संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - ऐक्यप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथैतद्विषयेष्वेकमेदोदितस्त्वसीति च ॥२७२॥
न गर्भश्च यमोनद्धो भद्रः पूर्वस्त्वसीति च ॥२७३॥
यवनहेष्वजूर्ध्वेषु ग्नजोर्ध्वोऽकार उच्चकः ॥२७४॥
मो वचस्स्थे दधानोऽधो अग्नेत्यकार ऐक्यतः ॥२७५॥
अभ्यावर्तिन्नभिद्रोहमधाय्यपि दधामि च ॥२७६॥
अदितिश्शर्माग्नेर्जिह्वामग्नयः पप्रयोऽ‍रथाः ॥२७७॥
अद्यान्वस्माकमरिष्टा अश्माश्वाश्रुतिरव्यथ ॥२७८॥
अस्मत्पाशानस्मिन् यज्ञे अङ्गिरश्वदथो अदः ॥२७९॥
अस्तास्मेधत्त चादुग्धा अर्चन्त्यत्रस्थचार्यमन् ॥२८०॥
अन्तरस्याममापूपमश्यामान्नाय चाकरम् ॥२८१॥
गाहमानो जायमानो मन्यमानस्स्रिधोऽग्नयः ॥२८२॥
तपसो भामितो धावः स्पतिभ्यो हेतयः पते ॥२८३॥
आयोऽ‍ध्वर्यो क्रतोऽधश्चेन्नान्य प्रग्रह पूर्वकः ॥२८४॥
ग्रन्थान्तरेऽप्यनार्षेऽयं स्वेच्छया वर्तते त्विति ॥२८५॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे ऐक्यप्रकरणम् ॥१५॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP