संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| व्दादशोऽध्याय; । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - व्दादशोऽध्याय; । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत व्दादशोऽध्याय; । Translation - भाषांतर प्राणसाध्यो जयो युध्दे प्राणश्चाडविमर्दनात् ।श्रम: शरीरसाध्योयं शरीरं पुष्टीकारणम् ॥१॥अत: शरीरपुष्टीयमुपायं कथयाम्यहम् ।उचिताहारचेष्टा तु यथा पुष्टि: प्रजायते ॥२॥वातापित्तकफानां तु प्रकोष्ठे तेन लक्ष्यते ।तत्र प्रकुय्यति वात: प्रकारै: पोडशालाभि: ॥३॥आम्लतित्तकपायाणां कटुकानां च सेवनात् ।मध्यमानां सर्वाडानां वेगसंधाराणादपि ॥४॥व्यापीनमासनाश्चैव तथा जलतरणादपि ।बलवृध्दिकराच्चैव तथा जागरणादपि ॥५॥सामान्यमन्नशाकादिभोजनैश्च विशेषत: ।मेघोघ(द्र) मनकाले च जीर्णवस्त्रेस्तथैव च ॥६॥इति पोडाशधा चैव जन्तोर्वात: प्रकुप्यति ।इति क्षीयं (बं) प्रयत्नेन यथा सुखामवाप्नुयात् ॥७॥अथ वातप्रकोपस्य लक्षणं कथयाम्यहम् ।त्रायते येन्न विज्ञाय यथा युक्तिश्चिकित्सिते ॥८॥शिरसीव तथा वाते वातश्च श्रोत्रयोरपि ।नेत्रयोइर्हॄदये चैव हनुदेशे तथैव च ॥९॥स्कन्धयोरडासंधौ च जायते च दिघानिशम् ।भुजयोश्चैव जडायाद्दं सका(संको) चमपि जायते ॥१०॥भ्रम: कम्पम्तथा स्वेद: सी (स्ने) ह: पृष्ठोदरेपु च ।बृहणं कक्षयोश्चैव नाभिदेशे तथैव च ॥११॥गुह्ये चैव तथापत्रे तथा पृप्ठे (क) क्षयोरपि ।एतेप्वडेपु मल्लानादं विकारात् रुक् प्रजायते ॥१२॥आपरं (अल्पं) भवति चापल्यं त्वक् पारुस्यां च जायते ।अग्निविषतमा (मता) चैव लक्ष्यन्ते वायुलक्षणम् ॥१३॥वातप्रशमनोपायं संपातं कथयाम्यहम् ।स्नेहनेनाभिषेकश्च नित्यं चोपक्रमादपि ॥१४॥मन्थादिमं मासमयं ध्रुवं वातप्रशान्तये ।दातव्यं भेषजं पश्चादुपवासादनन्तरम्ट ॥१५॥ज्ञात्वा प्रयत्न: कर्तव्य: संक्षेमाप्त्यै यशाप्तये ।रक्षा च त्रिफलाभिश्च रेचना च अपि स्मृतम् ॥१६॥रुधिरस्रावमपि च घृतं दुग्ध च शर्करा ।पित्तप्रशमनं चैव मल्ले कर्तव्यमुत्तमम ॥१७॥एलया सितया मिश्रं पय:खण्डेन योजितम् ।सप्तरात्रप्रयोगेण पित्तं नाशयति ध्रुवम् ॥१८॥कुर्वन् पित्तप्रशान्तिश्च प्राप्नोति परमं सुखम् ।इति पित्तप्रशान्तिश्च सर्व च कथितं मया ॥१९॥बहुमण्डजलाहारैर्मधुरैश्चातिशीतलै: ।दधिदुग्धनवात्रैश्च तथैव च नवोद्कै: ॥२०॥तथा पित्तविकारैश्च भक्ष्यैश्चैक्षुसमुद्भवै : ।लवणेन दिवास्वापात्ताथैव विषमासानात् ॥२१॥एतै: प्रकारैश्चान्यैश्च कफ: कुप्यति न संशय: ।इति प्रकोप: कफजो ज्ञातव्यो लक्षणै: सदा ॥२२॥कथ्यन्ते लक्षणान्यत्र कफकोपाभवानि च ।अडस्य गौरवं चैव तथाप्रेरपि मन्दता ॥२३॥हृदयस्य सदा केशो सुखं चैव प्रशुप्यति ।मुखे मधुरता चैव तथालस्यमपि ध्रुवम् ॥२४॥अतिकासप्रभावेपि तथैव चक्षु पाण्डवा (ण्डुता) ।प्रज्ञाभ्रमे (मो) रोमहर्षस्तथैव पीनसा (सो) द्भव: ॥२५॥कायो निद्रा च तन्द्रा च तथा लाला च पोतनम् ।जायते यत्र यत्रेदं स्थानानि कथयाम्यहम् ॥२६॥कण्ठोप्ठरसनास्वेदो दन्तमूलेपु तत्क्षणम् ।बालाप्राणतलेप्वेव तथैव श्रवणान्तरे ॥२७॥तथा सर्वश्रमस्थाने भवेच्चलचलायनम् ।विज्ञाय लक्षणैरेतै: श्रमं कुर्वन्ति तत्क्षणम् ॥२८॥नाशश्चैव प्रकर्तव्य: शुध्दोण्णोदकवारिणा ।आडकं च त्रिकट् कर्म दर्पायित्वा प्रयत्नता: ॥२९॥वीजपूरकगर्भेण मेलयित्वा च सैन्धवम् ।कवलानि मुखे घृत्वा चावयित्वा समुत्सृजेत् ॥३०॥योगमेनं कृतं प्राहुर्निश्चितं कफनाशनम् ।तस्मादारोग्यप्राप्त्यर्थ शोचनीयं प्रयत्नत: ॥३१॥हिंगु सौवर्चलं शुण्ठी दाडीमं मुस्तसंयुतम् ।उष्णेन वारिणा पीतं हृद्रोगधासकासनुत् ॥३२॥अन्यौपधानि विज्ञाय कर्तव्यानि च तत्क्षणात् ।येनैवारोग्यमाप्नोति मल्ल: सर्वच्च (त्र) सर्वदा ॥३३॥ N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP