TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - पप्ठोऽध्याय:

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


पप्ठोऽध्याय:
श्रीकृष्ण उवाच ।
भबन्ति सर्वसामान्या: सप्तत्रिंशदिमे गुणा: ।
घातापातस्तथालात: स्थानकं  लाग एव च ॥१॥
भार: श्रम श्रुतिश्चैव बहु इष्टासेनं तथा ।
धारणं रोधनं चैव तथा निर्जनतर्जनम्‍ ॥२॥
ताकणं सोष्टवर्ण ( च) पालनं व्यवसायिकम्‍ ।
प्राणश्चैव तथा शौर्य कचिदुत्थापनं भवेत्‍ ॥३॥
कचित्‍ प्रविइ (वे) शनं प्रौढि: पटुश्च सहजं कचित्‍ ।
धारणोऽप्यधिका शक्तिस्तथा निस्सरणेऽपि च ॥४॥
ताकणे  रक्षणे कोऽपि शक्ति (क्त) श्चालनकेऽपि च ।
फरकणे शक्त: कोऽपि स्याद्‍ पटु: कोऽपि वर्जने ॥५॥
रुन्धने चोत्कट: कोऽपि लागेपि भतिमानपि ।
गोपणे (ने)  निपुण: कोऽपिइ युध्देपि निपुणो भवेत्‍ ॥६॥
कक्षालम: पर: कोऽपि दण्डिकालभ एव च ।
वहणे लग्र: कोऽपि स्यादोजोलग्रस्तथैव च ॥७॥
चोडिलाग्रो भवेत्कश्चित्‍ सप्तत्रिंशदिमे गुणा:  ।
कथिता लौकिकै:  शब्दैस्तथाक्ता मल्लभाषया ॥८॥
पश्चसारो भवेत्कश्चिज्जानुसारस्तथा पर: ।
इत्यडंसारतां ज्ञात्त्वा तत्र कर्माणि कारायेत्‍ ॥९॥
एतैर्युक्तास्तु ये मल्लास्तानहं कथयामि ते  ।
उर: सार: स्कन्धसारो भुजसारस्तथैव च ॥१०॥
कटिसारो भवेत्‍ काश्चिज् जानुसारस्तथा पर: ।
पश्च स्थानानि मल्लाना शस्यन्ते युध्दकर्मणि ॥११॥
पुनश्च  कथायिप्यामि यथोपायं यथागुणम्‍ ।
स्कान्धस्थान भुजस्थानं उरस्थानं तथैव च ॥१२॥
कटिस्थानं तथैवान्यत्‍  जानुस्थानमत: परम्‍ ।
पश्च स्थानानि विज्ञाय स्वशरीरे यथार्थिन: (र्थत: ) ।
तने (नौ) तेनानुसारेण मल्ल : कर्म समाचरेत्‍ ॥१३॥
इत्यडबिभाग: ।
अथात्र कथ्यते तावद्‍ रडंभूमेस्तु लक्षणम्‍ ।
जातिवर्णाप्रमाणादि बहुमेदसमन्वितम्‍ ॥१४॥
नित्याभ्यासहिता भूमी रडंभूमि: प्रकीर्तिता ।
सैवाखा (पा) ढकनाभी च प्रसिध्दा परमा भता ॥१५॥
तस्यास्तु लक्षणं वक्ष्ये जातिवर्णप्रभेदत:  ।
सुलक्षणजयम्थानं हानिम्थानमलक्षणा(णम्‍) ॥१६॥
निभ्रोन्नतसमत्येन त्रिविधा भूमिका भवेत्‍ ।
निभ्रोन्नता परित्यज्य तत्राडीक्रियते सदा ॥१७॥
आग्वा (पा) ढकप्रमाणं तु त्रिविधं परिकीर्तितम्‍ ।
देवमानं  दैत्यमानं मर्त्यमानं तथैव च ॥१८॥
एकोत्तरं हस्तशतं देवमानं प्रकीर्तितम्‍ ।
दैत्यानामेव पश्चाशत्‍ मर्त्यानामेकविंशति: ॥१९॥
चतुरस्रं त्रिकोणं च वर्तुलं च तथैव च ।
ब्राह्मणी शुकवर्णा च पीता क्षत्रियभूमिका ॥२०॥
श्यामवर्णा तथा शूद्री बहुवर्णा तथाधमा ।
उत्तमाधममध्यास्तु भूमयो बहुभेदत: ॥२१॥
कर्करैर्लाञ्छिता भूमिर्लोहकाष्ठविदूपिता ।
पाषाणै: कण्टकैर्वापि कुट्टेनापि पटेन च ।
वर्ज्जनीया प्रयत्नेन दु खदा सर्वदा नृणाम्‍ ॥२२॥
इति भूमिशुध्दि: ।
प्रथमं प्रातरुत्थाय मल्लै: कर्तव्यमादरात्‍ ।
मलमूत्रविशुध्दिं च (ध्दिश्च) दन्तधावनमेव च ॥२३॥
गण्डुपैर्मुखशुध्दिश्च मुखप्रक्षालनं तथा ।
संध्यादिकं च निर्वृत्या  रडं गच्छेत्‍ समाहित: ॥२४॥
गत्वा च प्रथमं ज्येष्ठी प्राणायामं च कारयेत्‍ ।
भूमिवन्दपूर्व च कारयेच्‍ च तत: श्रमम्‍ ॥२५॥
बालवृध्दान्धबधिरछिन्नाडंक्रोधिरोगिण ।
पिशुनानृपापण्डान्‍ मत्तप्रलपिनस्तथा ॥२६॥
धूर्तार्तकुष्टिकितवचौरचण्डालमायिकान्‍ ।
वर्जयित्वा तथैवान्धान्‍ श्रमकाले तथा स्त्रिय: ॥२७॥
उच्चै: प्रहसनं कासप्ठीवनं क्षुतमेव च ।
विवादं रुदितं चैव दूराध्वानं तथैव च ।
वर्जनीयं प्रयत्नेन मल्लेन जयभिच्छता ॥२८॥
पश्च प्रदक्षिणं कृत्वा प्रणम्य विधिपूर्वकम्‍ ।
वेदिकामुपविश्याथ कर्तव्यं जटबन्धनम्‍ ॥२९॥
तथैव प्रदक्षिणं कृत्वा प्रणम्य विधिपूर्वकम्‍ ।
विविधं जटबन्धं च संक्षेपं च क्रियापरम्‍ ॥३०॥
शय्यासनोपानहादि त्यजेत्‍ चैवासनादिकम्‍ ।
शिर: प्रच्छादनं चैव रडभूमौ विवर्जयेत्‍ ॥३१॥
आचस्य च  शुचिर्भुत्वा ततो रडं समाविशेत्‍ ।
साधयेदेव मन्त्रेण स्थापयेच्‍ च सुदर्शनम्‍ ॥३२॥
सर्वकामप्रद: कृष्ण: स च तत्र प्रतिष्ठताम्‍ ।
आखा (पा) ढक नमामि त्वां देहि मम जयश्रियम्‍ ॥३३॥
उद्दामदर्पदेत्येन्द्रवधूवेधव्यदायिने ।
सुदर्शन नमस्तुभ्यं जयदे (द) समरप्रियम्‍  (य) ॥३४॥
वामे पार्श्वे हरिर्यस्य दक्षिणे शशिशेखर: ।
नाभौ  पद्मभवो ब्रह्मा सदा हस्तेषु मातर: ॥३५॥
कृष्णमूर्तिरियं ध्यात्वा तथा चावरणं  शुभम्‍ ।
आयुरारोग्यवीरश्रीविजयोत्साहबलप्रदम्‍ ।
श्रीनिधेऽस्तु नमस्तुभ्यं दुरितं मे प्रणाशय ॥३६॥
इति आवरणकमन्त्र: ।
हलधरो रत्नभूपितपत्रग ।
वासुकेऽस्तु नमस्तुभ्यं जयं लक्ष्मी च देहि मे ॥३७॥
वासुकेर्वरमूर्ति च्च ध्यात्वाचम्य विधानत: ।
गृहीत्वा स्वशिक्खां वन्धेत्‍ सुदृढं ग्रन्थिभिस्त्रिभि: ।
इति कृत्वा मन्त्रविधिं कथितां भृगुणा पुरा ॥३८॥
प्रशस्त: कच्छबन्धश्च कच्छामन्त्रविधानत: ।
करास्स्फोटनं त्रिविधं समलीनोत्र्तं  वलात्‍ ॥३९॥
उन्नतस्वरसंलाप: सिंहस्य (च) प्रकीर्तितम्‍ ।
समं वृपस्य निर्दिष्टं स्वभावान्‍ मधुवरिणा ॥४०॥
फरास्फोटप्रमाणे तु कृत्वा रडसमीपत: ।
पद्मासनेनोपविणेदू गजो ज्येष्ठी कृतोत्सव: ॥४१॥
आन्तरज्येष्ठिना साध तथा गोमकुल:सह ।
बालवृध्दभबिप्यैश्च ततो वन्देत्‍  वसुन्धराम्‍ ॥४२॥
समुद्‍धृतासि हरिणा वसुधे बलादायके ।
देहस्य भूषण देहि पवित्रे शुभलक्षणे ॥४३॥
इत्युक्त्वा च प्रणभ्येनां गृहित्वा चैव मृत्तिकाम्‍ ।
तत: साध समायुक्ता: सर्वाड विनिलेपयेत्‍ ॥४४॥
मल्ला: पश्च भवन्त्येते गज:  सिंहो वृषो मृग: ।
भविप्य: पश्चमो ज्ञेय: पश्चैपामासनानि च ॥४५॥
विद्याभ्यासेन पश्चैते भवन्ति ज्येष्ठिन: क्रमात्‍  ।
आसनैरुपविशीन्त स्वै:  स्वै: सर्वेऽपि  सादय ॥४६॥
गजा: पद्मासानं कुर्यात्‍ सिंहोऽपि गरुडासनम्‍ ।
फणासनं मृग. कुर्यात्‍ वृपोऽपि कुकुट्टासनम्‍ ॥४७॥
भविप्योऽपि तथा कुर्यादासनं जघनोपारि ।
कारयेच्‍  च श्रमं पश्चात्‍ प्रकृर्त्यात्‍ स्वायमेव च ॥४८॥
मतिकारस्येदानी कथ्यन्ते बहवो गुणा: ।
मल्लान्‍ न विकारयति मतिकारस्तदुच्यते ॥४९॥
चत्वारिंशत्‍ सदैकेन गुणास्तस्य प्रकीर्तिता: ।
मानस: सर्वदा मल्लेर्धारणीया:  समीपत: ॥५०॥
विना तेन प्रणश्यन्त्ति गजा इव निरकुशा: ।
मतिकार. प्रयत्नेन रक्षणीयश्च सर्वदा ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-30T18:29:17.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तिरकी

  • स्त्री. ( कों . ) एक पै ; एकतृतीयांश पैसा . [ सं . त्रिक ] 
  • अक्रि एकाला तिहींनी गुणीत असतांना उपयोगांत येत असलेली संज्ञा . जसे :- एके तिरके तीन . [ सं . त्रिक ] 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site