संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग तिसरा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग तिसरा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग तिसरा Translation - भाषांतर भरद्वाज उवाच ॥जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वाराघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥१॥श्रीवाल्मीकिरुवाच ॥ भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥२॥दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते । कदाचित्केनचिन्नाम स्वबोधोन्विष्यतामतः ॥३॥स चेह संभवत्येव तदर्थमिदमाततम् । शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥४॥ जगद्भ्रमोयं दृश्योपि नास्त्येवेत्यनुभूयते । वर्णो व्योम्न इवाखेदाद्विचारेणामुनानघ ॥५॥ दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥६॥अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह । भवत्यकृतिमाज्ञानां कल्पैरपि न निर्वृतिः ॥७॥ अशेषेण परित्यागो वासनानां य उत्तमः । मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥८॥क्षीणायां वासनायां तु चेतो गणति सत्वरम् । क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥९॥अयं वासनया देहो ध्रियते भूतपञ्जरः । तन्तुनान्तनिंविष्टेन मुक्तओघस्तन्तुना यथा ॥१०॥वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥११॥अज्ञानसुघनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥१२॥ पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत् । देहार्थ ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥१३॥ अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥१४॥ये शुद्धवासना भूयो न जन्मानथभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥१५॥जीवन्मुक्तिपदं प्राप्तो यथा रामो महापतिः । तत्तेहं शृणु वक्ष्यामि जरामरणशान्तये ॥१६॥भरद्वाज महाबुद्धे रामक्रममिमं शुभम् । शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥१७॥विद्यागृहाद्विनिष्कम्य रामो राजीवलोचनः । दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥१८॥अथ गच्छति काले तु पालयत्यवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥१९॥तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥२०॥राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥२१॥ श्रीराम उवाच ॥तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥२२॥तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि । न सोस्ति भुवने नाथ त्वया योर्थी न मानितः ॥२३॥ इति संप्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥२४॥शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥२५॥वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः । स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥२६॥ अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः । निरगात्स्वगृहात्तस्मातीर्थयात्रार्थमुद्यतः ॥२७॥ निर्गतः स्वपुरात्पौरेस्तूर्यघोषेण वादितः । पीयमानः पुरस्त्रीणां नैत्रैभृङ्गौघभङ्गुरैः ॥२८॥ ग्रामीणललनालोलहस्तपद्मापनोदितैः । लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥२९॥आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः । आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥३०॥अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डला तू । स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥३१॥नदीतीराणि पुण्यानि वनान्यायतनानि च । जङ्गलानि जनान्तेषु तटान्यब्धिमहीभूताम् ॥३२॥मन्दाकिनीमि न्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रुं च चन्द्रभागामिरावतीम् ॥३३॥वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥३४॥प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥३५॥ मानसं च क्रमसरस्तथैवोत्तरमानसम् । वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥३६॥ अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥३७॥ स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा । स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥३८॥नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानिच ॥३९॥राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनानाश्रमाञ्च्छुभान् ॥४०॥भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥४१॥अमरकिन्नरमानवमानितःसमवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक्शिवलोकमिवेश्वरः ॥४२॥[ १३९ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP