संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा| स्वरसन्धिप्रकरणम् व्यासशिक्षा व्यासशिक्षाप्रकरणसूची संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वारमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् व्यासशिक्षा - स्वरसन्धिप्रकरणम् प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे. Tags : sanskritvyasव्याससंस्कृत स्वरसन्धिप्रकरणम् Translation - भाषांतर मध्यस्थ एकनीचोऽतिप्रयत्नो विक्रमो भवेत् ॥२९४॥उच्चसन्धिर्भवेदुच्चः स्वरितः स्वारनीचयोः ॥२९५॥नीचोर्ध्वाकारसम्मिश्र उच्च एङ् स्वरितो भवेत् ॥२९६॥अत्राभिनिहितश्चायमिति संज्ञायते बुधैः ॥२९७॥यवत्वे ह्युच्चयोर्यत्र इवर्णोकारयोरपि ॥२९८॥परतः स्वर्यते नीचः स्वरितः क्षैप्र उच्यते ॥२९९॥उच्चोत्वानीच उत्वे स्यात्प्रशिलष्टस्सन्धितो यमः ॥३००॥अखण्डे सयवो नित्यो नीचपूर्वः स्वयञ्च वा ॥३०१॥स्थितस्वारस्य चान्त्योऽणुर्नीचः स्यात्प्रवणोत्तरे ॥३०२॥स्वरद्वयस्य चैकस्मिन् कम्पसंज्ञास्ति दीर्घता ॥३०३॥क्षैप्रकम्पश्चतुर्धैवमादूदेदैद्भिरुच्यते ॥३०४॥प्रश्लिष्टो नित्य ऊदाद्भ्यामेङाभिनिहतस्स्मृतः ॥३०५॥उच्चोर्द्ध्वौ यददीव्यादि त्रिके न कञ्चनेति च ॥३०६॥उच्चकम्पौ स्थितेङ् रूपौ स्वाराः कम्पाश्च सांहिताः ॥३०७॥उच्चदुत्तरतो नीचः स्वरितं प्रतिपद्यते ॥३०८॥स्वारोऽयं प्रचयश्चैव नोदात्तस्वरितोत्तरे ॥३०९॥स्वारादुपरि नीचानां प्रचयः परिकीर्तितः ॥३१०॥यस्समानपदे स्वारस्तैरोव्यञ्जन उच्यते ॥३११॥पादवृत्तस्तयोर्व्यक्तावन्यः प्रातिहृतस्स्मृतः ॥३१२॥नित्योऽत्युच्चनीचः क्षैप्रस्तत्समो न्यूनतः परः ॥३१३॥दृढतरप्रयत्नस्स्यान्नित्ये क्षैप्रे च वा दृढः ॥३१४॥प्रश्लिष्टे चाभिनिहते मृदुता स्वल्पतान्यतः ॥३१५॥नादानुस्बारयोः पूर्वस्स्वारभागुच्चवत्स्थितः ॥३१६॥स्वर्येतेऽस्मात्परावेव नादानुस्वारकावपि ॥३१७॥भक्तिस्वारात्तदङ्गानज् धृतवदृपदे च रः ॥३१८॥आयपूर्वेऽथ चोच्चः स्याद्भक्तेर्नीचो डधू अधः ॥३१९॥स्वारश्चारएयके भक्तेरत्र शीर्षं स्रपूर्वके ॥३२०॥स्वर्यते चादितो ह्रस्वो दीर्घमध्यं तथैव च ॥३२१॥संयुतोर्द्ध्वे तु दीर्घश्चेदन्त्यस्वारो भवेत्तदा ॥३२२॥ऋकारोत्तररेफोर्द्ध्वेऽवसाने दीर्घ एव च ॥३२३॥यो जटामात्रविद्ब्रह्मसन्धिज्ञो विष्णुरुच्यते ॥३२४॥ईश्वरस्सर्वसन्धिज्ञ इत्येवर्षिभिरीरितः ॥३२५॥इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे स्वरसन्धिप्रकरणम् ॥१७॥ N/A References : N/A Last Updated : November 29, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP