अथ स्नानविधि: प्रारभ्यते

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥ अथ स्नानविधि: प्रारभ्यते ॥
नमामि गंगे तव पादपंकजं सुरासुरैर्वंदितदिव्यरुपम्‍ ॥
भुक्तिं च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम्‍ ॥१॥
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
ॐ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणोद्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे
वैवस्वतमन्वंतरे कलियुगे प्रथमचरने भरतवर्षे भरतखण्डे जंबुद्वीपे दंडकारण्ये देशे गोदावर्या: दक्षिणे तीरे
कृष्णावेण्योरुत्तरे तीरे शालिवाहनशके बौद्धावतारे रामक्षेत्रे रामरामाश्रमे अस्मिन्वर्तमाने अमुकनामसंवत्सरे अमुक अयने
अमुकऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अद्य दिवसनक्षत्रं विष्णुदिवसनक्षत्रे विष्णुमहानक्षत्रे विष्णुस्थे वर्तमाने चंद्रे विष्णुस्थे सूर्ये विष्णुस्थे देवगुरौ शेषेषु ग्रहेषु यथास्थानस्थितेषु सत्सु एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रृतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं कायिकवाचिकमानसिकसांसर्गिकज्ञाताज्ञातस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपापक्षयार्थं गंगाभागीरथीतीर्थे स्नानमहं करिष्ये ॥
ॐ आपेहिष्ठामयोभुवस्तानऊर्जेदधातन ॥ महेरणायचक्षसे ॥ योव:शिवतमोरस्तस्यभाजयहेतन: ॥ उशतीरिवमातर: ॥
तस्माअरंगमामवोयस्यक्षयायजिन्वथ ॥ आपोजनयथाचन: ॥ आपोवाइद सर्वंविश्वाभूतान्याप:प्राणावाआप:पशवाआपोन्नमापोमृतमाप:सम्राडापोविराडाप:स्वराडापश्छन्दा स्थापोज्योती ष्यापोयजूष्याप:
सत्यमाप:सर्वादेवताआपोभूर्भव:सुवरापओम्‍ ॥ स्नानं कृत्वा ॥ ॐ इमंमेगंगेयमुसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥
ॐ इमंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुद्दृधे वितस्तयार्जीकीयेश्रृणुह्यासुषोमया ॥ अघमर्षणम्‍ ॥
ॐ ऋतंचसत्यंचा भीद्धात्तपसोध्यजायत ॥ ततोरात्र्यजायततत:समुद्रोअर्णव: ॥ समुद्रादर्णवादधिसंवत्सरोअजायत ॥ अहोरात्राणिविदधद्विश्वस्यमिषतोवशी ॥ सूर्याचंद्रमसौधातायथापूर्वमकल्पयत्‍ ॥ दिवंचपृथिवींचांतरिक्षमथोस्व: ॥ इति त्रिरावृत्त्याऽघर्मर्षणं कुर्यात्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP