TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - त्रयोदशोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


त्रयोदशोऽध्याय: ।
मल्लयुध्दं सविज्ञानं विशेष कथितं  तव ।
इदानीमुपयोग: स्यातस्य विस्तारयाम्यहम्‍ ॥१॥
द्रष्टव्यं सततं राज्ञा शास्त्रेण च विवेकिना ।
संग्रामरसिकेनैव नित्यं विविधबुध्दिना ॥२॥
युध्दमुत्साहजननं दु:स्वाहन्तृ विनोदनम्‍ ।
मल्लयुध्दसमं नास्ति तेन शुध्दं समारभेत्‍ ॥३॥
जित्वा च सकलान्‍ रिपुन‍ प्रायो निष्कण्टका मही ।
दाविनियाश्च युध्देन राज्ञा नान्य विनोदनम्‍ ॥४॥
अतो रडं समाहूय चतुरैर्नागरै: परै: ।
कलाविद्भिरमात्यैश्च सुहृद्भिश्चैव  उत्सवे: ॥५॥
आहारारोग्यसंपन्ना श्रमोत्साहसमन्वित ।
समतं मध्यमं ज्ञेयं सिहमानं तथाऽधमम्‍ ॥६॥
इति ज्ञात्वा विधानेव (नेन) देशकालविशेषि (प) त: ।
कदाचित्कालयोगेन विशेषो भवति श्रमे ॥७॥
तथैव भेद्सारेण कफवातयुतेन ते ।
सदा गौणितककटिप्राणसंप्राणमेव च ॥८॥
पवनस्य जयश्चैव एतदष्टगुणं स्मृतम्‍ ।
मल्लानां विजयकरं तम्मादेतन्ममभ्यनेत्‍ ॥९॥
अष्टधा भवति प्राणं बाहुप्रेरणिकथम्यनेत्‍ ।
तलहस्तभवं प्राणं भुजप्राणं तथैव च ॥१०॥
स्कन्धप्राणनुर प्राणं भुजणीपवनं तथा।
जानुपानं कटिप्राण रोपनं नवपादयो: ॥११॥
ऊर्ध्वस्थायिकमेवैतत्‍ प्राण एकादशात्मक: ।
अत: सर्वप्रकारेण श्रममेव सदाभ्यसेत्‍ ॥१२॥
ऊहापोहस्तु कर्तव्य. प्रतिमल्लसमागमे ।
यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥१३॥
ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।
कथं च धारयिप्यामि कथं स्थाप्यामि वा पुन: ॥१४॥
कथं च धारायिप्यामि गमिप्यामि च वा कथम्‍ ।
गृह्यते वा कथं ह्येप रक्ष्यते वा कथं पर: ॥१५॥
कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।
गुरुगोणितकाभेदा श्रेष्ठा सप्तद्शापि वा ॥१६॥
तानहं कथयिप्यामि यथायोग्यं तथावलम्‍ ।
प्रथमं च नमस्कृत्य कक्षायां जानुसभवम्‍ ॥१७॥
ध्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।
तथैव कुक्षिजानुभ्या तले कृत्वा विधारणम्‍ ॥१८॥
धृतेनापि वशं तिष्ठेत्ततो याति तथा पुन: ।
उरसा धारणं तस्मात्ततो दण्डविधारणम्‍ ॥१९॥
पुनश्चैव तु जानुभ्या तले हस्तविधारणम्‍ ।
पुनरुत्तिष्ठविंशति यशाशक्त्या समभ्यसेत्‍ ॥२०॥
ध्रियते वाड्‍ घ्रिजानुभ्या लोलयेच्च पुन: पुन ।
धारणं तलपादाभ्या तथैव च पुन: क्रमात्‍ ॥३१॥
अथ धारयकन्ये (स्यै) व स्थानानि परिपूरयेत्‍ ।
शिरसा धारणं चैव शिरसो हननं तत: ॥२२॥
बाहुचालनमेवोक्तं चरणग्रहणमेव च ।
पदस्य संधिग्रहणं करसंधिस्तथैव च ॥२३॥
सर्वाडे चालनं चैव भेदा: सप्तदश स्मृता: ।
गुरुणोणिताभ्यां चैव वर्धते प्राण उत्तम: ॥२४॥
एकोनविशत्यधिकं कथ्यतेऽथ यथा शृणु ।
जडाप्राणू (ण) मुर: कण्ठप्राणं च उत्तमम्‍ ॥२५॥
सर्वाडस्थानसंभूतं जायते प्राणमष्टधा ।
इति ज्ञात्वा च सततं सादरं च समभ्यसेत्‍ ॥२६॥
भयात्वेवं समाख्यात: सर्वे विजयहेतवे ।
त्रय: पीडनका भेदा: कथिता मल्लकर्मणी ॥२७॥
तलह्स्तविधारणं कक्षाधारणमेव च ।
भुजसंधिधारणं च त्रय: पीडनकेऽधमा: ॥२८॥
गुणा भवन्ति ये चान्ये शृणु तान्‍ कथितान्‍ मया ।
प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात्‍ ॥२९॥
कक्षाप्राणं च भवति प्राणं च अकरसंधिजम्‍ ।
तलहस्तभवं प्राणं पादप्राण भवत्यपि ॥३०॥
इति पीडानिकाभ्यां च दृढप्राणं चतुष्टयम्‍ ।
प्राणपद्मं गदाभ्यासात्‍ कर्तुर्भवति सर्वदा ॥३१॥
तलहस्तप्राणं चात्र भुजप्राणं तथा पुन: ।
यो वा छोटनकाभ्यासात्‍ प्राणत्रयसमुद्भव: ॥३२॥
तलहस्तमवं प्राणं पोवाप्राणं तथैव च ।
भुजप्राणं तथैवात्र सदा तेन सम्भ्यसेत्‍ ॥३३॥
मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।
चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात्‍ ॥३४॥
जहाप्राणं च प्रथमं कटिप्राणस्तथैव च ।
जितश्चामध भवति हृदयं दृढमेव च ॥३५॥
कडुका (कुण्डक)वर्तनाभ्यासात्‍ सदा तेन समाचरेत्‍ ।
कर्करश्रमकायोगात्प्राण चैव चतुर्विधा (धम्‍) ॥३६॥
जडाप्राण कटिप्राण लघु तव भवत्यपि ।
पदनस्य जयश्चेव अर्धश्च जायते सदा ॥३७॥
तेन तत्सर्वदा कुर्यात्कर्करश्रममुत्तमम्‍ ।
प्राणव्दयं जलाभ्यासात्कर्त्तुर्भवति निश्वितम्‍ ॥३८॥
भुजप्राणमुर प्राण सर्वं तेन समाचरेत्‍ ।
सोपानरोहणे चेव प्राणत्र्यमुदाहॄतम्‍ ॥३९॥
भोजनार्धभ्रमात्पुसा त्रिविध प्राणमेव च ।
जायते सर्वसामान्य तथैव च समावरेत्‍ ॥४०॥
पश्चदशविधानोपि श्रमे प्राणसमुद्भव ।
एव रडसमभ्यासात्प्रशमो जायते तनु ॥४१॥
तेन सर्वश्रमाणा तु ज्येष्ठी रडश्रमोधिक ।
इति ज्ञात्वा गुणान्सर्वानुत्तमा गुणहेतव ॥४२॥
मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।
अष्टो गुणा भवन्त्येते शृणु वा कथयाम्यहम्‍ ॥४३॥
श्वासहरा वृध्दिकरा तथा श्रमहरापि च ।
भेदोहरा प्राणकरा सुशरीरकरापि च ॥४४॥
तथोत्करकरौ चैव तथाप्यायनकरापि (च)।
देयास्थिमाससारस्य भीमसेनी च मर्दनी ॥४५॥
त्वक्‍ रुधिरमासमेदपर्यन्तेनाभिसयुता ।
गुणा सप्त भवन्त्यत्र स्फुट ते कथयाम्यहम्‍ ॥४६॥
निद्रा करोति प्रथम तथा तेज करोति च ।
शौर्यकरा दीपनी च अडशुध्दिकरेति च ॥४७॥
कुरुस्तेऽत्यन्तशोभा च मनस्थिरकरा तथा ।
भीमसेनी च दातव्या मांससारस्य मर्दना ॥४८॥
त्वग्‍ रुधिरमांसपुष्टस्य लघुसारेण वर्ध्दयेत्‍ ।
करोति च गुणान्सप्त शृणु सर्वसुखावहान्‍ ॥४९॥
उत्साहं कुरुते चाशु तथा हृदं करोति च ।
सुखं करोति परमं लाघवं कुरुते परम्‍ ॥५०॥
मेधां ददाति परमां तन्द्रां च हरयेत्सदा ।
एवं सा कुरते भद्र श्वाससार्स्य मर्दना ॥५१॥
तेन सर्वैस्तथा सेव्यो मल्लै: सर्वाडसिध्दये ।
तथा मासास्थिसारस्य लध्वी देया च मर्दना ॥५२॥
त्वग्‍ रुधिरपुष्टिकरा प्रजाहादप्रदाघिनी ॥
चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥५३॥
कायशोधकरा चैव कायामार्दवकारिका ।
मर्दनाय परा नास्ति कार्या सौप्ठवकारका ॥५४॥
अस्थिगता मासगता तथा मलगतापि वा ।
श्रुता सा परमा गुह्या साम्या चैव पृथक्‍ पृथक्‍ ॥५५॥
प्रथमा भीमसेनी च तथा नारायणी परा ।
तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥५६॥
चेत-प्रकारा चैवेयं कथिता कैटभारिणा ।
प्रथमा चरणे देया व्दितीया जानुति न्यसेत्‍ ॥५७॥
तृतीया च करे देया मसृणी पट्टके तथा ।
पुनश्चतुर्विधा देया व्दात्रिंशद्‍गुणकारिका ॥५८॥
तथा त्रयोदशगुणैर्हेतुभिनांमदोहरा ।
श्रमहरा तथा वातहरा च कफहारिणी ॥५९॥
अग्निकरा वृध्दिकरा तनुविस्तारकारिका ।
काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥६०॥
इत्यास्थिता त्रिदशधा कथिता मर्दना मया ।
कष्टं हरन्ति नि:शेषजडत्वं यात्यसंशयम्‍ ॥६१॥
श्रमवानसि वातीति मांसस्य मर्दको भवेत्‍ ।
भीमसेना च मल्लानां देवा (या) नारायणी शृणु ॥६२॥
चित्रिणी बालवृध्दानां तैलाभ्यडेपु मर्दनी ।
भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥६३॥
धातुपश्चकपर्यन्तं जानुपादविमर्दनम्‍ ।
सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥६४॥
करस्तु केवलं यत्र दद्यात्त्वमांसमर्दना ।
सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधै: ॥६५॥
तैलाभ्यडे पटे नैव मसृणी त्वक्‍अ विमर्दना ।
इति विशेषतो युक्ता मर्दना लोकसंमता ॥६६॥
ज्ञात्वैतां च बहु शृणु चतुर्नामसमन्विताम्‍ ।
या यस्य रोचतेऽत्यन्तं तां तस्य कारयेध्ध्रुवम्‍ ॥६७॥
व्यायाम: कफनाशाय वातनाशाय मर्दनी ।
स्नानं च पित्तनाशाय तेन मल्ला महाबला: ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-31T18:18:16.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

EKĀDAŚASAṄKARAVARṆA(S)(एकादशसङ्करवर्ण)


  • (1) Karaṇa (one born to a Vaiśya of a Śūdra woman).
    (2) Ambaṣṭha (one born to a brahmin of a Vaiśya woman).
    (3) Ugra (one born to a Kṣatriya of a Śūdra woman).
    (4) Māgadha (one born to a Vaiśya of a Kṣatriya woman).
    (5) Māhiṣya (one born to a Kṣatriya of a Vaiśya woman).
    (6) Kṣattā (one born to a Śūdra of a Kṣatriya woman).
    (7) Sūta (one born to a Kṣatriya of a brahmin woman).
    (8) Vaidehaka (one born to a Vaiśya of a brahmin woman).
    (9) Rathakāra (one born to a Māhiṣya of a Karaṇa woman)
    (10) Pāraśava (one born to a brahmin of a Śūdra woman).
    (11) Caṇḍāla (one born to a Śūdra of a brahmin woman). (See under Puṁ, Put, Putra).
     
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site