संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| पश्चदशोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - पश्चदशोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत पश्चदशोऽध्याय: । Translation - भाषांतर चतुर्विधं नियुध्दं तु शृणु मतिमतां वर ।आद्यं धरणिपातं च आसुरं च व्दितीयकम् ॥१॥तृतीयं नारमित्युक्तं युध्दं पुनश्चतुर्थकम् ।तेपां धरणिपातस्य भेद: पश्चविधो भवेत् ॥२॥तलप्रहार: प्रथमा: करप्रहार एव च ।निपत्य चात्मना भूमौ परं पातयति ध्रवम् ॥३॥पातितस्य स्फुटं हारनिरुध्दे विजयो भवेत् ।ज्ञात्वैवं बलबुध्दिभ्यां युध्दमेतत्समाचरेत् ॥४॥अथैतद्भासुरं युध्दं व्दात्रिंशद्भेदभीपणम् ।केपाकर्पणपीडा च कर्णस्फोटनमेव च ॥५॥नासिकास्फोटनं चैव तथा चर्वणमेव च ।दन्तपातनमेव स्यान्मुखे पाशुनिपातनम् ॥६॥अथ पांशौ परिक्षेपो नखैरेव विदारणम् ।नाडिकापीडनं चैव ग्रीवाग्रहणकं तथा ॥७॥एकाडुलीमोडनं च पादाडुष्ठस्य मोडनम् ।अडुलीत्रितयस्यापि मोडनं कथितं कचित् ॥८॥कराडुप्ठमोडनं च पादाडुप्ठस्य मोडनम् ।समग्राडुलिभडो वा फ्रणग्रहणमेव च ॥९॥भारेण च प्रहारेण विज्ञानेन पुनस्तथा ।वालकेन प्रकारेण मारयुध्दमथापि च ॥१०॥प्राणेन चौजसा चैव तथा वहणीनापि च ।येन केन प्रकारेण मारयुध्दं समागत: ॥११॥स एव ममों मल्लानां पातनं च महीतले ।भारं च भारभग्रं च वितरं समरे त्यजेत् ॥१२॥येनापाढकमध्ये तु जीवितं च विमुश्चति ।इदानी धर्मयुध्दस्य व्दात्रिंशत्कथिता गुणा: ॥१३॥तानहं कथयिप्यामि यथा विक्रमणागता: ।केशानाकर्पयति च कर्णौ च त्रोटयत्यपि ॥१४॥अक्षिणी न स्फोटयत्यपि मुखं च स्फोटायत्यपि ।नासिका च त्रोटायति तन्दाति सर्वयत्यति ॥१५॥भ दन्तान् पातयति च पांशुक्षेपो न वै मुखे ।नाक्ष्णो: पाशुपातनं च विदारयति नो नग्वै: ॥१६॥न नालिका पीडयति ग्रीवा चैव न पीडयेत् ।न कच्छखोटनं कुर्याद्दण्डं गृहाति नैव हि ॥१७॥शिरसो घातनं नैव मर्मभडं च वर्जयेत् ।प्रकाशयन् धर्मयुध्दं यशोहर्पाविवर्धनम् ॥१८॥धरणीपातिस्याथ मत्सरं परिवर्जयेत् ।य: कश्चिद्दर्पसंयोगादासुरं युध्दमारयेत् ॥१९॥गमे वापि मृते तस्मिन् राजा च दोपभाग्भवेत् ।इत्यडसडरे मल्ले ज्ञात्वा यत्नेन भूपति ॥२०॥निवारयति यो भूय: संप्राप्नोति परं यश ।पक्षपातो न कर्तव्य: सर्वत्र सगता वर: ॥२१॥समेन पालयेद्राजा यश: प्राप्नोति निश्चितम् ।धर्मयुध्दे कृते मल्लो मल्ल मारयते यदि ॥२२॥राजा चोपेक्षते चैव तदा दोपो महान् भयेत् ।प्रमदा (मादान्) ध्रियते वापि न दोपो राजमल्लयो: ॥२३॥घाताश्चैवोपघाताश्च विज्ञाताश्चैव विक्रमा: ।इत्येते धर्मयुध्दस्य व्दात्रिंशत्कथिता गुणा: ॥२४॥ N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP