संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग पहिला मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग पहिला ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग पहिला Translation - भाषांतर श्रीगणेशाय नमः ॥ यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च । यत्रै वोपशमं यान्ति तस्मै सत्यात्मने नमः ॥१॥ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः । कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥२॥स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेवनौ । सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥३॥ सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः । अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥४॥ सुतीक्ष्ण उवाच ॥भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित । संशयोस्ति महानेकस्त्वमेतं कृपया वद ॥५॥ मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् । उभयं वा विनिश्चित्य एकं कथय कारणम् ॥६॥अगस्तिरुवाच ॥उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥७॥ केवलात्कर्मणो ज्ञानान्न हि मोक्षोभिजायते । किं तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥८॥ अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते । कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोधीतवेदकः ॥९॥ अग्निवेश्यस्य पुत्रोभुद्वेदवेदाङ्गपारगः । गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥१०॥ तस्थावक्रमेकृत्तूष्णीं संशयानो गृहे तदा । अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥११॥ प्राह एतद्वचोनिन्द्यं गुरुः पुत्रं हिताय च । अग्निवेश उवाच ॥ किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥१२॥अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद । कर्मणोस्मान्निवृत्तेः किं कारण तन्निवेद्यताम् ॥१३॥कारुण्य उवाच ॥यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत् । प्रवृत्तिरूपो धर्मोयं श्रुत्या स्मृत्या च चोदितः ॥१४॥न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा । त्यागमात्रेण किंत्वेके यतयोश्नन्ति चामृतम् ॥१५॥इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो । इति संदिग्धतां गत्वा तूष्णीं भूतोस्मि कर्मणि ॥१६॥अगस्तिरुवाच ॥इत्युक्त्वा तात विप्रोसौ कारुण्यो गृहमागतः । तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥१७॥ अग्निवेश्य उवाच ॥शृणु पुत्र कथामेका तदर्थं हृदयेखिलम् । मत्तोवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥१८॥सुरुचिर्नाम काचित्स्त्री अप्सरोगण उत्तमा । उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥१९॥रमन्ते कामसंतप्ताः किन्नर्योयत्र किंनरैः । स्वर्धुन्योघेन संसृष्टे महागहुघविनाशिना ॥२०॥ दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा । तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥२१॥सुरुचिरुवाच ॥देवदूत महाभाग कुत आगम्यते त्वया । अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥२२॥देवदूत उवाच ॥साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते । अरिष्टनेमी राजर्षिर्दत्वा राज्यं सुताय वै ॥२३॥ वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् । तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥२४॥कार्यं कृत्वा मया तत्र तत आगम्यतेधुना । गन्तास्मि पार्श्वे शक्रस्य तं वृत्तात्तं निवेदितुम् ॥२५॥अप्सरा उवाच ॥वृत्तान्तः कोभवत्तत्र कथयस्व मम प्रभो । प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥२६॥देवदूत उवाच ॥शृणु भद्रे यथावृत्तं विस्तरेण वदामिते । तस्मिन्नाज्ञि वने तत्र तपश्चरति दुस्तरम् ॥२७॥ इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा । दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥२८॥अप्सरोगणसंयुक्तं नानावादित्रशोभितम् । गन्धर्वसिद्धयक्षैश्च किंनराद्यैश्च शोभितम् ॥२९॥तालवेणुमृदङ्गादि पर्वते गन्धमादने । नानावृक्षसमाकीर्णे गत्वा तस्मिग्निरौ शुभे ॥३०॥अरिष्टनेमिं राजानं दूतारोप्य विमानके । आनय स्वर्गभोगाय नगरीममराबतीम् ॥३१॥ दूत उवाच ॥इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्बिमानकम् । सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥३२॥आगत्य पर्वते तस्मिन्नाज्ञो गत्वाश्रमं मया । निवेदिता महेन्द्रस्य सर्वाज्ञारिष्टनेमये ॥३३॥ इति मद्वचनं श्रुत्वा संशयानोवदच्छुभे । राजोवाच ॥ प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥३४॥गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः । ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येहं यथारुचि ॥३५॥ दूत उवाच ॥स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् । उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥३६॥मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा । कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥३७॥परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः । कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥३८॥क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः । इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥३९॥इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत । राजोवाच ॥नेच्छामि दूवदूताहं स्वर्गमीदृग्विधं फलम् ॥४०॥अतः परं महोग्रं तु तपः कृत्वा कलेवरम् । त्यक्ष्याम्यहम शुद्धं हि जीर्णां त्वचमिवोरगः ॥४१॥देवदूत विमानेदं गृहीत्वा त्वं यथागतः । तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोस्तु ते ॥४२॥देवदूत उवाच ॥इत्युक्तोहं गतो भद्रे शक्रस्याग्रे निवेदितुम् । यथावृत्तं निवेद्यार्थ महदाश्चर्यतां गतः ॥४३॥पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा । इन्द्र उवाच ॥दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥४४॥वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विगगिणम् । संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥४५॥महर्षे त्वं विनीताय राज्ञेस्मै वीतरागिणे । न स्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥४६॥ तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् । इत्युक्त्वा देवराजेन प्रेषितोहं तदन्तिके ॥४७॥मयागत्य पुनस्तत्र राजा वल्मीकजन्मने । निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥४८॥ततो गल्मीकजन्मासौ राजानं समपृच्छत । अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥४९॥राजोवाच ॥भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेयविदांवर । कृतार्थोहं भवदृष्ट्या तदेव कुशलं मम ॥५०॥भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद । संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥५१॥वाल्मीकिरुवाच ॥शृणु राजन्प्रवक्ष्यामिरा रामायणमखण्डितम् । श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥५२॥वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम् । ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥५३॥राजोवाच ॥को रामः कीदृशः कस्य बद्धोवा मुक्त एव वा । एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥५४॥वाल्मीकिरुवाच ॥ शापव्याजवशादेव राजवेषधरो हरिः । आहृताज्ञानसंपन्नः किंचिज्ज्ञोसौ भवत्प्रभुः ॥५५॥राजोवाच ॥चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे । शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥५६॥वाल्मीकिरुवाच ॥ सनत्कुमारो निष्काम अवदद्व्रह्मसद्मनि । वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिःप्रभुः ॥५७॥ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः । विनाकुमारं तं दृष्ट्वा प्रभुरीश्वरः ॥५८॥ सनत्कुमार स्तब्धोसि निष्कामो गर्वचेष्टया । अतस्त्वं कामर्तः शरजन्मेति नामतः ॥५९॥तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥६०॥भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः । विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥६१॥वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं श्रीवियोगं तु वचनान्मम यास्यसि ॥६२॥भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता । नृसिंहवेषधुग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥६३॥तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥६४॥भृगुणैवं कुमारेण शापितो देवशर्मणा । वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥६५॥एतत्ते कथितं सर्वं शापव्याजस्य कारणम् । इदानीं वच्मि तत्सर्वं सावधानमतिः शृणु ॥६६॥इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP