग्वेदीयनित्यविधि: अथ प्रात:स्मरणम् अथ स्नानविधि: प्रारभ्यते अथ अर्घ्यमंत्रा: अथ भस्मधारणविधि: अथ प्रात:संध्याप्रारंभ: अथ तृचाकल्पनमस्कारा: अथ सौरप्रारंभ: अथ पंञ्चायतनपूजाप्रारंभ मध्याह्नसंध्या अथ ब्रह्मयज्ञप्रारंभ: अथ वैश्वदेवप्रयोग: अथ भूतयज्ञ: अथ पितृयज्ञ: अथ मनुष्ययज्ञ: अथ सायंसंध्याप्रारंभ: अथ यज्ञोपवीतसंस्कारविधि: अथ देवेप्रारंभ:॥ अथ रुद्र: अथ त्रिसुपर्णप्रारंभ: श्रीसूर्यस्तोत्रम् श्रीसूर्यार्यास्त्रोत्रम् श्रीसूर्यार्यास्त्रोत्रम् ऋग्वेदीयनित्यविधि: Tags : poojarigvedsanskritऋग्वेदपूजासंस्कृत श्रीसूर्यार्यास्त्रोत्रम् Translation - भाषांतर ॥ श्रीसूर्यार्यास्त्रोत्रम् ॥शुकतुण्डच्छवि सवितुश्चण्डरुचे: पुण्डरीकवनबन्धो: । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशाया: ॥१॥यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेऽञ्जलिं त्रिनेत्र: स जयति धाम्नां निध: सूर्य: ॥२॥उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥३॥जयति जनानन्दकर: करनिकरनिरस्ततिमिरसंघात: । लोकालोकालोक: कमलारुमण्डल: सूर्य: ॥४॥प्रतिबोधितकमलवन: कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवन: परहितनिरतो रवि: सदा अपनयतु सकलकलिकृतमलपटलं सुप्रतप्तकनकाभ: । अरविन्दवृन्दविघटनपटुतरकिरणोत्कर: सविता ॥६॥उदयाद्रिचारुचामरहरितहयखुरपरिहतरेणुराग । हरितहयरितपरिकर गगनांगनदीपक नमस्ते ॥७॥उदितवति त्वयि विकसति मुकुलीयति समस्तमस्तमितबिम्बे । न ह्यन्यस्मिन्दिनकर सकलं कमलायते भुवनम् ॥८॥जयति रविरुद्रयसमये बालातप: कनकसन्निभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तय: सप्त ॥९॥आर्या: साम्बपुरे सप्त आकाशत्पातिता भुवि । यस्य कंठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥१०॥आर्या: सप्त सदा यस्तु सप्त्यम्यां सप्तधा जपेत् । तस्य देहं च गेहं च पद्मा सत्यं न मुञ्चति ॥११॥निधिरेष दरिद्राणां रोगिणां परमौषधम् । सिद्धि: सकलकार्याणां गाथेयं संस्मृता रवे: ॥१२॥॥ इति श्रीयाज्ञवल्क्य विरचितं सूर्यार्यास्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : August 28, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP