संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा| स्थानकरणप्रयत्नप्रकरणम् व्यासशिक्षा व्यासशिक्षाप्रकरणसूची संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वारमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् व्यासशिक्षा - स्थानकरणप्रयत्नप्रकरणम् प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे. Tags : sanskritvyasव्याससंस्कृत स्थानकरणप्रयत्नप्रकरणम् Translation - भाषांतर वायौ चरत्युरस्यन्तर्मन्द उद्भवति ध्वनिः ॥३८९॥कण्ठे च मध्यमो ज्ञेयः शीर्षे तारः स्वशक्तितः ॥३९०॥उच्चार्यंते त्रिभिस्तैस्तु यावदध्ययनं क्रमात् ॥३९१॥नादः शासो हकारार्कौ कण्ठेऽल्पे विवृतेऽधिके ॥३९२॥अज्घोषा नादतो जाता हचतुर्था हकारजाः ॥३९३॥प्रथमाः श्वासतोऽन्येऽर्कादघोषाश्च ततो यमाः ॥३९४॥कण्ठो वक्त्रादिमध्यान्तं दन्तमूलान्तनासिकम् ॥३९५॥ताल्वोष्ठमुरः स्थानाति वर्णानां करणान्यधः ॥३९६॥उवर्णप्रकृतेरोष्ठौ दीर्घौ स्त औत्परस्य ॥३९७॥अव्यञ्जनस्वराणाञ्चादौ कण्ठ इतीरितः ॥३९८॥ओष्ठताल्ववर्णेवर्णे व्यस्तसंवृतमैत्यपि ॥३९९॥औति चोष्ठौ स्त ओत्यल्पाधिकावेत्योष्ठतालु च ॥४००॥कवर्गादिषु जिह्वादिमध्यान्तोष्ठेन चोपरि ॥४०१॥टवर्गे वक्त्रमध्ये जिह्वाग्रेणोपरि स्पृशेत् ॥४०२॥मध्यान्ताभ्याञ्च तालौ ये रेफे जिव्हाग्रमध्यतः ॥४०३॥लकारे दन्तमूलेषु जिव्हाग्रेणोपरि स्पृशेत् ॥४०४॥वे चोष्ठान्तेन दन्तेषु स्पर्शस्थाना य ऊष्मकाः ॥४०५॥हकारश्च विसर्गश्च कएठस्थानावितीरितौ ॥४०६॥प्रयत्नश्चोष्मणां व्यस्त इणोऽन्येषामचां भवेत् ॥४०७॥केवलानाञ्च सर्वेषामत्यल्पस्पृष्टता स्मृता ॥४०८॥स्पृष्टत्वं स्पर्शसंज्ञानां परेषां किञ्चिदुच्यते ॥४०९॥अतिस्पृष्टो द्वितीयेषु चतुर्थेषु च तत्सषः ॥४१०॥हकारं तत्र नासिक्यमुत्तमोत्तरमेव च ॥४११॥अन्तस्यापरमित्यत्र उरस्यञ्च विदुर्बुधाः ॥४१२॥विज्ञेया नित्यनासिक्या यमानुस्वारपञ्चमाः ॥४१३॥अजन्तस्था हकारश्च निमित्तेन तु कीर्तिताः ॥४१४॥इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे स्थानकरणप्रयत्नप्रकरणम् ॥२४॥ N/A References : N/A Last Updated : November 29, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP