मुमुक्षुवैराग्यप्रकरणम् - सर्ग चोविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
अस्योड्डामरलीलस्य दूरास्तसकलापदः । संसारे राजपुत्रस्य कालस्याकलितौजसः ॥१॥
अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः । आखेटकं जर्जरिते जगज्जङ्गलजालके ॥२॥
एकदेशोल्लसच्चरुवडवानलपङ्कजा । क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥३॥
कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः । तैरेव तैः पर्युषितैर्जगद्भिः कल्यवर्तनम् ॥४॥
चण्डीचतुरसंचारा सर्वमातृगणान्विता । संचारवनविन्यस्ता व्याघ्री भूतौघघातिनी ॥५॥
पृथ्वीकरतले पृथ्वी पानपात्री रसान्विता । कमलोत्पलकल्हारलोलजालकमालिता ॥६॥
विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे । सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ॥७॥
अलाबुवीणामधुरः शरद्व्योमलसच्छविः । देवः किल महाकालो लीलाकोलिकबालकः ॥८॥
अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः । अभावनामा कोदण्डः परिस्फुरति सर्वतः ॥९॥
अनुत्तमस्त्वधिकविलासपण्डितो भ्रमच्चलन्परिविलसन्विदारयन् । जरज्जगज्जनितविलोलमर्कटः परिस्फुरद्वपुरिह काल ईहते ॥१०॥
[ ८५७ ] इत्यार्षे० कालविलासो नाम चतुर्विंशतितमः सर्गः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP