TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - पोडशोऽध्याय:।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


पोडशोऽध्याय:।
गजेनैव यथा युध्येच्छृणु ते कथयाम्यहम्‍ ।
बाहो: स्फालानमित्येव सुस्थानाचालनं तत: ॥१॥
पादयोश्च समं स्थानं निष्ठं वाल्पताडनम्‍ ।
कण्ठरा (रो) धो दण्डधातो हस्ताभ्या स्कन्धधारणाम्‍ ॥२॥
कराकर्षणमन्योन्यं शिरसोन्योन्यधारणम्‍ ।
उरोधारणमुरसा प्रह (र)णं चोरस्येव कक्षाविदारणम्‍ ॥३॥
यो येन यथा वापि प्रविश्य स्थानकेऽपि च ।
करबले वाथ शीर्षं ततो मुहडकेन वा ॥४॥
बाहुबलेन बलवान्‍ बलहस्तेन वा पुन: ।
गजस्य युध्दे कथितं वृपगस्य तु कथ्यते ॥५॥
वृयभस्य वृषभेण यथा युध्दं तथा शृणु ।
बाहोरास्फालनं चैव समं समाग (म) मेव च ॥६॥
सतलहस्तप्रमाणं हननं बाहुना तथा ।
चरणाघर्पणं चैव बलमन्योन्यमेव च ॥७॥
स्थानके च प्रवेशं च शीर्षेण देहलेपनम्‍ ।
पृष्ठे चाप्युदरे वापि स्थानविज्ञानमेव च ॥८॥
अथ सिंहस्य सिहेन युध्दं भवेद्यथा पुन: ।
उभयोश्चैव नान्योपि भ्रमणं भ्रामणं तथा ॥९॥
करचालनके दण्डो पश्च वाछोनकं तथा ।
प्रशव्दाश्च तथैवान्ये तथा चोत्पतनं परम्‍ ॥१०॥
बलाबलं च विज्ञेयं चतु: स्थानप्रवेशनम्‍ ।
नितम्बेन कर्पणं च विज्ञानं स्थानकेन च ॥११॥
शोषणं शोणितस्यापि तथा च छेदनं परम्‍ ।
तेजोज्वलनतापेन वेगेश्च प्रपदेन च ॥१२॥
ताडनेन तपोप्राप्ते तत्र भीपणसागरे ।
सोनेन पातितस्येव कृष्णेन कथितं पुरा ॥१३॥
मृगस्य च मृगेणाथ युध्दं तथा शृणुप्य तत्‍ ।
बालकास्तालनं प्रोक्त समं च तलचेष्टितम्‍ ॥१४॥
समं च शौर्यमुभयोस्तथाडवर्तनं व्दयो: ।
दुरागत्य समारम्भात्पार्श्वे च भ्रमणं तथा ॥१५॥
शीघ्राघात: समुत्थानं लघूकरणमेव च ।
लघुकत्वस्थानकं चैव विविधं युध्दमेव च ॥१६॥
अधोनि:सरणं चैव बहुदॄश्यकरं तथा ।
उरुपादं च संधानं कक्षाया: स्थानघातनम्‍ ॥१७॥
तकणं रक्षणं केगान्‍ मृगयुध्दं च गुल्मनि ।
एवंविधानि युध्दानि कथितानि मुरारिणा ॥१८॥
ज्ञात्वा चैव बलज्ञानाअत्मनस्य (श्च) परस्य च ।
योध्दयव्यं मुच्यते पापै: प्रतिकुर्वन्‍ परस्परम्‍ ॥१९॥
स्वजातियुध्दं कथितं विजाति कथयाम्यहम्‍ ।
गजसिंहकयोरेव संग्रामस्य प्रसूयते ॥२०॥
समपादमुन्नताडं गजस्थानमितीप्यते ।
सिंहम्येव परं स्थानं लागाडं भीमदर्शनम्‍ ॥२१॥
ओजसाश्चै(चै)व वेगेव प्राणेनैव परस्परम्‍ ।
विज्ञानमायिग्रहणं रडभूमौ विनिश्चितम्‍ ॥२२॥
सिंहस्यापि वशेन स्याद्‍ व्दयोर्युध्दं भवेद्यदि ।
सिंहस्यापि भवेल्लीनं बाहास्फालनमिप्यते ॥२३॥
पादौ चलौ च विषमे लीनाडस्थानमेव च ।
वृषस्यापि करस्थानमडुप्ठस्थानमेव च ॥२४॥
सिंहेन सह वृषभो उद्यमेवं सगाचरत्‍ ।
तदा लाग ऊर्ध्व्दस्थोपि घातयत्यपि वा पुन: ॥२५॥
पक्षव्दयेपि सिंहेन पात्यते वृषभस्तथा ।
ऊर्ध्दस्थोपि तथा चार्थं कथं च त्रोटिको भवेत्‍ ॥२६॥
तदा सिंहो वृषेणापि पात्यते नात्र संशय: ।
यथा युध्दं भवत्येव कथं च मृगसिंहयो: ॥२७॥
सिंहस्यापि तथा लीनं करास्फोटनीमप्येत ।
लीनाडस्थानमपि च चलनं विषमं बलम्‍ ॥२८॥
मृगस्य बलिनश्चैव बाहास्फालनमिप्यते ।
अडानामथ घटनं भ्रमण्म पाश्चतोपि च ॥२९॥
दूरात्प्रसरणं प्रोक्तं करस्य स्पर्शने तथा ।
अतो वेगाग्रहणं च पातनापातनं तथा ॥३०॥
एवप्रकारेण मृग समं सिंहेन युध्दयति ।
गजसिंहे समुत्साहे बलैर्विविधचेष्टितै: ॥३१॥
कुर्वन्‍ परं जयत्येव विपरीतं विनश्यति ।
बलेनाप्यबलेनापि योध्दव्यं विजयैपुणा ॥३२॥
गजस्यैव मृगस्यैव यदि युध्दं परस्परम्‍ ।
उन्नताडं गदस्थानं समपादं तथैव च ॥३३॥
चलाड चलपादं च मृगस्यैव भवत्यपि ।
गजो गन्तुं प्रविष्ट्श्च मृगस्य कुशलं तत: ॥३४॥
अतो मृगेण योध्दव्यं चलपादं यदान्तरम्‍ ।
पुष्पावर्त्य जघो युध्दयेत्कापि कस्यापि जायते ॥३५॥
तस्मादोजो न प्रोक्तव्यो गजेनापि गजाहये ।
ऊर्ध्दस्यापि कथा वापि त्रोटितस्तु भवेद्यदि ॥३६॥
तदाडं प्रविश्य मृगो गजं घातयति ध्रुवम्‍ ।
स्थानं किंच प्रविश्याथ विज्ञानं गन्तुमिप्यति ॥३७॥
सदा परस्परं युध्दं कथितं कैटभारिणा ।
एवं कुर्वन्‍ सदा मल्लो नियुध्दविजयी भवेत्‍ ॥३८॥
गजस्य वृषभस्यापि युध्दं तत्कथितं पुरा ।
भ्रमणेनाडसेन करमुत्पादयत्यपि ॥३९॥
उत्पाद्य शीघ्रं वृषभो गजं घातयति ध्रुवम्‍ ।
प्रस्थानं चैव विज्ञानं सदॄशं दृढमेव च ॥४०॥
गृहात्येवं प्रकुर्वाणो मल्लस्तु विजयी भवेत्‍ ।
वृषभस्य मृगस्यापि यदि युध्दं भवेत्तदा ॥४१॥
वृषभस्य समानं च करास्फोटनमेव च ।
विषमं पादस्थानं च समाग: स्थानमुत्तमम्‍ ॥४२॥
वृषभस्य भवेद्युध्दं कथितं कैटभारिणा ।
तालवितालघातश्च वेगघातस्तथैव च ॥४३॥
समतालेन तालश्च तथा च परिवर्तनम्‍ ।
उभयोर्दण्डहननं स्कन्धाघातनमेव च ॥४४॥
बाहुघात: पाशुघातो दृष्टिघातस्तथैव च ।
यो येन पात्यते चैवं स तेन पातितो भवेत्‍ ॥४५॥
भवत्येवविध युध्द गजस्य वृषभस्य च ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-31T18:20:58.3830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

admonishment

  • स्त्री. कानौघडणी 
  • स्त्री. समज 
  • पु. उपदेश करणे 
  • = admonition 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site