स्वरधर्मस्वरूपप्रकरणम्
वर्णानां कारणं वेद उदात्तादिस्वरास्ततः ॥२८६॥
तेषां तत्स्वरसन्धेश्च लक्षणं कथ्यतेऽधुना ॥२८७॥
उदात्तोच्चारणे तस्य देहदैर्घ्यं भवेद्यतः ॥२८८॥
उच्चारणेऽनुदात्तस्य देहस्य ह्रस्वता भवेत् ॥२८९॥
भवेत्तत्र समाहारः स्वरितश्चोच्चनीचयोः ॥२९०॥
प्रचयश्च बुधैः प्रोक्त उदात्तश्रुतिरित्यपि ॥२९१॥
स्वारश्शीर्षें मुखेऽप्युच्चप्रचयौ निहतो हृदि ॥२९२॥
नीचोच्चस्वारप्रचयाः क्रमाज्ज्ञेयाः प्रजापतौ ॥२९३॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे स्वरधर्मस्वरूपप्रकरणम् ॥१६॥
Translation - भाषांतर
N/A