TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - अष्टमोऽध्याय; ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


अष्टमोऽध्याय; ।
ताला पश्चविद्या ज्ञेया यथोक्तास्तान्‍ निरुप्यते ।
आत्मताल परताल क्रियातालस्तथैव च ॥१॥
समताल: शून्यतालो ज्ञातव्या संप्रयत्नत  ।
एतान्‍ ज्ञात्वा सदा  मल्लो नियुध्दविजयी भवेत्‍ ॥२॥
सर्वदैवा हि मल्लाना  दृष्टिर्भवाति पश्चधा ।
प्रथमं चित्तदृष्टिश्च चक्षुर्दृष्टिस्तथैव च ॥३॥
वाक्यदृष्टि श्रुतिदृष्टी रडदृष्टिस्तथैव च ।
एव च पश्चधा दृष्टर्मल्लाना भवति ध्रुवम्‍ ॥४॥
अथाडलागा कथ्यन्ते सख्यया च चतुर्दश ।
यैरडैर्लभ्यते शक्त्या प्राप्यते च  महत्फलम्‍ ॥५॥
जूटके कथ्यते लाग स्कन्धो हस्तेन लाग्यते ।
एकहस्तेन लागश्च व्दिहम्तेनेव  वा पुन ॥६॥
कक्षातलेन लागोऽपि लागो हस्तेन बाहुना  ।
पृष्ठलागो वंशलाग कटिलागेस्तथा पुन ॥७॥
तथैवोदरलागोऽपि लागो निर्मितिपूर्वका ।
हस्तधारणलागोऽपि लागश्चरणधारणात्‍ ॥८॥
निराधारोऽपि लाग स्यादिति लागाध्रतुर्दश ।
कर्तव्यास्तु यथास्थान यथाममयमेव चं ॥९॥
अथ व्दादश स्थानानि कथ्यन्ते मल्लकर्मणि ।
जयस्थानकमप्यन चतुर्था परिकीर्तितम्‍  ॥१०॥
शिरसि स्थानकं प्रोक्तं स्थानं करतलेऽपि च ।
उदरस्थानकं वापि पृष्ठस्थानमत: परम्‍ ॥११॥
समास्थानकमप्येवं चतुर्धा परिकीर्त्यते ।
प्रथम स्थानकं ज्ञेयं चरणेन च धाराणम्‍  ॥१२॥
शिरोधारणामप्यत्र जडाभ्यां धारणं परम्‍ ।
अन्योन्यकरापादाभ्यां धारणं परमं स्मृतम्‍ ॥१३॥
समस्थानकमप्येवं चतुर्धा परिकीर्तितम्‍ ।
उपस्थानानि चत्वारि श्रूयतां  च यथा तथा ॥१४॥
कराभ्यां धारणं स्थानं स्थानं कक्षावधारणम्‍  ।
अर्धाडधारणं चैव जानुव्दयविधारणम्‍ ॥१५॥
इत्येवं व्ददशाडेपुउ स्थानकानि भवन्ति च ।
अष्टादशप्रकारेण शिर: पूर्वकमासनम्‍ ॥१६॥
अग्रासनं च प्रथमं पश्चादासनमप्यथ  ।
मध्यासनं तथैवान्यत्‍ सिंहासनमपीक्षते ॥१७॥
कूर्मासनमपि श्रेष्ठं दर्दुरासनमुच्यते ।
गजासनं समुद्दिष्टं ततोर्धासनमुच्यते ॥१८॥
शिरासनं  तु विज्ञेयं कक्षासनमत: परम्‍ ।
ग्रीवासनं च परमं भुजासनमिहोच्यते ॥१९॥
व्दिभुजासनमप्यत्रा कुक्कुटासनमुत्तमम्‍ ।
फणगुप्तासानं चैव गरुडासनमेव च ॥२०॥
उदरासनमित्येवं  कथितं दशसप्तधा ।
चत्वारोऽत्र भवन्त्येव मल्ला: श्रमगुणैर्युता: ॥२१॥
ज्येष्ठी तथान्तरज्येष्ठी तथा गोपुकुलोऽपि च ।
भबिष्योऽपि भवत्यन्यश्चतुर्थो  भाविर्तैर्गुणै: ॥२२॥
श्रमाश्चैव तु चत्वार्रो भवन्ति विनियोगत: ।
अल्पश्रमश्चार्धश्रम: पूर्णश्रम इति क्रमात्‍ ॥२३॥
ततोऽतिश्रम एव स्यात्‍ कथिता मल्लकर्मणि ।
निपिध्दान्‍ कथयिप्यामि  शृणु मल्लान्‍ यथार्थत: ॥२४॥
पीनस: शोफवान्‍ कासश्चासवानपि क्षुधातुर: ।
भुक्तवानक्षम: क्षीणो व्यग्रचि(ग्रश्चि) न्तातुरस्तथा ॥२५॥
अजीर्णवान्‍ दुर्यालश्च स्त्रीपु क्षीणस्तथैव च ।
मदपीडितसर्वाड शिरोरोगार्त एव च ॥२६॥
भ्रान्तश्चैव क्षुधाविष्टो वर्ज्जितो मल्लकर्मणि ।
अल्पश्रमं करिष्यन्ति ये च तान्कथयाम्यहम्‍  ॥२७॥
बालो वृध्दो ज्वरी चैव चक्षूरोगी व्रणी तथा  ।
रोगी च दुर्बलाश्चैव  ततो मन्दाग्रिरेव च ॥२८॥
वातातपादिपीडावान्‍ तथा चायासवानपि ।
रक्तहीनो लहनश्च ये चान्ये कुशरीरिण: ॥२९॥
अल्पश्रमं करिष्यन्ति ते  सर्वे स्थानरुपत: ।
अल्पश्रमस्य विस्तारो नि:शेष: कथितो मया ॥३०॥
अल्पश्रमेण मल्लानां ये भवन्ति गुणा अपि ।
तानहं कथयिप्यामि व्दिज: श्रृण्वन्तु तत्त्वत: ॥३१॥
बलवृध्दिस्तधाग्रिश्च लघुता पित्तनाशन: (मू) ।
वृहणं न जराठग्भो गांवस्थैर्य विशेषत: ॥३२॥
ऊत्साहवृध्दिरप्यस्य जायतेऽल्पश्रमेण तु ।
तस्मादल्पश्रमो नित्य कर्तव्य सुखमिच्छता ॥३३॥
अथाल्पश्रमसभूत लक्षण कथयाम्यहम्‍ ।
अल्पश्रमे कृते प्रात श्वास स्वेदो  न जायते ॥३४॥
अर्धश्रमेण जायन्ते नित्याभ्यासेन ये गुणा ।
तानह कथयिप्यामि मल्लाना सुखहेतवे ॥३५॥
सौमनस्य बल चेव पुष्टिरुत्साह एव च ।
हर्षश्चैव सुख प्राणबलवृध्दिस्तथैव  च ॥३६॥
अग्निमूर्छाविनाशश्च मेदोनाशस्तथेव च ।
पित्तस्यापि विनाश स्यात्‍ व्दादशेते वरा गुणा ॥३७॥
अर्धश्रम कृतो येस्तु लक्ष्यते शृणु तान्गुणान्‍ ।
अर्धश्रमे  मल्लाना प्रस्वेदो जायते पुन ॥३८॥
वक्षाकण्ठकपोलेपु ललाटे करसन्धिषु ।
पादसन्धिपु प्रास्वेदो हृदि श्वासश्च जायते ॥३९॥
अथ पूर्ण श्रमो येस्तु कर्तव्य सुसमाहितै ।
तानह कथयिप्यामि यथाशास्त्र यथाबलम्‍ ॥४०॥
ज्येष्ठी तथान्तरज्येष्ठी तथा गोपकुलोऽपि च ।
एते पूर्णश्रम कार्य  सयुक्तेर्भावितैर्गुणै  ॥४१॥
आरोग्याबलवान्‍ शूर प्राणवान्‍ सुश्रमस्तथा ।
श्रमसह केशसह पृष्ठकार्याग्निमानपि ॥४२॥
पूर्णश्रमेपि मल्लाना जायन्ते ये गुणा अपि ।
तानह कथयिप्यामि यथाशास्त्र यथावलम्‍ ॥४३॥
तथा हृद्‍रोगनाशश्च पित्तनाशोऽपि जायते ।
कृमिनाश कुष्टनाश स्वाडसामर्थ्यमेव च ॥४४॥
केशे सहिष्णुता शौर्य रोगाणां क्षय एव च ।
अग्निवृध्दि:क्रमादेते भवन्त्यत्र गुणा दश  ॥४५॥
परिपूर्णश्रमस्तस्माद्‍ कर्तव्यस्तु समाहितै: ।
पूर्णाश्रमे कृते मल्लैजयिन्ते लक्षणानि वै ॥४६॥
तान्यह  कथयिप्यामि श्रयता च  प्रयत्नत:  ।
स्वेद:  सर्वेषु चाडेषु नेत्रयाश्चैवा रक्तिमा ॥४७॥
जरानाश: कफनाशो मेदोनाशस्तथा पर:  ।
प्रस्वेदं शोषयत्येव मुखे श्वास:  प्रवर्तते ॥४८॥
हृदयं शोषयत्याशु  कण्ठे शोषश्च तत्क्षणात्‍ ।
तथा मुखं च शोषयति कला शोपयति क्रमात्‍ ॥४९॥
भ्रमोऽत्यन्तमेव स्यात्‍ मूर्छा प्रकुरुते परम्‍ ।
पिपासा जायते सद्यो बलहानिर्विशेषत: ॥५०॥
छर्दिभ्रमश्चासकासरक्तपित्तभयानि च ।
तथा हृदयदाहं च ज्वरमुत्पादादेदलम्‍ ॥५१॥
इति ज्ञात्वा च सकलं कर्तव्यं हितमात्यन: ।
येन  कृतेन मल्लाना जायते सुखामाशु वै ॥५२॥
तदहं कथयिप्यामि शृण्वन्तु विधिपूर्वकम्‍  ।
स्त्रानं शीतोदकनैव कारयेत्‍  प्रथमं सदा ॥५३॥
कर्तव्यं च पय: पानं शी (मि) तथा च समन्वितम् ।
द्राक्षाणां भक्षणं चैव श्वेतवस्त्रनिपेवणम्‍  ॥५४॥  
विलेपनं चन्दनेन  कर्पूरेण च शोभतम्‍ ।
अर्धवस्त्राच्छादन च्च कटुतिक्ताम्लवर्जनम्‍ ॥५५॥
भोजनं सरसं चैव गुडसारैश्च गोधुमै ।
एवं कृते तत: पुष्टि: शरीरे गच्छति श्रम ।
मल्लै: कर्तव्यभित्येवमुपचार सुखावह: ॥५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-30T18:33:26.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bezel

  • न. कोंदण 
  • पु. तिर्यक पैलू 
RANDOM WORD

Did you know?

Gharamadhye Shriramachi ani marutichi pooja karavi ka ? baykani keli tar chalate ka ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site