मुमुक्षुवैराग्यप्रकरणम् - सर्ग सहावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ।
इत्युक्ते मुनिनाथेन संदेहवति पार्थिवे । खेदवत्यास्थिते मौनं किंचित्कालप्रतीक्षणे ॥१॥
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥२॥
एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः । महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥३॥
तस्य यज्ञोथ रक्षोभिस्तथा विलुलुपे किल । मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥४॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् । न हि शक्रोत्यविघ्नेन समाप्तुं स मुनिः ऋतुम् ॥५॥
ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः । विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥६॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात माम प्राप्तं कौशिकं गाधिनः सुतम् ॥७॥
तस्य तद्वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः । संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥८॥
ते गत्वा राजसदनं विश्वामित्रमृषिं ततः । प्राप्तमावेदयामासुः प्रतीहाराःपेतस्तदा ॥९॥
अथास्थानगतं भूपं राजमण्डलमालिनम् । समुपेत्य त्वरायुक्तो याष्टीकोसौ व्यजिज्ञपत् ॥१०॥
देवद्वारि महातेजा बालभास्करभासुरः । ज्वालारुणजटाजूटः पुमाञ्श्रीमानवस्थितः ॥११॥
स भासुरपताकान्तं साश्वेभपुरुषायुधम् । कृतवां स्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥१२॥
वीक्ष्यमाणे तु याष्टीइके निवेदयति राजनि । विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥१३॥
इति याष्टीकवचनमाकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टगत् ॥१४॥
पदातिरेव सहसा राज्ञां वृन्देन मालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥१५॥
जगाम यत्र तत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाववथितम् ॥१६॥
केनापि कारणेनोर्वीतलमर्कमुपागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥१७॥
जराजरटया नित्यं तपःप्रसररूक्षया । जटावल्यावृतस्कन्धं ससंध्याभ्रमिवाचलम् ॥१८॥
उपशान्तं च कान्तं च दीप्तमप्रतिभाति च । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥१९॥
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भेरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥२०॥
अनन्तजीवितदशासखीमेकामनिन्दिताम् । धारयन्तं कर श्लक्ष्णां कृण्डीमम्लानमान सम् ॥२१॥
करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः । वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥२२॥
युक्तयज्ञोपवीताङ्गंधवलप्रोन्नत भ्रुवम् । अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥२३॥
मुनिमालोक्य भूपालो दूरादेवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम् ॥२४॥
मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् । तत्राभिवादयांचक्रे मधुरोदारया गिरा ॥२५॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥२६॥
दशरथ उवाच ॥
अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥२७॥
यदनादि यदक्षुण्णं यदपायविवर्जितम् । तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥२८॥
अद्य वर्तामहे नूनं धन्यानां धुरि घर्मतः । भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥२९॥
एवं प्रकथयन्तोत्र राजानोथ महर्षयः । आसनेषु समास्थानमासाद्य समुपाविशन् ॥३०॥
स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् । प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥३१॥
सराज्ञः प्रतिराज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा । कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥३३॥
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥३४॥
क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने ॥३५॥
यथोचितामनगता मिथः संवृद्धतेजसः । परस्परेण पप्रच्छुः सर्वेनामयमादरात् ॥३६॥
उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यमर्घ्यं च गां चैव भूयो भूयो न्यवेदयत् ॥३७॥
अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत । प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥३८॥
यथा मृतस्य संप्राप्तिर्यथावर्षमवर्षके । यथान्य स्येक्षणप्राप्तिर्भवदागमनं तथा ॥३९॥
यथेष्टदारसंपर्कात्पुत्रतन्माप्रजावतः । स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥४०॥
यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥४१॥
यथा हर्षो नभोगत्या मृतस्य पुनरागमात् । तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥४२॥
ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने, तवागमःस्तद्वत्सत्यमेव ब्रवीमि ते ॥४३॥
कश्चते परमः कामः किंच ते करवाण्यहम् । पात्रभूतोसि मे विप्र प्राप्तः परमधार्मिकः ॥४४॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः । ब्रह्मर्षित्वमनुप्राप्तः पूज्योसि भगवन्मया ॥४५॥
गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम । तथा त्वद्दर्शनात्प्रीतिरन्तःशीतयतीव माम् ॥४६॥
विगतेच्छामयक्रोधो वीतरागो निरामयः । इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः ॥४७॥
शुभक्षेत्रगतं चाहमात्मानमपकल्पषम् । चन्द्रबिम्ब इवोन्मग्नं वेद वेद्यविदां वर ॥४८॥
साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् । पूतोस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥४९॥
त्वदागमनपुण्येन साधो यदनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥५०॥
त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । आत्मन्येव न मान्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥५१॥
यकार्यं येन वार्थेन प्राप्तोसि मुनिपुङ्गव । कृतमित्येव तद्विद्धि मान्योसीति सदा मम ॥५२॥
स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक । भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥५३॥
कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः । कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥५४॥
इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमात्मविदा विनीतमुक्तम् । प्रथितगुणयशा गौणैर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥५५॥
[ २२१ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे कार्श्यनिवेदनं नाम षष्ठः सर्वः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP