मुमुक्षुवैराग्यप्रकरणम् - सर्ग सतरावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
हार्दान्धकारशर्वयां तृष्णयेह दुरन्तया । स्फुरन्ति चेतनाकाशे दोषाः कौशिकपङ्क्तयः ॥१॥
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतोस्मि चिन्तया ॥२॥
मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी जाता भृशमाशा पिशाचिका ॥३॥
वचोरचितनीहारा काञ्चनोपवनोज्ज्वला । नूनं विकासमायाति चिन्ता चणकमञ्जरी ॥४॥
अलमन्तर्भ्रमायैव तृष्णा तरलिताशया । आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥५॥
उद्दामकल्लोलरवा देहाद्रौ वहतीव मे । तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी ॥६॥
वेगं संरोद्धुमुदितो वात्यवेव जरत्तृणम् । नीतः कलुषया क्कापि तृष्णया चित्तचातकः ॥७॥
यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् । तां तां कृन्तति मे तृष्णां तन्त्रीमिव कुमूषिका ॥८॥
पयसीव जरत्पर्णं वायाविव जरत्तृणम् । नभमीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥९॥
गन्तुमास्पदमात्मीयमसमर्था धियो वयम् । चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥१०॥
तृष्णाभिधानया तात दग्धोस्मि ज्वालया तथा । यथा दाहोपशमनमाशङ्के नामृतैरपि ॥११॥
दूरं दूरमितो गत्वा समेत्य च पुनः पुनः । भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥१२॥
जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥१३॥
अन्तर्गथितया देहे सर्वदुच्छेदयानया । रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥१४॥
पुत्रमित्रकुलत्रादि तृष्णया नित्यकृष्टया । खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥१५॥
भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् । खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥१६॥
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी । दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥१७॥
भिन्दती हृदयं पुंसां मायामयविधायिनी । दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥१८॥
तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् । नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥१९॥
नित्यमेवातिमलिना कटुकोन्माददायिनी । दीर्घतन्त्री घनस्नेहा तृष्णा गह्वरवल्लरी ॥२०॥
अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता । अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥२१॥
अनावर्जितचित्तापि सर्वमेवानुधावति । न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी ॥२२॥
संसारवृन्दे महति नानारससमाकुले । भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकीं ॥२३॥
जराकुसुमिता रूढा पातोत्पातफलावलिः । संसारजङ्गले दीर्घे तृष्णा विषलता तता ॥२४॥
यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् । नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥२५॥
भृशंस्फुरति नीहारेशाम्यत्यालोक आगते । दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी ॥२६॥
जडलल्लोलबहुला चिरं शून्यान्तरान्तरा । क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥२७॥
नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् । पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥२८॥
पदं करोत्यलङ्घ्येपि तृप्तापि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥२९॥
इदं कृत्वेदमायाति सर्वमवासमञ्जसम् । अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥३०॥
क्षणमायाति पातालं क्षणं याति नभस्तलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥३१॥
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥३२॥
प्रयच्छति परं जाड्यं परमालोकरोधिनी । मोहनीहारगहना तृष्णा जलदमालिका ॥३३॥
सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् । परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥३४॥
विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः । शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥३५॥
अशनिर्गुणसस्यानां फलिता शरदापदाम् । हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥३६॥
संसारनाटकनटी कार्यालयविहङ्गमी । मानसारण्यहरिणी स्मरसंगीतवल्लकी ॥३७॥
व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला । सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका ॥३८॥
जरामरणदुःखानामेका रत्नसमुद्रिका । आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥३९॥
क्षणमालोकविमला सांधकारलवा क्षणम् । व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥४०॥
गच्छत्युपशमं तृष्णा कायव्यायामशान्तये । तमी घनतमःकृष्णा यथxxरक्षोनिवृत्तये ॥४१॥
तावन्मुह्यत्ययं मूको लोको विलुलिताशयः । यावदेवानुसंधत्ते तृष्णा विषविषूचिका ॥४२॥
लोकोयमखिलं दुःखं चिन्तयोज्झितयोज्झति । तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ॥४३॥
तृणपाषाणकाष्ठादि सर्वमामिषशङ्कया । आददाना स्फुर त्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥४४॥
रोगार्तिरङ्गना तृष्णा गम्भीरमपि मानवम् । उत्तानतां नयत्याशु सूर्यांशव इवाम्बुजम् ॥४५॥
अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः । मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥४६॥
अहो बत महच्चित्रं तृष्णामपि महाधियः । दुश्लेदामपि कृन्तन्ति विवेकेनामलासिना ॥४७॥
नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥४८॥
उज्ज्वलासिततीक्ष्णाग्रा स्नेहदीर्घदशापरा । प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥४९॥
अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्णैका निमिषेण नरोत्तमम् ॥५०॥
संस्तीर्णगहना भीमा घनजालरजोमयी । सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥५१॥
एकैव सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्ष्यतामुपगतैव वपुःस्थितैव । तृष्णा स्थिता जगति चञ्चलवीचिमाले क्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥५२॥
[ ५९२ ] इत्यार्षे श्रीवासिष्ठां महारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहरुयां संहितायां मुमुक्षुवैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP