अथ पंञ्चायतनपूजाप्रारंभ

ऋग्वेदीयनित्यविधि:


अथ पंञ्चायतनपूजाप्रारंभ: ॥
आचम्य प्राणायामं कृत्वा ॥ ॐ श्रीमन्महागणाधिपतये नम: ॥ इष्टदेवताभ्यो नम: ॥ कुलदेवताभ्यो नम: ॥ ग्रामदेवताभ्यो नम: ॥ स्थानदेवताभ्यो नम: ॥ वास्तुदेवताभ्यो नम: ॥ आदित्यादिनवग्रदेवताभ्यो नम: ॥ सर्वेभ्यो देवेभ्यो नम: ॥ सर्वेभ्यो ब्राह्मणेभ्यो नमो नम: ॥ एतत्कर्मप्रधानदेवताभ्यो नम: ॥ अविघ्नमस्तु ॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णक: ॥ लंबोदरश्च विकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: ॥ द्वादशैतानि नामानि य: पठेच्छृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ॥ संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्‍ ॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषामंगलम्‍ ॥ येषां हृदिस्थो भगवान्मंगलायतनं हरि: ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ॥ विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽड्घ्रिंयुगं स्मरामि ॥ लाभस्तेषां ययस्तेषां कुतस्तेषां पराजय: ॥ येषामिंदीवरश्यामो हृदयस्थो जनार्दन: ॥ विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान्‍ ॥ सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्द्यर्थं पूजितो य: सुरासुरै: ॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरा: ॥ देवा दिशंतु न: सिद्धिं ब्रह्मेशानजनार्दना: ॥ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे (अष्टाविंशतितमे युगचतुष्के) कलियुगे प्रथमचरणे जंबूद्वीपे (भरतवर्षे दक्षिणापथे रामक्षेत्रे बुद्धावतारे) दंडकारण्ये देशे गोदावर्या: दक्षिणदिग्भागे (अमुकदिग्भागे वा) शालिवाहनशके अस्मिन्‍ वर्तमाने अमुकनामसंवत्सरे अमुकायने अमुकऋतौ अमुकमासे अमुकतिथौ अमुकवासरे अमुकदिवसनक्षत्रे अमुकस्थिते वर्तमाने चंद्रे अमुकस्थिते श्रीसूर्ये अमुकस्थिते देगगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं अस्माकं सकुटुंबानां सपरिवाराणां द्विपदचतुष्पदसहितानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्धयर्थं समस्ताभ्युदयार्थं च श्रीअमुकदेवताप्रीत्यर्थं यथामिलितोपचारद्रव्यैर्ध्यानावाहनादिषोडशोपचारपूजां करिष्ये ॥ आसनादिकलशशंखघंटापूजनं च करिष्ये ॥ शरीरशुद्द्यर्थं पुरुषसूक्तन्यासं षडंगन्यासं च क०॥ आदौ निर्विघ्नतासिद्द्यर्थं महागणपतिस्मरणं च क०॥ गणानां त्वा शौनको गृत्समदो गणपतिर्जगती गणपतिस्मरणे विनियोग: ॥ ॐ गणानांत्वागणपतिंवहवामहेकविंकवीनामुपमश्रवस्तमम्‍ ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पताआन:शृण्वन्नूतिभि:सीदसादनम्‍ ॥ महागणाधिपतये नमो नम: ॥ पृथ्वीति मंत्रस्य । मेरुपृष्ठ ऋषि: । कूर्मो देवता । सुतलं छंद: ॥ आसने विनियोग: ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम्‍ ॥ अपसर्पंतु वामदेवो भूतान्यनुष्टुप्‍ । भूतोत्सादने विनियोग: ॥ ॐ अपसर्पंतु० पूजाकर्म समारभे ॥ इति वामपादतलपार्श्वेन भूमिं त्रि: प्रहृत्य ॥ देवा आयांतु ॥ यातुधाना अपयांतु ॥ विष्णो देवयजनं रक्षस्व इति भूमौ प्रादेशं कुर्यात्‍ ॥ येभ्यो माता इत्यस्य गय:प्लातो विश्वेदेवा जगती ॥ एवापित्र इत्यस्य वामदेवो बृहस्पतिगौतमस्त्रिष्टुप्‍ ॥ मनुष्यगंधनिवारणे विनियोग: ॥ ॐ येभ्योमातामधुमत्पिन्वतेपय: पीयूषंद्यौरदिंतिरद्रिबर्हा: ॥ उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँऽअनुमदास्वस्तये ॥ ॐ एवापित्रेविश्वदेवायवृष्णेयज्ञैर्विधेमनमसाहविर्भि: ॥ बृहस्पतेसुप्रजावीरवंतोवयंस्यामपतयोरयीणाम्‍ ॥ सहस्त्रशीर्षाषोळशनारायण: । पुरुषोऽनुष्टुप्‍ ॥ अंत्यात्रिष्टुप्‍ । स्वांगन्यासे पूजने च विनियोग: ॥ ॐ सहस्त्रशीर्षा० वामकराय नम: ॥ ॐ पुरुषएवेदं० दक्षिणकराय नम: । ॐ एतावानस्य० वामपादाय० । ॐ त्रिपादूर्ध्व० दक्षिणपादाय० । ॐ तस्माद्विराळ० वामजानवे० । ॐ यत्पुरुषेण० दक्षिणजानवे० । ॐ तंयज्ञं० वामकटयै० । ॐ तस्माद्यज्ञात्स० दक्षिणकटयै० । ॐ तस्माद्यज्ञात्सर्व्वहुतऋच:० नाभ्यै० । ॐ तस्मादश्वां० हृदयाय० । ॐ यत्पुरुषं० कंठाय० । ॐ ब्राह्मणोऽस्य० वामबाहवे० । ॐ चंद्रमामनसो० दक्षिणबाहवे० । ॐ नाभ्याआसीदं० मुखाय० । ॐ सप्तास्यासन्० नेत्राभ्यां० । ॐ यज्ञेनयज्ञ० शिरसे स्वाहा ॥ ॐ यत्पुरुषं० अंगुष्ठाभ्यां हृदयाय० । ॐ ब्राह्मणोऽस्य० तर्जनीभ्यां शिरसे स्वाहा ॥ ॐ चंद्रमा० मध्यमाभ्यां शिखायै वषट्‍ ॥ ॐ नाभ्या० अनामिकाभ्यां कवचाय हुम्‍ ॥ ॐ सप्तास्या० कनिष्ठिकाभ्यां नेत्रत्रयाय वौषट्‍ ॥ ॐ यज्ञेनयज्ञ० करतलकरपृष्ठाभ्यां अस्त्राय फट्‍ ॥ इति दिग्बंध: कलशस्य मुखे विष्णु: कंठे रुद्र: समाश्रित: ॥ मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ॥ कुक्षौ तु सागरा: सर्वे: सप्तद्वीपा वसुंधरा ॥ ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण: ॥ अंगैश्च सहिता: सर्वे कलशांबुसमाश्रिता: ॥ अत्र गायत्री सावित्री शांतिपुष्टिकरी तथा ॥ आयांतु देवपूजार्थं दुरितक्षयकार्सका: ॥ गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधु कावेरि जलेऽस्मिन्‍ सन्निधिं कुरु ॥ वरुणाय नम: सर्वोपचारार्थे गंधाक्षतपुष्पं समर्प० ॥ धेनमुद्रां प्रदर्श्य ॥ शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ॥ पृष्ठे प्रजापति विद्यादग्रे गंगा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ॥ शंखे तिष्ठंति विप्रेंद्र तस्माच्छंखं प्रपूजयेत्‍ ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृत: करे ॥ नमित: सर्वदेवैश्व पाञ्चजन्याय विद्महे पावमानाय धीमहि ॥ तन्न: शंख: प्रचोदयात्‍ ॥ शंखाय० सर्वोपचारार्थे गंधपुष्पं सम० ॥ शंखमुद्रां प्रदर्श्य ॥ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्‍ ॥ कुर्वे घंटारवं तत्र देवताह्वानलक्षणम्‍ ॥ घंटायै० सर्वोपचारार्थे गंधपुष्पं सम० ॥ भो दीप ब्रह्मरुपस्त्वं ज्योतिषां प्रभुरव्यय: ॥ आरोग्यं देहि पुत्रांश्च सर्वार्थांश्च प्रयच्छ मे ॥ दीपदेवतायै० गंधाक्षतपु० ॥ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ य: स्मरेत्‍ पुंडरीकाक्षं स बाह्याभ्यंतर: शुचि: ॥ कलशशड्खोदकेन पूजाद्रव्याणि संप्रोक्ष्या आत्मानं प्रोक्षेत्‍ ॥ अथ ध्यानम्‍ ॥ शाताकारं भुजगशनयं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्‍ ॥ लक्ष्मीकांतं कमलनयनं योगिमिर्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम्‍ ॥ ध्यायामि ॥ ॐ सहस्त्रशीर्षा० ॥ आगच्छ देवदेवेश तेजोराशे जगत्पते ॥ क्रियमाणां मया पूजां गृहाण सुरसत्तम ॥ श्रीअमुकदेवताभ्यो नम: आवाहनार्थे पुष्पांजलिं समर्पयामि ॥ ॐ पुरुषएवेदं० ॥ नानारत्नसमायुक्तं कार्तस्वरविभूषितम्‍ ॥ आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम्‍ ॥ श्रीअ० आस० तुलसीपत्रं स० ॥ ॐ एतावानस्य० ॥ पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो ॥ भक्त्या समर्पितं देव लोकनाथ नमोऽस्तुते ॥ श्रीअ० पाद्यं सम० ॥ ॐ त्रिपादूर्ध्वौउदै० ॥ नमस्ते देवदेवेश नमस्ते धरणीधर ॥ नमस्ते जगदाधार अर्घ्यं न: प्रतिगृह्यताम्‍ ॥ श्रीअ० अर्घ्यं स० ॥ ॐ तस्माद्विराळ० ॥ कर्पूरवासितं तोयं मंदाकिन्या: समाहृतम्‍ ॥ आचम्यतां जगन्नाथ मया दत्तं हि भक्तित: ॥ श्रीअ० आचमनीयं सम० ॥ ॐ यत्पुरुषेणहविषा० ॥ गंगासरस्वतीरेवापयोष्णीनर्मदाजलै: ॥ स्नापितोऽसि मया देव तथा शांतिं कुरुष्व मे ॥ श्रीअ० स्नानीयं स०॥ पंचामृतै: स्नपयिष्ये ॥ ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यम्‍ ॥ भवावाजस्यसंगथे ॥ कामधेनो: समुद्भूतं देवर्षिपितृतृप्तिदम्‍ ॥ पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम्‍ ॥ श्रीअ० स्नानार्थे पय:स्नानंस० ॥ पय:स्नानानंतरं शुद्धोदकस्नानं सम० ॥ शुद्धो० नंतरं आ० ॥ सकलपूजार्थे गंधाक्षतपुष्पाणि समर्प० ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥ सुरभिनोमुखाकरत्प्रणाआयूषितारिषत्‍ ॥ चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि ॥ स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम्‍ ॥ श्रीअ० दधि० स० गंधा० ॥ ॐ घृतंमिमिक्षेघृतमस्ययोनिंर्घृतेश्रितोघृतम्वस्यधाम । अनुष्वधमावहमादयस्वस्वाहाकृतंवृषभवक्षिहव्यम्‍ ॥ आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितम्‍ ॥ आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम्‍ ॥ श्रीअ० घृत० स०गंधा० ॥ ॐ मधुवाताऋतायतेमधुक्षरंतिसिंधव: ॥ माध्वीर्न:संत्वोषधी: । मधुनक्तमुतोषसोमधुमत्पार्थिवंरज: । मधुद्यौरस्तनु:पिता ॥ मधुमान्नोवनस्पतिर्मधुमाँअस्तुसूर्य: ॥ माध्वीर्गावोभवंतनु: सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ॥ स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥ श्रीअ० मधु० स० गंधा० ॥ ॐ स्वादु:पवस्वदिव्यायजन्मनेस्वादुरिंद्रायसुहवीतुनाम्ने । स्वादुर्मित्रायवरुणायवायवेबृहस्पतयेमधुमाँअदाभ्य: ॥ इक्षुदंडसमुद्भूतदिव्यशर्करया हरिम्‍ ॥ स्नापयामि महाभक्त्या प्रीतो भव सुरेश्वर ॥ श्रीअ० शर्करा० स० गंधा० ॥ ॐ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणीम्‍ ॥ ईश्वरीसर्वभूतानांतामिहोपह्नयेश्रियम्‍ ॥ कर्पूरैलासमायुक्तं सुगंधिद्रव्यसंयुतम्‍ ॥ गंधोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम्‍ ॥ श्रीअ० षष्ठं गंधोदकस्ना० स० गं० ॥ आपोहिष्ठेति तृचा शुद्धोदकस्नानं समर्पयामि ॥ नाममंत्रेण चंदनाद्युपचारै: पूजयेत्‍ ॥ अनेन पूर्वाराधनेन अमुकदेवता प्रीयताम्‍ ॥ उत्तरे निर्माल्यं विसृज्य अभिषेकं कुर्यात्‍ ॥

श्रीगणेशायनम: ॥ हरि: ॐ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रापात्‍ ॥ सभूमिविश्वतोवृत्वाऽत्यतिष्ठद्दशांगुलम्‍ ॥ पुरुषएवेदंसर्वंयद्भूतंयच्चभव्यम्‍ ॥ उतामृतत्वस्येशानोदयन्नेनातिरोहति ॥ एतावानस्यमहिमातोज्यायांश्चपूरुष: ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतदिवि ॥ त्रिपादूर्ध्वौउदैत्पुरुष: पादोस्येहाभवत्पुन: ॥ ततोविष्वड्गव्यक्रामत्साशनानशनेअभि ॥ तस्माद्धिराळजायतविराजोअधिपूरुष: ॥ सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुर: ॥१॥
यत्पुरुषेणहविषदेवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यग्रीष्मइध्म:-
शरद्धवि: ॥ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाअयजंतसाघ्याऋषश्चये ॥ तस्माद्यज्ञात्सर्वहुत:संभृतंपृषदाज्यम्‍ ॥
पशून्ताँश्वक्रेवायव्यानारण्यान्‍ग्राम्याश्चये ॥ तस्माद्यज्ञात्सर्वहुतऋच:सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माद्यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताअजावय: ॥२॥
यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन्‍ ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ ब्राह्मणोस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: पभ्द्यांशूद्रोअजायत ॥ चंद्रमामनसोजातश्वक्षौ:सूर्योअजायत ॥ मुखादिंद्रश्वाग्निश्वप्राणाद्वायुरजायत ॥ नाभ्याआसीतदंतरिक्षंशीर्ष्णोद्यौ:समवर्तत ॥ पभ्द्यांभूमिर्दिश: श्रोत्रात्तथालोकाँअकल्पयन्‍ ॥ सप्तास्यासनपरिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायद्यज्ञंतन्वानाअबध्नन्पुरुषंपशुम्‍ ॥ यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन्‍ ॥ तेहनाकंमहिमान: सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥३॥
ॐ अतोदेवाअवंतुनोयतोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि: ॥ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम्‍ ॥ समुहमस्यपांसुरे ॥ त्रीणिपदाविचक्रमेविष्णुर्गोपाऽअदाभ्य: ॥ अतोधर्माणीधारयन्‍ ॥ विष्णो:कर्माणिपश्यतयतोव्रतानिपस्पशे ॥ इंद्रस्युयुज्य:सखा ॥ तद्विष्णो:परमंपदंसदापश्यंतिसूरय: ॥ दिवीवचक्षुराततम्‍ ॥ तद्विप्रासोविपन्यवोजागृवांस:समिंधते ॥ विष्णोर्यत्परमंपदम्‍ ॥
देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामग्नेस्तेसजासूर्यस्यवर्चसेंद्रस्येंद्रियेणामिर्षिचामि ॥ बलायश्रियैयशसेन्नाद्याय ॐ भूर्भूव: स्व: अमृताभिषेकोऽस्तु शांति: पुष्टिस्तुष्टिश्वास्तु ॥ श्रीअमुकदेव० महाभिषेकस्नानं समर्पयामि ॥ महामि० शुद्धो० ॥ स्नानांते आचमनीयं समर्पयामि ॥ ॐ तदस्तुमित्रावरुणातदग्नेशंयोरस्मम्यमिदमस्तुशस्तम्‍ ॥ अशीमहिगाधमुतप्रतिष्ठांनमोदिवेबृहतेसादनाय ॥ गृहा वै प्रतिष्ठासूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा ॥ ॐ नर्यप्रजांमेगोपाय ॥ अमृतत्वायजीवसे ॥ जातांजनिष्यमाणांच ॥ अमृतेसत्येप्रतिष्ठताम्‍ ॥ सुप्रतिष्ठितमस्तु ॥ ॐ तंयज्ञंबर्हिषि० ॥ सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम्‍ ॥ श्रीअमु० देव० वस्त्रं० ॥ ॐ तस्माद्यज्ञात्सर्वहुत:संभृ० ॥ देवदेव नमस्तेऽस्तु त्राहि मां भवसागरात्‍ ॥ ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ॥ श्रीअमु० देव० यज्ञोप० ॥ (हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी ॥ सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम्‍ ॥ श्रीअ० हरिद्रां स० ॥ हरिद्राचूर्णंयुक्तं कुंकुमं कान्तिदायकम्‍ ॥ वस्त्रालंकरणं सर्वं देवि त्वं प्रतिगृह्यताम्‍ ॥ श्रीअ० कुंकुमं समर्पयामि ॥ कञ्जलं कामिकं रम्यं कामिनीकामसंभवम्‍ ॥ नेत्रयोर्भूषणार्थाय कञ्जलं प्रतिगृह्यताम्‍ ॥ श्रीअ० कञ्जलं स० ॥ उदितारुणसंकाशं जपाकुसुमसंनिभम्‍ ॥ सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम्‍ ॥ श्रीअ० सिंदूरं स० ॥ मांगल्यतंतुमणीभिर्मुक्ताफलविराजितम्‍ ॥ कण्ठस्य भूषणार्थाय कण्ठसूत्रं प्रगृह्यताम्‍ ॥ श्रीअ० कण्ठसूत्रं स० ॥ काचस्य निर्मितं दिव्यं कंकणं च सुरेश्वरि ॥ हस्तालंकरणार्थाय कंकणं प्रतिगृह्यताम्‍ ॥ श्रीअ० कंकणं स० ॥ अलंकारान्मया देवि सुवर्णेन विनिर्मितान्‍ ॥ प्रीत्यर्थं तव देवेशि भूषणं प्रतिगृह्यताम्‍ ॥ श्रीअ० नानाभूषणानि स० ॥ नानाभरणशोभाढयं नानारत्नोपशोभितम्‍ ॥ अर्पितं च मया देवि ताडपत्रं प्रगृह्यताम्‍ ॥ श्रीअ० ताडपत्रं स०॥) ॐ अहिरिवभोगै:पर्येतिबाहुंज्यायाहेतिपरिबाधमान: ॥ हस्तघ्नोविश्वावयुनानिविद्वानपुमानपुमान्पुमांसंपरिपातुविश्वत: ॥ ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरुपिणे ॥ नानापरिमलद्रव्यं गृहाण परमेश्वर ॥ श्रीअ० नानापरिमलद्रव्याणि स० ॥ ॐ तस्माद्यज्ञात्सर्वहुतऋच:० ॥ श्रीखंडं चंदनं दिव्यं गंधाढयं सुमनोहरम्‍ ॥ विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम्‍ ॥ श्रीअ० चंदनं स० ॥ अक्षतास्तंडुला: शुभ्रा: कुंकुमेन विराजिता: ॥ मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ श्रीअ० अलड्का० अक्षतान्‍ स० ॥ ॐ तस्मादश्वा० ॥ माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो ॥ मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम्‍ ॥ सेवंतिकाबकुलचंपकपाटलाब्जै: पुन्नागजातिकरवीररसालपुष्पै: ॥ बिल्वप्रवालतुलसीदलमालतीभिस्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ श्रीअ० पुष्पाणि स० ॥ केशवादिचतुर्विशतिभि: अष्टोत्तरशतेन सहस्त्रनामभिर्वा तुलसीदलै: पूजयेत्‍ ॥ ॐ यत्पुरुषं० ॥ वनस्पतिरसोद्भूतो गंधाढयो गंध उत्तम: ॥ आघ्नेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‍ ॥ श्रीअसु० धूपं स० ॥ ॐ ब्राह्मणोस्यमुख० ॥ आज्यंच वर्तिसंयुक्तं वह्निना योजितं मया ॥ दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ॥ त्राहि मां निरयाद्धोराद्दिपज्योतिर्नमोऽस्तु ते ॥ श्रीअमु० दीपं स० ॥ ॐ चंन्द्रमामनसो० ॥ नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ॥ ॐ चन्द्रमामनसो० ॥ नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ॥ ईप्सितं मे वरं देहि परत्र चं परां गतिम्‍ ॥ शर्कराखंडखाद्यानि दधिक्षीरघृतानि च ॥ आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्‍ ॥ श्रीअमु० नैवेद्यं स० ॥ ॐ प्राणाय स्वाहा ॐ अपानाय० ॐ व्यानाय० ॐ उदानाय० ॐ ब्रह्मणे० ॥ नैवेद्यमध्ये पानीयं स० उत्तरापोशनं स० ॥ हस्तप्रक्षालनं स० ॥ मुखप्रक्षालनं० स० ॥ करोद्वर्तनार्थे चंदनं स० ॥ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्‍ ॥ कर्पूरैलासमायुक्तं तांबूलं प्रतिगृह्यताम्‍ ॥ श्रीअमु० तांबूलं स० ॥ इदं फलं मया देव स्थापितं पुरतस्तव ॥ तेन मे सुफलावाप्तिर्भवेञ्जन्मनि जन्मनि ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम्‍ ॥ तस्मात्फलप्रदानेन सफलाश्च मनोरथा: ॥ श्रीअमु० फलं स० ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: ॥ अनंतपुण्यफलदमत: शांतिं प्रयच्छ मे ॥ श्रीअमु० दक्षिणां स० ॥ ॐ श्रियेजात:श्रियाअनिरियायश्रियंवयोजरितृभ्योददाति ॥ श्रियंवसानाअमृतत्वमायन्भवंतिसत्यासमिथामितद्रौ ॥ श्रिय एवैनं तत्‍ श्रियामादधाति संततमृचावषट्‍कृत्यं संतत्यै संधेयते प्रजया पशुभिर्य एवं वेद ॥ चंद्रादित्यौच धरणिर्विद्युदग्निस्तथैव च ॥ त्वमेव सर्वज्योतींषि आर्तिक्यं प्रतिगृह्यताम्‍ ॥ श्रीअमु० महानीराजनदीपं स० ॥ कर्पूरगौरं करुणावतारं संसारसारं भुजगेंद्रहारम्‍ ॥ सदा वसंतं हृदयारविंदे भवं भवानीसहितं नमामि ॥ श्रीअ० कर्पूरार्तिक्यदीपं स० ॥ ॐ नाभ्यांआसी० ॥ नम: सर्वहितार्थाय जगदाधारहेतवे ॥ साष्टांगोऽयं प्रणामस्ते प्रयत्नेन मया कृत: ॥ नमोऽस्त्वनंताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरुबाहवे ॥ सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नम: ॥ श्रीअमु० नमस्कारान्‍ स० ॥ ॐ सप्तास्यासन्‍० ॥ यानि कानि च पापानि जन्मांतरकृतानि च ॥ तानि तानि विनश्यंति प्रदक्षिणपदे पदे ॥ श्रीअसु० प्रदक्षिणां स० ॥ ॐ यज्ञेनयज्ञ० ॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्‍ ॥ विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ श्रीअमु० मंत्रपुष्पं स० ॥ आवाहनं न जानामि न जानामि तवार्चनम्‍ ॥ पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ॥ यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ तस्मातकारुण्यभावेन रक्षस्व परमेश्वर ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ॥ दासोऽयमिति मां मत्वा अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ॥ दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥ गतं पापं गतं दु:खं गतं दारिद्य्रमेव च ॥ आगता सुखसंपत्ति: पुण्याच्च तव दर्शनात्‍ ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ पुत्रान्‍ देहि धनं देहि सर्वान्कामांश्व देहि मे ॥ यस्य स्मृत्या च नामोक्त्या तप:पूजाक्रियादिषु ॥ न्य़ूनं संपूर्णतां याति सद्यो वंदे तमच्युतम्‍ ॥ इति प्रार्थना ॥ अनेन मया यथाज्ञानेन यथामिलितोपचारद्रव्यै: कृतपूजनेन श्रीअमुकदेवता प्रीयताम्‍ ॥ अथ घंटां पूजयेत्‍ ॥ शंखमध्ये स्थितं तोयं भ्रामित केशवोपरि ॥ अंगलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥ अकालमृत्यूहरणं सर्वव्याधिविनाशनम्‍ ॥ विष्णुपादोदकं तीर्थं जठरे धारयाम्यहम्‍ ॥ अच्युतानंतगोविंदनामोच्चारणभेषजात्‍ ॥ नश्यंति सकला रोगा: सत्यं सत्यं वदाम्यहम्‍ ॥ इति तीर्थं पिबेत्‍ ॥

श्रीगणेशायनम: आचम्य प्राणानायम्य ॥ ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं मध्याह्नसंध्यामुपासिष्ये ॥ आपोहिष्ठेति तृचेन पूर्ववत्प्रथमं मार्जनं कृत्वा आप इत्यनेन मंत्राचमनं कुर्यात्‍ ॥ आप: पुनंत्वित्यस्यानुवाकस्य नारायण आपो अष्टि: । मंत्राचमने विनियोग: ॥ ॐ आप:-पुनंतुपृथिवींपृथिवीपूतापुनातुमाम्‍ ॥ पुनंतुब्रह्मणस्पतिर्ब्रह्मपूतापुनातुमाम्‍ ॥ य़दुच्छिष्टमभोज्यंयद्वादुश्वरितंमम ॥ सर्वेपुनंतुमामापोसतांच प्रतिग्रह स्वाहा ॥ इत्यनेन अप: पिबेत्‍ । तत आचम्य प्रात:संध्यावत्‍ द्वितीयं मार्जनं अघमर्षणातं कुर्यात्‍ ॥ हंस:शुचिषदिति मंत्रस्य गौतमो वामदेव: सूर्यो जगती ॥ अर्घ्यप्रदाने विनियोग: ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP