संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयनित्यविधि:| अथ पितृयज्ञ: अथ ऋग्वेदीयनित्यविधि: अथ प्रात:स्मरणम् अथ स्नानविधि: प्रारभ्यते अथ अर्घ्यमंत्रा: अथ भस्मधारणविधि: अथ प्रात:संध्याप्रारंभ: अथ तृचाकल्पनमस्कारा: अथ सौरप्रारंभ: अथ पंञ्चायतनपूजाप्रारंभ मध्याह्नसंध्या अथ ब्रह्मयज्ञप्रारंभ: अथ वैश्वदेवप्रयोग: अथ भूतयज्ञ: अथ पितृयज्ञ: अथ मनुष्ययज्ञ: अथ सायंसंध्याप्रारंभ: अथ यज्ञोपवीतसंस्कारविधि: अथ देवेप्रारंभ:॥ अथ रुद्र: अथ त्रिसुपर्णप्रारंभ: श्रीसूर्यस्तोत्रम् श्रीसूर्यार्यास्त्रोत्रम् अथ पितृयज्ञ: ऋग्वेदीयनित्यविधि: Tags : poojarigvedsanskritऋग्वेदपूजासंस्कृत अथ पितृयज्ञ: Translation - भाषांतर श्रीगणेशायनम: ॥ अथ पितृयज्ञ: ॥ प्राचीनावीती ॥ आग्नेय्यभिमुख: सव्यं जान्वाच्योत्तरभागादंगुष्ठपर्वमात्रमन्नं गृहीत्वा पराचीन पाणिना चक्राद्दक्षिणत: स्वधा पितृभ्य इति मंत्रेण बलिं दत्त्वाऽप उपस्पृश्य ॥ द्वितीयचक्राग्नेयभागे च तथैव दत्त्वाऽप उपस्पृश्य ॥ पितृयज्ञान्नशेषेणैव चक्राब्दहिर्नैऋत्यकोणे श्यामाय चक्राद्वायव्यकोणे शबलाय इत्युभयत्र स्वाहाकारवर्ज्य बलिं दत्त्वा गृहांगणे जलमासिच्य श्वचांडालपतितभूतवायसेभ्योऽन्नं भूमौ विकिरेत् ॥ ऐंद्रवारूणवायव्या याम्या नैऋतिकाश्व ये ॥ ते काका: प्रतिगृह्यंतु भूम्यां पिंडं मयोज्झितम् ॥ इति पितृयजशेषेण दद्यात् ॥ वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ॥ ताभ्यां पिंडो मया दत्तो रक्षेतां पथि मां सदा ॥ ये भूता: प्रचरंति दिवानक्तं बलिमिच्छंतो वितुदस्य प्रेष्ठा: ॥ तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु स्वाहा ॥ रात्रौ चेन्नक्तमिति ब्रूयादिति शौनकोक्तश्वक्राकार: प्रयोग: ॥ प्रक्षालितपाणिपाद आचम्य गृहं प्रविश्य ॥ शांतापृथिवीत्यादि जपित्वा विष्णुं स्मृत्वा कर्मार्पयेत् ॥ इति पितृयज्ञ: ॥ N/A References : N/A Last Updated : August 28, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP