संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग सव्विसावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग सव्विसावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग सव्विसावा Translation - भाषांतर श्रीराम उवाच ॥वृतेस्मिन्नेवमेतेषा कालादीनां महामुने । संसारनाम्नि कैवास्था मादृशानां वदत्विह ॥१॥विक्रीता इव तिष्ठाम एतैर्देवादिभिर्वयम् । मुने प्रपञ्चरचनैर्मुधा वनमृगा इव ॥२॥एषोनार्यसमाम्नायः कालः कवलनोन्मुखः । जगत्यविरतं लोकं पातयत्यापदर्णवे ॥३॥दहत्यन्तर्दुराशाभिर्देवो दारुणचेष्टया । लोकमुष्णप्रकाशाभिर्ज्वालाभिर्दहनो यथा ॥४॥धृतिं विधुरयत्येषा मर्यादा रूपवल्लभा । स्त्रीत्वात्स्वभावचपला नियतिर्नियतोन्मुखी ॥५॥ग्रमतेविरतं भूतजालं सर्प इवानिलम् । कृन्तातः कर्कशाचारो जरां नीत्वाजरं वपुः ॥६॥यमो निर्घृणराजेन्द्रो नार्तं नामानुकम्पते । सर्वभूतदयोदारो जनो दुर्लभतां गतः ॥७॥ सर्वा एव मुने फल्गुविभवा भूतजातयः । दुःखायैव दुरन्तस्य दारुणा भोगभूमयः ॥८॥आयुरत्यन्तचपलं मृत्युरेकान्तनिष्ठुरः । तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥९॥कलाकलङ्कितो लोको बन्धवो भवबन्धनम् । भोगा भवमहारोगास्तृष्णाश्च मृगतृष्णिकाः ॥१०॥शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् । प्रहरत्यात्मनैवात्मा मनसैव मनोरिपुः ॥११॥अहंकारःकलङ्काय बुद्धयः परिपेलवाः । क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥१२॥वाञ्छा विषयशालिन्यः सच्चमत्कृतयः क्षताः । नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥१३॥वत्स्ववस्तृतया ज्ञातं दत्तं चित्तमहंकृतौ । अभाववेधिता भावा भावान्तो नाधिगम्यते ॥१४॥तप्यते केवलं साधो मतिराकुलितान्तरा । रागरोगो विलसति विरागो नोपगच्छति ॥१५॥रजोगुणहता दृष्टिस्तमः संपरिवर्धते । न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥१६॥स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी । धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि ॥१७॥मतिर्मान्द्येन मलिना पातैकपरमं वपुः । ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् ॥१८॥यत्नेन याति युवता दूरे सज्जनसंगतिः । गतिर्न विद्यते काचित्क्कचिन्नोदेति सत्यता ॥१९॥मनो विमुह्यतीवान्तर्मुदिता दूरतां गता । नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥२०॥धीरताधीरतामेति पातोत्पातपरोजनः । सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः ॥२१॥आगमापायिनो भावा भावना भवबन्धिनी । नीयते केवलं क्कापि नित्यं भूतपरंपरा ॥२२॥दिशोपि हि न दृश्यन्ते देशोप्यन्यापदेशभाक् । शैला अपि विशीर्यन्ते कैवास्था मादृशे जने ॥२३॥अद्यते सत्तयापि द्यौर्भुवनं चापि भुज्यते । धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥२४॥शुषन्त्यापि समुद्राश्च शीर्यन्ते तारका अपि । सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने ॥२५॥दानवा अपि दीर्यन्ते ध्रुवोप्यध्रुवजीवितः । अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥२६॥शक्रोप्याक्रमते वक्त्रैर्यमोपि हि नियम्यते । वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने ॥२७॥सोमोपि व्योमतां याति मार्तण्डोप्येति खण्डताम् । मग्नतामग्निरप्येति कैवास्था मादृशे जने ॥२८॥परमेष्ठ्यपि निष्ठावान्ह्रियते हरिरप्यजः । भवोप्यभावमायाति कैवास्था मादृशे जने ॥२९॥ कालः संकाल्यते येन नियतिश्चापि नीयते । स्वमप्यालीयतेनन्तं कैवास्था मादृशे जने ॥३०॥अश्राव्यावाच्य दुर्दर्शत्त्वेनाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना ॥३१॥अहंकारकलामेत्य सर्वत्रान्तरवासिना । न सोस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते ॥३२॥शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः । वनपाषाणवन्नित्यमवशः परिचोद्यते ॥३३॥धरागोलकमन्तस्थसुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्काक्षोटमिव त्वचा ॥३४॥दिवि देवा भुवि नराः पातालेषु च भोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥३५॥कामश्च जगदीशानरणलब्धपराक्रमः । अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥३६॥वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः । आमोदितककुप्चक्रश्चेतो नयति चामलम् ॥३७॥अनुरक्ताङ्गनालोललोचनालोकिताकृति । स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि ॥३८॥परोपकारकारिण्य़ा परार्तिपरितप्तया । बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया ॥३९॥ उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ ॥४०॥सर्व एव नरा मोहाहुराशापाशपाशिनः । दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले ॥४१॥संक्षीयते जगति जन्मपरंपरासु लोकस्य तैरिह कुकर्मभिरायुरेतत् । आकाशपादपलाकृतपाशकल्पं येषां फलं न हि विचारविदोपि विद्मः ॥४२॥ अद्योत्सर्वोयमृतुरेषतथेह यात्रा ते बान्धवःसुखमिदं सविशेषभोगम् । इत्थं मुधैव कलयन्सुविकल्पजालमालोलपेलवमतिर्गलतीह लोकः ॥४३॥[ ९३२ ] इत्यार्षे० दैवदुर्विलासवर्णनं नाम षङ्विंशः सर्गः ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP