संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| अष्टादशोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - अष्टादशोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत अष्टादशोऽध्याय: । Translation - भाषांतर कथितान्यडस्थानानि पडवाडे भवन्ति हि ।मुखग्रीवाकरो (र) युग्मं चरणाग्रे तथैव च ॥१॥पटूप्रकाराणि कथ्यन्ते विज्ञानानि यथा शॄणु ।विज्ञानैश्च प्रवर्धन्ते पौरुषं विभवो गुणा: ॥२॥कचिदोजयविज्ञानं कचिद् बहणिना भवेत् ।कचित्प्राणेन विज्ञानं ओजो बहणिजा भवेत् ॥३॥कचिदोजसा प्राणेन विज्ञानं जायते कचित् ।पट् प्रकरेण विज्ञानं रक्षणीयं प्रयत्नत: ॥४॥प्रवर्ध्दते येन यशो लभ्यन्ते विपुला श्रिय: ।कचिदोजस्य विज्ञानं रक्षणीयं प्रयत्नत: ॥५॥प्रवर्धते येन यशो जयो भवति सर्वदा ।कचिव्दहणिना ज्ञानं कचित्प्राणेन संतमम् ॥६॥ओजो वहणिना वापि ओजो प्राणेन वा कचित् ।ओजो प्राणवहणिना कचिज्जानं समादिशेत् ॥७॥सोमेश्वर यथा शक्त्वा कुरु युध्दमनेकधा ।सर्ध्द देवेन हरिणा मल्ल एश्यन्ति पार्श्वगा: ॥८॥ततो युध्दं समारबधं ताभ्यां तु विधिपूर्वकम् ।जटाबन्धनमादौ च तो चातनकग्रहम् ॥९॥कच्छाबन्धपरत्व च ततो रडंनमस्त्रियाम् ॥१०॥समं चास्फोटनं तत्र ततो बलप्रवर्धनम् ।समोन्नतं च लीनं च चलस्थानं चतुर्विधम् ॥११॥समस्थानं च विदितं येन युध्दे जयो भवेत् ।धाता: पट् त्रिंह्सदुभयोस्ताला: पश्च प्रकीर्तिता: ॥१२॥स्कन्धास्फोतनमन्योन्यं चरणयो: कर्पणं तथा ।तथा विघातनं पश्चाद्रामणं प्रेरणं तथा ॥१३॥घातनं चालनं चैव लागनं च परस्परम् ।कक्षाघातस्य विद्याश्च प्राणघातस्तथैव च ॥१४॥व्दादशस्थानके चैव कथितं च प्रवेश (क) म् ।अन्यैश्च विविधोपायै: संकल्पितविकल्पितै: ॥१५॥स्थानकं च शरीरोपि लागो भारस्तथव च ।अश्रुकस्य बुधैश्चैव धारणं रुधनं तथा ॥१६॥कार्येषु बलदा नित्यं मल्लानां च जयप्रदा ।इत्युक्त्वा (क्त्वा) भगवानकृष्णो योगमायामनुस्मरन् ॥१७॥ततो देवै: पुप्पवॄष्टिर्निर्मुक्ता हर्षसंयुत: ।विप्रैर्जय जय शब्दैर्बलभद्रं च पातयत् ॥१८॥बलभद्रश्च कुपितो दुर्जेयो बहु सडरे ।करिप्यामि तपो घोरं वने गत्वा विनिर्गत ॥१९॥तत: सर्वेपि गल्लाश्च कृष्णश्च विनयान्वित: ।बलभद्रमतिक्रुध्दं संबोधयितुमुद्यत: ॥२०॥न त्वं जितो प्रलम्बने मुष्टिकेन न सडरे ।भामेव मल्लविद्याया: प्रभाव: परमो हि स: ॥२१॥देवैर्दैत्यैर्मनुप्यैस्त्वमजेयो रिपुसडरे ।माहेश्वरी वैष्णवी च ब्राह्मी शक्तिर्विनिर्मिता ॥२२॥ततो मल्लैश्च कृष्णेन सामवाक्यै: सुसान्त्वित: ।बलभद्रो रद्रभूमौ समानीय प्रवेशित: ॥२३॥मल्लानागपि सर्वेषां विप्राणां चैव शृण्वताम् ।तत: कृष्णेन संतोषादुकं मधुरया गिरा ॥२४॥सोमेश्वर त्वया भ्राता पातितो हृचिरादयम् ।असाध्या श्रवणेनपि मल्लविद्या वशीकृता ॥२५॥फलमस्मात्त्वयावाप्तं समग्र च विनिश्चितम् ।ततश्चाहं प्रसन्नोस्मि वाच्छितं च वरं शृणु ॥२६॥सोमेश्वर उवाच -यदि संतुष्टोसि भगवन् वर देहि यथेस्थितम् ।श्रमं च भवता सार्ध्द कर्तुमिच्छमि सांर्पतम् ॥२७॥भवत: शरीरसंपर्कात्पवित्रोहं जगत्त्रय।एवमस्व्तिति कृष्णेन समुद्दिष्टं सुदर्शनम् ॥२८॥तत: सोमेश्वर: कृष्णो दत्त्वा स्फालनकं तत: ।प्रभावयुक्तं विज्ञाय आत्मानं समदर्शयत् ॥२९॥बलं चाप्रमितं दत्त्वा शरीरस्य प्रभावत: ।प्रकारं मल्लविद्याया दत्त्वा पुनर्जगाद ह ॥३०॥श्रीकृष्ण उवाच -त्वया यद्यत् कृतं कित्चित्सोमेश्वर तदुत्तमम् ।सोमेश्वर भवेत्सत्यं समस्तैर्ब्राह्मणै: सह ॥३१॥चातुर्वर्ण्यस्य मध्ये तु त्वं प्रधानो भविप्यति (सि)।सोमेश्वर उवाच -स्वामिन् त्वया*हं स्वर्गमस्मान् क: पालयिप्यति ॥३२॥श्रीकृष्ण उवाच -फायेषु वलदा नित्यं मल्लानां च जयप्रदा ।इत्युक्तो भगवान् कृष्णो योगमायामनुस्मरन् ॥३३॥ऊर्ध्वदर्शेक्षणा देवी लिमवृक्षे स्थिता दधौ ।तेजोमण्डलमध्यस्था भ्राजमानाऽभितप्रभा ॥३४॥चतुर्भुजायुधै: पूर्णा सिंहवाहनसंयुता ।सोमेश्वर इमां पश्य निम्बवृक्षसमाश्रिताम् ॥३५॥इयं मदीया शक्तिर्निम्बजा इति नामत: ।अस्या: स्थानं प्रकर्तव्यं रम्यं विचित्रधातुभि: ॥३६॥मनोहरं च लोकानां प्रेक्षणीयं महाद्भुतम् ।स्थापनीया प्रयत्नेन स्थानेस्मिन् निम्बजा सदा ॥३७॥जयदा सर्वमल्लैस्तु पूजनीया त्वहर्निशम् ॥श्रमकाले च संग्रामे रडंभूमौ विशेषत: ॥३८॥आपाढकेऽन्यसंयोगे शक्तिं तु निम्बजां स्मरन् ।जयं लभेन्न संदेहो यथाशक्ति यथामति ॥३९॥जय: प्रसादं दशाशेन शक्ति: सेव्या प्रयत्नत: ।बलिपूजोपहारैश्च होर्मैधूपै: सपुप्पकै: ॥४०॥सेव्या च प्रत्यहं तस्या: कार्य मलैश्च दर्शनम् ।नमस्कारस्तुतिश्चैव कार्या वादित्रसंयुता ॥४१॥शक्तिरेपा सदा लोके जयदा बलदा भवेत् ।रक्षणं सर्वविघ्रेभ्य: करिप्यति न संशय: ॥४२॥सोमेश्वर उवाच -लोके भवन्त्यघमाश्च मल्लान् बूहि मभाग्रत: ।श्रीकृष्ण उवाच- निम्बजा च गुरुं चैव मल्लान् वा उत्तमास्तथा ॥४३॥ते भवन्त्ये (न्त्यु) तमा मल्ला नात्र कार्या विचारणा ।न भजन्ति व्दिपन्ति च न कुर्वन्ति व्दिजास्तथा ॥४४॥गुरवश्चैव ते मल्ला गुणदोपविवर्जिता: ।निम्बजां नैव मन्यन्ते मल्लन्निदन्ति तत्पथ: ॥४५॥गुरोरभापणं ये वै कुर्वन्ते वैऽद्यमातता: ।भेदं कृत्वा च युध्द्येत उपायैर्विविधैरपि ॥४६॥निन्दां य: कुरुते नित्यं विघ्रं तस्य प्रजायते ।अन्योपि मल्लविद्यायां य: करिप्यत्परं दरम् ॥४७॥प्रसहस्तेन पापेन स नरो भयरो (दो) भवेत् ।मया ग्रामोद्य प्रक्षन्ति मल्लविप्रेभ्य एव च ॥४८॥पश्चोत्तरं पश्चत्तरं पश्चशतं सर्वेभ्यो धर्मनिमित्तानि ।दत्त्वा व्दादश गोत्राणि स्थिरीकृतानि सदा मया ॥४९॥प्रथमं गर्गगोत्रं स्याव्दितीयं पिप्पलायनम् ।१ ऊँ र्ही निम्बजायै जयध्दात्र्यै नम ।तृतीय भार्गवं विद्यात्तदौपेतं चतुर्थकम् ॥५०॥पश्चमं गौतम चैव पष्ठ चैव तु तैतिरम् ।सप्तमं चैव वासिष्ठ शाण्डिल्यं चाष्टमं स्मृतम् ॥५१॥धृताशि नवमं प्रोक्तं छायाशि दशमं स्मृतम् ।भारव्दाजमेकादशं काश्यपं व्दादशं स्मृतम् ॥५२॥उदीचिज्ञातिसंभूतं गोत्रं काश्यपमेव च ।बाडोतं गर्गगोत्रं स्याध्दूपा च पिपलायनम् ॥५३॥आपस्तम्भं च केलातं भार्गवं वैहलं तथा ।ठाकरियं गौतमं च वदेर तैतिरं तथा ॥५४॥ब्राह्माणिय वासिष्ठं च मण्डेणा माडल्यं तथा ।नवरडा शाण्डिल्यं च चमाल धृताशि तथा ॥५५॥स्थापिता पुरा देवेन मल्लाना गुरव: स्मृता।यावन्मही सागराश्च यावचन्द्रादिवाकरौ ॥५६॥तावत्तिष्ठन्ति मेदिन्यां पालनीया महात्मभि ।मया च दत्तवान्मौनान्मायादेवालय स्मृत ॥५७॥तस्य चैते भविप्यन्ति दोपा नामविचारणात् ।शौर्यवीर्ये सत्यशौचे बलविक्रमैश्च युतम् ॥५८॥यशस्वी लभते विद्यां साध्यते निरन्तरम् ।राज्ञश्च पात्रतामेति माननीयश्च गजभि ॥५९॥अडसडस्य कर्ता च निरन्तरात्मकार्यवान् ।यथा च यो भवत्येव लिपिबलसमन्वित: ॥६०॥कलभिश्चन्द्रवन्मल्लो वर्ध्द्ते च दिनं प्रति ।बलेन वर्धते कायो संग्रामे विजयी भवेत् ॥६१॥मन्दाधमा: कर्णलायास्त्रीगिर्ये च निरन्तरम् ।मल्ला: सर्वे पतिप्यन्ति पातिता: स्मरस्याअ (शा) सने ॥६२॥आत्मत्राणमविज्ञाय विक्रमं कुरुते तु यो ।स पराभवमाप्रोति मल्लो रंभासमो हि स: ॥६३॥सर्वकार्याणि सत्यज्य मल्लविद्याचयो भवेत् ।न पराभूयते विघ्रै: संग्रामे विजयी भवेत् ॥६४॥वनात्नरे च संचारात् विलासरसंयुत्तम् ।आत्मानं ये न पश्यन्ति ते मलास्तु बहिप्कृता:॥६५॥जमल्लविद्या विनश्यन्ति दुर्मदेन यथा थिय ।तस्मान्मल्लै: प्रमादेन च (न) स्थातव्यं कदाचन ॥६६॥कृष्णोक्तादानरता ये मल्ला भुवनभूषणा: ।क्रोधलोभगभयालस्यरहिता मानवा शुभा ॥६७॥नित्यं बह्वादयो लोका मल्लैर्मधुरया गिरा ।तदा सुभाग्यवान् सेव्यो जगतोऽपि प्रियो भवेत् ॥६८॥प्रियमेव विधातव्यं रिपौ मित्र्दं (त्रे) च सर्वदा ।अतिश्रमाव्दिनश्यन्ति श्रमत्यागे तथा पुन: ॥६९॥अभ्यासास्तिध्दिमाप्रोति तेन सम्यक् समभ्यसेत् ।य: शॄणोति त्विदं गुह्यं मया च प्रतिपादितम् ॥७०॥तस्य शाखा: प्रवर्ध्दन्ते प्रयागवासको यथा ।इत्येवं मल्लशास्त्रं च पठयते रडंभूमिपु ॥७१॥निर्विघ्रा: सर्वमल्लाश्च ज्येष्ठी च विजयी भवेत् ।तम्माव्दिघ्रविनाशाय श्रोतव्यं च सदा बुधै: ॥७२॥धनायुर्वर्धते तस्य शयो (यशो) लक्ष्मीर्जय: शुभम् ।इदं ददाति गुरवे परिलेख्यं च पुस्तकम् ॥७३॥तस्य कुले महामल्ल जययुक्ता भवन्ति हि ।मल्लशास्त्रं परिश्रुत्य वक्तारं न प्रपूजयेत् ॥७४॥वंशछॆदो महाहानिस्तय नित्यं प्रजायते ।न युध्दकुशल कापि न लक्ष्मी न यश सुखम् ॥७५॥तस्मात्सर्वप्रकारेण मल्ल पूज्यं (तु) पुस्तकम् ।मल्लशास्त्रधरं विप्र काश्यपगोत्रसमुद्भवम् ॥७६॥पूजयन्ति च ये मल्लास्तेपा लक्ष्मीर्जय सुखम् ।ये श्रॄण्वन्ति त्विदं सम्यक् श्लोक श्लोकार्धमेव च ॥७७॥मल्ला: पापविनिर्मुक्ता भोगान् भुक्त्वा हरे पदम् ।प्रयान्ति सन्ततिस्तेषां वर्धते पुत्रपौत्रिकी ॥७८॥अतो मल्लै: सदा ह्येतच्छ्रोतव्यं सर्वकामकम् ।पूजयेत्प्रसादद्भक्त्या श्रध्दया च फलासये ॥७९॥वस्त्रैराभरणैश्च द्रविणेन च पुस्तकम् ।ऋतुभवैश्च पुप्पाद्यैर्दव्यै रत्नैरनेकश: ॥८०॥सुवर्णै रजतैर्वापि मुकुन्दप्रीतिहेतवे ।वेदनीराजिते सम्यक् पूरणस्य फलं भवेत् ॥८१॥सोमेश्वर मया प्रोक्तं पुराणं धारयेत्सदा ।मद्भक्त्या च युतो विप्र: पूज्यो भवति नित्यश: ॥८२॥ज्येष्ठी तथान्तरज्येष्ठी चान्ये मल्लास्तु नित्यश: ।पुराणं मल्लसंज्ञं हि शॄणुयात् पूजयेश्च तत् ॥८३॥श्रृतं भवति येनेदं श्रुतं भवति येनेदं श्रुतं तेन चराचरम् ।अष्टादश पुराणानि श्रुतानि नात्र संशय: ॥८४॥किं वर्ण्यते भयाद्रुता पुस्तकस्य फलश्रुति: ।मल्लवंशोद्भवेनेदं श्रोतव्यं च पुन: पुन: ॥८५॥मातेव रक्षति ह्याशु पितेव हितकारकम् ।तस्मान्मल्लैर्नहि त्याज्यं पुराणं मल्लसंज्ञितम् ॥८६॥इति श्रीमल्लपुराणे श्रीकृष्णसोमेश्वरसंवादे पुराणफलप्रशंसा पश्चदशोऽध्याय: [ अष्टादशोऽध्याय: ]।इति मल्लपुराणम् । N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP