TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - नवमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


नवमोऽध्याय: ।
श्रीकृष्ण उवाच ।
अत: पर प्रवक्ष्यामि ज्येष्ठिन: श्रमजान्‍ गुणान्‍ ।
उदयो लभ्यते  यस्तु लोके कीर्तिरनुत्तम्‍ (मा) ॥१॥
व्यायागोभिह्स्तथाहारो बलप्राणसमुच्चय: ।
काठिन्यतोद्यमोत्साहलघूकरणमेव च ॥२॥
शौर्यकर: सुखकरस्तथा मतिकरोऽपि च ।
मानकरो हर्षकर: सौभाग्यकर एव च  ॥३॥
भयहरा: कफहरो मेदोहर इति स्मृत: ।
सदा केशहरो लोके जडत्वहरा एव च ॥४॥
आलस्यहरणं चैव शत्रुनाशस्तथैव  च ।
वातहर: पित्तहरस्तथा बलिहरोपि च ॥५॥
राजप्रासादकरणं तथार्थकारणं परम्‍ ।
यश: करोति सततं स्वजनाहादकारक: ॥६॥
दुर्जनानां  दाहकरो ह्यनुरागकरो  यत: ।
सर्वकार्यकरश्चेति ज्येष्ठिन: श्रमलक्षणम् ॥७॥
श्रमहेतोर्गुणा: सर्वे प्रभवन्ति न संशय:  ।
श्रमं विना वितश्यन्ति तस्मात्कार्य: श्रम: सदा ॥८॥
पश्चाभि: स्वाडसंस्थानैर्जातिस्थानैश्चतुर्विधै:  ।
पादस्थानैश्चतुर्भिश्च विविधाकारेचेष्टितै: ॥९॥
उत्पादितं मया पूर्व मल्लाना हितकाम्यया ।
पटूप्रकारैश्च घातैश्च पट्‍प्रकारैश्च घातैश्च: ॥१०॥
हरीतकी सैन्धवं च हिंगु पिप्पली नागरम्‍  ।
गोलयित्वोपभुक्तेन जाठरोग्रि:  प्रवर्धते ॥४३॥
हरीतक्येकादशगुणा  विज्ञेया शास्त्रपारगै: ।
आयुप्या चक्षुप्या चैव लवणा मधुरा रसा ॥४४॥
तथोप्मदीपनी चैव दोषघ्री शोषकुष्ठनुत्‍ ।
व्रणान्यापाहरेद्‍ वातानेकादशगुणा स्मृता ॥४५॥
पिप्पल्येकादशगुणा स्त्रिग्धोण्णा मधुरापि च ।
रुक्षा च कटुका चैव दीपनी सारकारिणी ।
भरुत्श्लेप्मश्चासकासरोगबन्धविनाशिनी ॥४६॥
हिडुश्चैकादशगुणो लघूष्ण: पाचनेपि च ।
दीपन:  कफवातघ्र: स्त्रिग्धश्च कटुतिक्तक:  ।
शूलाजीणाविबन्धघ्री चैवमेकादशेव तु ॥४७॥
सैन्धवश्च (स्य) नव गुणा: स्वादुबांलवणोत्कट :  ।
चक्षुप्यो रेचको वृप्य:  पाचनोप्यतिदाहक: ।
विबन्धघ्रो मलघ्रश्च नवैते विमला गुणा: ॥४८॥
मया तव समाख्याता: सर्वे ते पुष्टिहेतवे ।
अन्यानि चापि वक्ष्यामि मल्लाना पुष्टिकारिणाम्‍ ॥४९॥
ससत्वमत्स्यमांसानि  दधिदुग्धधृतानि च ।
शाकमूलफलदानि पानकानि बहून्यपि ॥५०॥
तत्राडीकृताखण्डस्य संभवन्ति गुणाम्त्विमे ।
वातहरं पित्तहरं तथैव च सुशीतलम्‍ ॥५१॥
चक्षुप्यं बृहणं हद्यं बल्यं वृप्यं तथैव च ।
एते खण्डस्य विज्ञेया नवधा कीर्तिता गुणा: ॥५२॥
शर्करा तु नवगुणा कथिता पूर्वसूरिभि: ।
ज्वरहरा पित्तहरा तथा शीतकरापि च  ॥५३॥
छर्दिहरा तृड्‍हरा तथा श्लेप्महरापि च ।
मूर्छाहस क्लेशहरा विपघ्री चैव कथ्यते ॥५४॥
भाक्षिकं मधु विज्ञेयं संयुक्तं नवभिर्गुणै:  ।
कपायं शीतलं रुक्षं मधुरं दीपनं तथा ॥५५॥
तथैव लेखनं चैव बल्यं व्रणविशोधनम्‍ ।
शोषणं चैव  नवधा भाक्षिकस्य गुणा इमे ॥५६॥
गव्यं पयो दशगुणं श्रूयताअं च यथा तथा ।
रसायनं  बलकरं हृद्यं मेधाकरं तथा  ॥५७॥
आयुप्यं  पुष्टिदं चैव तथा वातहरं परम्‍  ।
रक्तकरं पित्तहरं विकारहरमेव च ॥५८॥
अजापयो नवगुणं कपायं मधुरं तथा ।
संग्राहिकं शीतलं च  लघु रक्तकरं तथा ॥५९॥
विशेषत: पित्तहरमतिसारघ्रमेव च ।
क्षयकासज्वरहरं तेन सेव्य सदा भवेत्‍ ॥६०॥
माहिप्यं सप्तधा दुग्धं कथितं पूर्वसूरिभि: ।
माहिप्यां च हि  मधुरं वहिनाशनमेव च ॥६१॥
निद्राकरं शीतकर जडत्वकरमेव च ।
भेद: करं कफकरं कथिता:  सप्त गुणा  इमे ॥६२॥
गव्यं दधि स्वादुकरं म(ब) लकं ग्राहकं तथा ।
उष्मघ्रं च वातघ्रं भेद: शुक्रकरं तथा ॥६३॥
रक्तपित्तश्लेप्मशोपनाशनं  स्त्रिग्धमेव च ।
तथैव पाके मधुरं दीपनं बलवर्धनम्‍  ॥६४॥
वातहरं पवित्रं च रुचिकाग्रिकर तथा ।
इति ज्ञात्वा प्रयोक्तव्यं गव्यं दधि यथोचितम्‍ ॥६५॥
आज दधि चाष्टगुणं कफवातहरं परम्‍ ।
पाचनं बलसंयुक्तं कृमिनाशनमेव च ॥६६॥
कासहरं श्वासहरं अग्रिदीपनमेव च ।
एवंगुण च विज्ञाय भोक्तव्यं सर्वदा दधि ॥६७॥
माहिप व्दादशगुण दधि निश्चित्य कथ्यते ।
विपाके मधुरं वृप्यं रक्तपित्तहरं तथा ॥६८॥
बलसंवर्धनं स्रिग्धं  महन्न्मादकमेव च ।
मधुरं कफहर चैव मेदोवृध्दिकरं परम्‍  ॥६९॥
रसे पाके च मधुरं तथा वातकरं परम्‍ ।
गव्यघृतस्य चाष्टौ ये गुणा मे कथितास्तव ॥७०॥
विपाके मधुरं चैव वातपित्तहरं तथा ।
विपहर चाग्निकर चक्षुनिर्मलकाराकम्‍ ॥७१॥
तथा बलकर चैव गुणा गव्यघृतस्य च ।
आजस्य च घृतस्यापि गुणास्तेपि प्रकीर्तिता: ॥७२॥
चाक्षुप्यं दीपनं मल्यं कासघ्रं श्वासनाशनन्‍ ।
क्षयरोगहरं चैव अजाया घृतमुत्तमम्‍ ॥७३॥
माहिपस्य घृतस्येव गुणा: सप्त प्रकीर्तिता: ।
मधुरं पित्तरक्तघ्रं गुरु  पाके क्षयापहम्‍ ॥७४॥
वातघ्रं शीतल चैव माहिपं घृतमुत्तमम्‍ ।
रक्ताशलिश्चाष्टगुणो नयविद्भिर्रुदाहृत ॥७५॥
चक्षुप्य. शुक्रकृत्‍ चैव मूत्रकृत्‍ परमार्थत ।
तृपाहरो बलकरो हृद्य म्वरकरोऽपि च  ॥७६॥
गौरपष्टिश्चतुर्धा तु गुरुशीतार्तिदोपहृत्‍  ।
यवाश्चाष्टादशगुणा रुक्षा शीतास्तथैव च ॥७७॥
गुरव म्बादुवन्तश्च शीतला वातकारका: ।
वप्यस्थैर्यकराश्चैव पित्तहन्तार एव च ॥७८॥
मेदोहरी:  कफहरास्तथा चाग्निकरा अपि ।
पित्त अर्प  (त्ताशो) हरा श्वासकासघ्नाश्च विशेषत ।
गुरुस्तम्भहराश्चेव कण्ठरोगहरास्तथा ॥७९॥
गोधूमा व्दादशगुणा वातला गुरवाम्तथा ।
स्निग्धाश्च जीवनाश्चैव वातपित्तहरा अपि ।
सन्धानका सुमधुरा शीतला: स्थिरकारका: ॥८०॥
मुद्राश्चतुर्गुणा ज्ञेया कफपित्तहरास्तथा ।
कपाया मधुरा प्रोक्त एते मुद्रगुणा:  स्मृता: ॥८१॥
चणक षड्‍गुण प्रोक्त कफहृत्‍ पित्तहृत्‍ तथा ।
शुक्रहरो वातकर:  शीतमोहहरस्तथा ॥८२॥
आढकी व्दिगुणा प्रोक्ता: कफपित्तहरा स्मृता ।
मापाश्च व्दादशगुणा: स्रिग्धाश्च मधुरास्तथा  ॥८३॥
वृप्यो मेदकरश्चैव  कफमांसकरोऽपि च  ।
वातकृत्‍ बृंहणश्चैव बलयुक्तं: पुरीपकृत्‍ ॥८४॥
गुरुर्भवति तेनैव माप: सर्वेषु  शस्यते ।
एते व्दादश गुणा: प्रोक्ता गुणान्मांसस्य बोधत ॥८५॥
कपायं मधुरं चैव हृद्यं पित्तहरं तथा ।
असृग्‍ हरं चाग्रिकरं कफवातहरं तथा ॥८६॥
संग्राहिकं रोचकं च बलकृत्‍ ज्वरहरं तथा ।
एकादशगुणं मांसं शीर्षरोगहरं परम्‍ ॥८७॥
सुखादुमतिसारं च  पित्तासृकहरं परम्‍ ।
अशाघ्र लघु रुक्ष च कपाय स्वादु चैव हि ।
बहुविष्ठाकरं चैव शीतल च  विशेषत: ॥८८॥
आजमांसमष्टगुणं  स्रिग्ध वृध्दिकरं परम्‍ ।
अब्घिप्यन्दहरं चैव नात्युष्ण धातुसाम्यकम्‍ (कृत्‍) ॥८९॥
बलकरं बृहणं च तथा वातहरं  परम्‍  ।
सरस्सं मांसं च परं कफवातहरं तथा ॥९०॥
अथ भोजनम्‍ ।
अतिमात्र तु रोगाय अंशदोषचतुष्टकम्‍ (?) ।
भोजन हीनमात्र च बलं तेन प्रजायते ॥९१॥
हेमन्ते शीतासंरोधाद्‍ं धातूननलो वायुनेरित:  ॥९२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-30T18:34:21.9870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मांडीखालचा

  • सरावाचा 
  • नेहमींचा बसायाचा 
  • पूर्ण सवयीचा ( घोडा ). ‘ स्वारीच्या मांडीखालचा घोडा असावा. ’ 
RANDOM WORD

Did you know?

relatives kiva veh itar lokanchya divsache bhojan ghyave ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.