TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - चतुर्दशोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


चतुर्दशोऽध्याय: ।
जयश्च सर्वमल्लानां युध्दे व्दादशधा भवेत्‍ ।
उद्यमे विजय: कोपि व्यायामे विजयस्तथा ॥१॥
अग्रिजयस्तथाहारपरिणामजयस्तथा ।
बलजय: प्राणजय: पराक्रमजयोपि च ॥२॥
तथा जयश्च क्रमणे लाघवेपि जयस्तथा ।
जयोपि सर्वसामान्य: ख्यात: सर्वजयोपि च ॥३॥
उद्यमो मानसो जातो व्यायागोप्युन्मदाद्भवेत्‍ ।
व्यायामादग्रिसंपत्तिरग्रिराहरसंभव: ॥४॥
आहारात्परिणामस्तु परिणामाहूलं तथा ।
बलादपि भवेत्प्राण: प्राणादपि पराक्रम ॥५॥
पराक्रमादर्थक्रग: क्रमाल्लाघाववानपि ।
लाघवाज्जायते त्राणं त्राणात्सर्वजयो भवेत्‍ ॥६॥
अतो मल्लै: प्रयत्नेन त्याज्या एव दश स्त्रिय: ।
व्दिजपत्नी परतती गुरुपत्नी च सर्वदा ॥७॥
राजपत्नी कुमारी च गोत्रिणी च व्रते स्थिता ।
अर्धशूरस्तथोर्ध्वं च प्राणशूरस्तथाधिक ॥८॥
अप्राणशूर एवान्या: शूरा: सर्वे भवन्त्यपि ।
तथावासिकशूरा यैवारो भग्रशूरक: ॥९॥
अभग्रशूरकोप्यन्य: श्रमशूरस्तथा पर: ।
तथा चाश्रमशूरोपि युध्दशूरपरोपि च ॥१०॥
अयुध्दशुर: कोपि स्यात्‍ शूरोपि सहजेन च ।
गर्भशूरा भवन्त्येते व्दात्रिशत्संख्यया स्फुटम्‍ ॥११॥
उत्तमा: कथिताश्चैवं कथयामि च मध्यमा: ।
पट्‍ त्रिंशन्मध्यमाश्च कथ्यन्ते क्रमशो गता: ॥१२॥
श्वेतशूरो भवेत्कश्चिद्‍ दृष्टिभीरुस्तथा पर: ।
सभाशूरोपि भवति कोपि दैवात्स्वभावत: ॥१३॥
अज्ञाने भीरुक: कश्चिद्भवेदपि यथा तथा ।
वाक्यशूरस्तथा हस्तमेलने भीरुरेव च ॥१४॥
अडंशूरक: कश्चिव्दाहो: स्फालनभीरुक: ।
स्थानशूरो भवेदन्यो आस्थाने भीरुरेव च ॥१५॥
अडभीरुस्तथा कोपि तथा शूरस्तथैव च ।
स्थानके शूर एव स्याद्भिरुर्विज्ञानकेपि च ॥१६॥
विज्ञानशूरो भीरुश्च कोप्यविज्ञानकर्मणि ।
प्राणशूरो रक्षागीरुश्चलेन भीरुरेव च ॥१७॥
अधश्चालनभीरुश्च ऊर्ध्वभीरुस्तथैव च ।
अधोभीरुस्त्राणशूरोप्यप्राणे भीरुकस्तथा ॥१८॥
अशीके शूर एव स्यादाशीके भीरुरेव च ।
अभग्रशूरकोपि स्याद्भग्रो भीरुस्तथैव च ॥१९॥
रोपणे च भीरु युध्दे युध्दे च भीरुरेव च ।
युध्दे भीरु: सदैव स्यादयुध्दे शूर एव च ॥२०॥
सहजे च तथा भीरु: सभाभीरुस्तथैव च ।
स्थानभीरुस्तथान्यश्च वाक्यभीरुस्थानपर: ॥२१॥
हस्तमेलापके भीरु रडंभीरुस्तथापर:।
अरडभीरुक : कश्चित्पतने कोपि भीरुक: ॥२२॥
स्थानके भीरुन्येपि कश्चाभीरुस्तथैव च ।
अर्धमीरुरधोभीरुर्ज्ञाने च भीर्रुकस्तथा ॥२३॥
बालत्वे भीरुक: कोपि लागभीरुस्तथापर: ।
अलेण भीरुकश्चान्यो भग्रभीरुस्तथापर: ॥२४॥
अभग्रभीरुक: कोपि तथैवार्शाकभीरुक: ।
प्राणे भीरु:  परप्राणे भीरुको युध्दभीरुक: ॥२५॥
अयुध्दभीरुक: कश्चिदविज्ञानिनि भीरुक: ।
सहने च गर्भभीरुरगर्मे भीरुरेव च ॥२६॥
अधमा: कथिताश्चैते चतुस्त्रिंशदिमे गुणा: ।
आहय सकलान्‍ मल्लन्‍ सर्व च पालिकादिने ॥२७॥
यस्य प्राणं च प्राणं च सामर्थ्यं च दृढं बलम्‍ ।
यस्यास्ति सदॄशं धैर्य यस्य स्यात्सदॄशं बलम्‍ ॥२८॥
यस्य प्राणं च संपूर्णं ज्ञायते न च शोधयेत्‍ ।
कृते मल्ले समर्थे च यस्य स्याद्भिमदर्शनम्‍ ॥२९॥
प्रातर्योधनमित्येवमुक्त्वा सर्वान्‍ विसर्जयेत्‍ ।
प्रभाते युध्दमस्तीति रात्रौ दिव्याश्च तत: ॥३०॥
कर्पूरादिसुगन्धैश्च पुप्पधूपादिमडलै: ।
नीराजनैश्च नैवेधैरर्ध्यदानै: प्रमाणभि: ॥३१॥
सन्तुष्ट: स्याद्यथा कृष्णो मल्लानां च जयप्रद: ।
राजा च प्रातरुत्थाय मल्लानुत्थापयेत्पुन: ॥३२॥
तथा चन्दनकर्पूरकस्तूरी कुकुमादिकम्‍ ।
करेणुकं वाद्यानि बहून्युत्सवहेतवे ॥३३॥
राजा सर्वान्‍ समाहतु कर्माधिकृतपूरुषान्‍ ।
आज्ञापयेन्मॄत्तिकाया आनयनाय सत्वर: ॥३४॥
सामग्री कारयेत्पश्चाद्यथोक्तं विधिवत्तत: ।
मल्लयुधविधानाय रड:भूमिं तु विस्तराम्‍ ॥३५॥
प्रपूज्या सुदृशां चैव सुवर्तुलाममां नवाम्‍ ।
एकविंशतिहस्तैश्च विस्तीर्णां च प्रमाणत: ॥३६॥
हस्तेनोच्चामनीरुक्षामतिन्द्रा (म) निन्द्रिंताम्‍ ।
बीजपातक्षेत्रमिव कोमलां च मनोरमाम्‍ ॥३७॥
रक्षा सन्तापयेन्मल्लान्‍ शोपं च कुरुते परम्‍ ।
कण्टका: कर्कराश्चैव वर्जनीया: प्रयत्नत: ॥३८॥
छिद्राणि चैव रन्ध्राणि पूरयित्वा विशोधनै: ।
शोधयित्वा प्रपूज्या च बहुपुप्पाक्षतै: किल ॥३९॥
तत्र जयस्य प्राप्तर्थे हरिं संस्थापयेत्परम्‍ ।
बीजपूरकमप्यत्र रडमध्ये निवेशयेत्‍ ॥४०॥
एतल्लक्षणासंयुक्तं कारयेद्रडमुत्तमम्‍ ।
आयुरारोग्यदं सौख्यं श्रीकरं च यशस्करम्‍ ॥४१॥
सुखं ददाति परमं रडमेवंविधं परम्‍ ।
अथ संपूज्य गोविन्दं सभामाक्रम्य पुप्कलाम्‍ ॥४२॥
चतुरै: सहितो राजा पश्येद्युव्दं समाहित: ।
अथ व्यवस्थिते युध्दे सर्वसंपत्तिसंभवे ॥४३॥
मल्लाना परीक्षणाय श्रावयेत्प्रतिमन्दिरम्‍ ।
नियुध्दमद्य चास्तीति कर्तव्यं दधिमण्डलम्‍ ॥४४॥
ततो व च (वचन) संस्कारवस्तूनि प्रतिपादयेत्‍ ।
राजा भुक्त्वोत्तरं चैव विधिवत्कम्य तां सभाम्‍ ॥४५॥
आहूय तान्‍ जनेनैव मल्लान्‍ शीघ्रं समाहित: ।
महादेव्या देवकुमारी तथामात्यै: सकौतुकीम्‍ ॥४६॥
विलासिनीभि: सहितो रडं गच्छेत्समाहित: ।
स्थित्वा स्वस्थ: सभां कृत्वा मल्लानां ज्ञापयेत्परम्‍ ॥४७॥
योध्दव्या: सर्वमल्लास्तु व्दन्व्दशोथ यथाबलम्‍ ।
मल्लैस्तु सावधानैश्च कर्तव्यं युध्दमुत्तमम्‍ ॥४८॥
कराडुलिपु संवेश्य सूत्रग्रन्थितमायुधम्‍ ।
तेन सूत्रमयेनाथ जयमन्त्रकृतेन वा ॥४९॥
शत्रुभडे भवेन्मल्लो जयश्री: प्राप्यतेऽचिरात्‍ ।
तेन बाणप्रहारस्तु मल्लडेपु प्रजायए ॥५०॥
चरणेन प्रहारस्तु प्रहारो जानुमिस्तथा ।
कटिप्रहार उरसा पृष्ठेनाथ करेण च ॥५१॥
मुष्टिप्रहार इतर: शिरसा च ललाटअये (के)।
राजा च जयिनं मल्लं कुर्याच्छृडारसंयुतम्‍ ॥५२॥
गरारोहणकं कृत्वा वादित्रैश्चैव संयुतम्‍ ।
पुप्पवस्त्रसमायुक्तं कुकुमारक्तचन्दनै: ॥५३॥
अलंकृतं गजारुढं भ्रामयेत्प्रतिमन्दिरम्‍ ।
लोकानां कौतुकार्थाय जयशब्दैश्चवाचयेत्‍ ॥५४॥
पुर: प्रदक्षिणा कृत्वा प्रत्यागत्य सभा पुन ।
ततोवतीर्य मल्लो वै गजाद्रडं प्रविश्यति ॥५५॥
नारायणं नमस्कृत्य प्रणम्य च गुरुनपि ।
राजाग्रे च समागच्छेत्‍ करास्फोटानपूर्वकम्‍ ॥५६॥
प्रणम्य राजानमितो महादेवी प्रणम्य च ।
कृत्वारडं नमस्कृत्य पुप्पप्रकरसंयुगे ॥५७॥
सोमेश्वर समस्तानां कलाश्च कथयाम्यहम्‍ ।
आदौ करणकला ॥१॥ तर्ककला ॥२॥ विद्याकला ॥३॥ काव्यकला ॥४॥ धर्मकला ॥५॥ कामकला ॥६॥ या(का)चकला ॥७॥ पुराणकला ॥८॥ पाषाणकला ॥९॥ काप्ठकला ॥१०॥ चित्रविचित्रकला ॥११॥ स्त्रीकला ॥१२॥ गजकला ॥१३॥ वाजिकला ॥१४॥ ज्ञानकला ॥१५॥ लक्षणकला ॥१६॥ युध्दकला ॥१७॥ ताम्रचूडकला ॥१८॥ मेपकला ॥१९॥ पक्षिकला ॥२०॥ रणकला ॥२१॥ मण्डनकला ॥२२॥ वस्त्रकला ॥२३॥ नीतिकला ॥२४॥ सर्वशास्त्रकला ॥२५॥ लेखनकला ॥२६॥ गन्धकला ॥२७॥ ज्योति:शास्त्रकला ॥२८॥ वैद्यकला ॥२९॥ विषकला ॥३०॥ भूतकला ॥३१॥ मन्त्रकला ॥३२॥ तन्त्रकला ॥३३॥ नियुध्दकला ॥३४॥ इन्द्रकला ॥३५॥ वृक्षकला ॥३६॥ धातुकला ॥३७॥ व्यापारकला ॥३८॥ शिल्पकला ॥३९॥ भूमिकला ॥४०॥ कर्मकला ॥४१॥ स्वेदकला ॥४२॥ भुजकला ॥४३॥ वाद्यकला ॥४४॥ स्थैर्यकला ॥४५॥ शौर्यकला ॥४६॥ मणिकला ॥४७॥ परहि(चि)त्तरश्चानकला ॥४८॥
परचित्तज्ञानकला ॥४९॥ शत्रुकला ॥५०॥ रथकला ॥५१॥ आयुधकला ॥५२॥ मृगकला ॥५३॥ दानकला ॥५४॥ ग्रहणकला ॥५५॥ दूतकला ॥५६॥ नाटककला ॥५७॥ पलायनकला ॥५८॥ क्रिडाकला ॥५९॥ शयनकला ॥६०॥ आसनकला ॥६१॥ मानकला ॥६२॥ परीक्षाकला ॥६३॥ सैन्यकला ॥६४॥ इति चतु: पष्टिकला: ।
सूतकाधिकृतश्चैव अन्त: पुरनिवारणम्‍ ॥५८॥
यानीयरक्षका: स्कन्धधराश्चेटकवेदिन: ।
वणिका व्यवहरज्ञा ज्ञेया रत्नपरीक्षका: ॥५९॥
वेश्याश्चैव विलसिन्यो लेखका दूतकारका: ।
दासाश्चैव तु भृत्याश्च गजवैद्यास्तथापरे ॥६०॥
कौतूहलकरा: प्रोक्ता रसवाक्यविदस्तथा ।
इति युक्तिविदश्चैव गन्धयुक्तिविदस्तथा ॥६१॥
हास्यकारा: कथाकारा युध्देषु कुशलास्तथा ।
देशमायाविदश्चैव काव्यादिकुशलास्तथा ॥६२॥
अनेकमापाकुशला: कविताया तथैव च ।
क्रीडाया कुशलाश्चैव धूर्तकर्मविदस्तथा ॥६३॥
धातुवादविद: केचित्रौकाकर्मविदस्तथा ।
अग्निस्तम्भो जलस्तम्भो मन्त्रवादम्तथापर: ॥६४॥
नापिताश्च वन्दिनश्च सडेतज्ञास्तथैव च ।
विनोदकराश्च विज्ञेया: सभासंपत्तिहेतवे ॥६५॥
एतै: पात्रै राजसभा नियुध्दालोकनोन्मुखै: ।
शोभिता शुध्दधर्मज्ञै रत्नसंपत्तिमण्डितै: ॥६६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-31T18:19:07.5400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

postulate

  • न. आधारतत्त्व 
  • पु. आधारक 
  • theorem 
  • न. आधारतत्त्व 
More meanings
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site