संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - द्वित्वनिषेधप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथैतस्य प्रसक्तस्य प्रतिषेधस्तु कथ्यते ॥३५९॥
ईदैत्पूर्वो यकारश्च विसर्गो रेफ एव च ॥३६०॥
प्रथमोर्द्ध्वेऽच्परे चोष्मा वकारस्स्पर्श उत्तरे ॥३६१॥
ऊष्मस्पर्शपर्स्थे तु लकारश्च तथैव हि ॥३६२॥
वर्गीयानुत्तमोर्द्ध्वे हल् सवर्णोत्तर एव वा ॥३६३॥
यवहेषु परस्थेषु नकारश्चान्तगस्त्विति ॥३६४॥
नस्यान्तगस्य दीर्घात्तु यवहे हे च हल् परे ॥३६५॥
परैरेभिर्हि तस्यैव न स्यात्संयुतता तथा ॥३६६॥
स्वरायुक्तस्य वर्णस्य वाचकं नाम कथ्यते ॥३६७॥
वर्णक्रमोक्तिकाले तु नान्यसंज्ञां समुच्चरेत् ॥३६८॥
सर्ववर्णान्वदन्त्येवं ज्ञातौ द्वित्वागमौ न तु ॥३६९॥
ततोऽफलं, फलं प्रोक्तं द्वित्वाद्युच्चारणाद्बुधैः ॥३७०॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे द्वित्वनिषेधप्रकरणम् ॥२१॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP