संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
तद्‍गुण अलंकार:

रसगंगाधरः - तद्‍गुण अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ तद्‍गुण:-

स्वगुणत्यागपूर्वकं स्वसंनिहितवस्वन्तरसंबन्धिगुणग्रहणं तद्‍गुण: ॥
यथा-
‘ नीतो नासान्तिकं तन्व्या मालत्या: कुसुमोत्कर: । बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥ ’
यथा वा-
‘ अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभाव: । हसितेन सितेन पक्ष्मलाक्ष्या: पुनरुल्लासमवाप जातपक्ष: ॥ ’
अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तद्‍गुण: । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्‍गुण: । परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोह्यमानत्वाद्भडुर: । यदि तु हासेनाधरसितीकरणद्वारा तदरुणिम्रो बाधस्तदा तत्राप्यपरस्तद्‍गुण: । इमं केचित्पूर्वरूपमामनन्ति । यद्यप्यु-ल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तत्रान्यदीयगुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादे: शोणत्वमिवाधीयते । प्रकृते तु जपा कुसुमलैहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततोऽस्य भेद: ।
इति रसगंगाधरे तद्‍गुणप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP