संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयनित्यविधि:| अथ भस्मधारणविधि: अथ ऋग्वेदीयनित्यविधि: अथ प्रात:स्मरणम् अथ स्नानविधि: प्रारभ्यते अथ अर्घ्यमंत्रा: अथ भस्मधारणविधि: अथ प्रात:संध्याप्रारंभ: अथ तृचाकल्पनमस्कारा: अथ सौरप्रारंभ: अथ पंञ्चायतनपूजाप्रारंभ मध्याह्नसंध्या अथ ब्रह्मयज्ञप्रारंभ: अथ वैश्वदेवप्रयोग: अथ भूतयज्ञ: अथ पितृयज्ञ: अथ मनुष्ययज्ञ: अथ सायंसंध्याप्रारंभ: अथ यज्ञोपवीतसंस्कारविधि: अथ देवेप्रारंभ:॥ अथ रुद्र: अथ त्रिसुपर्णप्रारंभ: श्रीसूर्यस्तोत्रम् श्रीसूर्यार्यास्त्रोत्रम् अथ भस्मधारणविधि: ऋग्वेदीयनित्यविधि: Tags : poojarigvedsanskritऋग्वेदपूजासंस्कृत अथ भस्मधारणविधि: Translation - भाषांतर श्रीगणेशायनम: ॥ अथ भस्मधारणविधि: ॥ आचम्य पवित्रं धृत्वा प्राणायामं कृत्वा ॥ अद्येत्यादिपूर्वो० शरीरशुद्द्यर्थं भस्मधारणमहं करिष्ये ॥ मानस्तोक इति कुत्सो रुद्रो जगती भस्मग्रहणे विनियोग: ॥ ॐ मानस्तोकेतनयेमान आयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ (इति हस्ते भस्म गृहीत्वा जलमिश्रितं कृत्वा) ॐ ईशान:सर्वविद्यानामीश्वर:सर्वभूतानांब्रह्मा धिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॥ शिरसि ॥ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद:प्रचोदयात् ॥ मुखे॥ ॐ अघोरेभ्योघोरेभ्योघोरघोरतरेभ्य: ॥ सर्वैभ्य:सर्वशर्वेभ्योनमस्ते अस्तुरुद्ररुपेभ्य: ॥ हृदये ॥ ॐ वामदेवायनमो ज्येष्ठायनम: श्रेष्ठायनमो रुद्रायनम: कालायनम: कलविकरणायनमोबलविकरणायनमोबलायनमो बलप्रमथनायनम: सर्वभूतदमनायनमोमनोन्मनायनम: ॥ गुह्ये ॥ ॐ सद्योजातंप्रपद्यामिसद्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभव स्वमांभवोद्भवायनम: ॥ पादयो: ॥ अग्निरिति भस्म ॥ वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्वंह वा इदंअ भस्म । मन एतानि चक्षूंषि भस्मानि ॥ तच्च ॥ ॐ नम: शिवाय इति त्रिवारोच्चारितेन सर्वाड्गे विलेपयेत् ॥ N/A References : N/A Last Updated : August 28, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP