TransLiteral Foundation

मल्लपुराणम् - पंचमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


पंचमोऽध्याय: ।
भवन्त्यष्टविधा मल्ला: कथयामि यथा तथा ।
युवा च प्राणवांश्चैव तथा पर: ॥१॥
अपरश्चान्तरज्येष्ठी तथा गोपकुलोऽपि च ।
भविप्यो बालबृध्दौ च कथिताश्चाष्टधा इमे  ॥२॥
चतुर्भेदैश्च भिन्नास्ते शत्रोर्जयगुणोदयै:  ।
गज: सिंहो वृपश्चैव मृगोऽपि च तथा पर: ॥३॥
यस्य येन यथा युध्दं सोमेश्वरा तथा शृणु ।
हितोपदेशं विविधं विचार्य कथयान्यहम्‍ ॥४॥
श्रीकृष्ण उवाच ।
अथ मल्लाश्च चत्वारो भवन्ति निजकैर्गुणै: ।
गजो वृपो मृग: सिंहो भविष्य: पश्चमो मत: ॥५॥
त्रिंशव्दर्पादिपर्यन्तं प्रवृत्ति: सडमेन च ।
आहारो न  प्रवर्तते सवेषां भविता गुणा: ॥६॥
त्रिचत्वारिंशदूर्षाणि मल्लाश्चत्वार एव च ।
श्रमैरभ्यासैराहारै: संयमेन निरन्तरम्‍ ॥७॥
धारयन्त्यान्मनो विद्यां गुणाश्चापि यथा तथा ।
अथोध्व यावत्‍ पश्चागत्‍ प्राणेनापि बलेन च ॥८॥
सवाभ्यासेन शौर्येण कालेनापि पुन: पुन: ।
वृपमश्च मृगश्चैव सिंहश्चापि तथा पुन:  ॥९॥
अथैपामेव मल्लाना धार्यमाणा अपि ध्रुवम्‍ ।
गुणा: प्रयान्ति व्यसनै: कालस्यापि क्रमादपि ॥१०॥
वर्जयित्वा गजं तस्य पष्टिवार्पाणि योग्यता  ।
वृषसिंहमृगांश्चापि तेनैव व्यतिरिच्यते ॥११॥
अन्यानपि गुणान्‍ सर्वान्‍ कथयामि गजस्य  च ।
यै: षष्टिवर्पपर्यन्तं विद्या सघार्यते ध्रुवम्‍  ॥१२॥
उद्यमैश्चैव व्यायामैरग्रिराहार एव च ।
आरोग्यवान्‍  धर्मवांश्च श्रमवानर्थवानपि  ॥१३॥
सहायवान्‍  बुध्दिमांश्च बलबान्‍ प्राणवानिति ।
गजस्तु धारणैरेतै: पष्टिवर्पाणि दुर्जय: ॥१४॥
शृणु सोमेश्वरात्रैव एकाग्रहृदयोऽधुना ।
गजस्तु धारायेद्यास्तु गुणास्तान्‍ कथयाम्यहम्‍ ॥१५॥
वपुपा घातवा (घातुत:) श्चैवा बलवान्‍ प्राणवांस्तथा ।
स्नेहसारस्तथा शूर एते शारीरका गुणा: ॥१६॥
एतैर्गुणै: सदा मल्लो गजश्चैवोपलक्ष्यते ।
सिंहोऽपि सहजैस्तव्ददेतैर्व्दादशभिर्गुणै: ॥१७॥
उरसा चातिविस्तीर्ण: कटिविस्तारवांस्तथा ।
मध्ये क्षामोदर: स्कन्ध: (न्धे) प्रकोष्ठे स्थूल एव च ॥१८॥
तेजोवान्‍ स्फुर्तिमाश्चैव लघुवेगश्च सर्वदा ।
वपुपो विस्तरश्चैव तथैवोत्पतने गति: ॥१९॥
शीघ्रप्राण: शौर्यवाश्च सिंहस्य कथिता गुणा: ।
घृपोऽपि जायते यैस्तु गुणास्तान्कथयाम्यहम्‍ ॥२०॥
सुशरीर: सुप्रमाण: पृथुल: कठिनोऽपि च ।
पादारोपी भारसहो युध्दशूरो जितश्रम: ॥२१॥
अष्टौ गुणा भवन्त्येते ज्ञातव्याश्च स्वभावजा:  ।
अथेदानी मृगस्यापि गुणान्‍ वक्ष्यामि तत्त्वत: ॥२२॥
बली बशी भीरुकश्च सूक्ष्मपादकरो ऽपि च ।
मुतनुश्च सुवेगश्च तथैव व्यवसायवान्‍ ।
अल्‍ पश्रमश्च सप्तैते मृगस्य सहजा गुणा: ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-30T18:28:26.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ऐतखाऊ, लांडग्याचा भाऊ

  • आयते खाण्यास सवक लेला व अधाशी मनुष्य. ज्या मनुष्यास श्रम केल्याशिवाय खावयाची सवय असते तो जेथे मिळेल तेथे हात मारून घेतो 
  • कारण पुन्हां केव्हा मिळेल त्याचा नेम नसतो. त्याकरितां संधि येईल तेव्हां तो अधाशासारखे भरून घेतो. 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.