संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| प्रत्यनीक अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - प्रत्यनीक अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत प्रत्यनीक अलंकार: Translation - भाषांतर अथ प्रत्यनीकम्-प्रतिपक्षसंबन्धिनस्तिरस्कृति: प्रत्यनीकम् ॥अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुन: सादृश्यग्रहणाद्गुणीभूतेऽपि सादूश्येऽव्ययीभाव: । लोके प्रतिपक्षस्य तिर-स्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिन: कस्यचित्तिरस्कार: क्तियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । अत्र चप्रतिपक्षगतं बलवत्त्वम् । आत्मगतं दुरर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविध: । तथा-‘ रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोक: ॥’‘ जितमौक्तिकसंपदां रदानां सहवासेन सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मैक्तिकं ते ॥ ’पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्व-शाब्दत्वाभ्यां च वैलक्षण्यम् । एवमन्यदप्यूह्यम् ।अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे ताबद्धेत्वंश: शाब्द: उत्प्रेक्षांशमात्रमार्थम् । प्रथमो-दाहरणे तु द्वयमप्यार्थम् । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य स्वात्म-कर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीते: । अस्मिन्नलं-कारे हेतुत्वं निश्चीयमानम्, हेतूप्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्ते: । वाचकस्येवादेरभा-वाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् ‘ यस्य किंचिदपकर्तुमक्षम: कायनिग्रहगृहीतविग्रह: । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ ’इत्यलंकारसर्वस्वकृतोदाह्लते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्-वक्त्रसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना ।‘ मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टह्लदयेयमिति । त्वयि मत्सरादिव निरस्तदय: सुतरां क्षिणोति खलु तां मदन: ॥ ’इति कुवलयानन्दकारेणोदाह्लते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्म: । प्रतिपक्षगतबलवत्त्व-स्वात्मगतदुर्बलत्वयो: प्रतीतेर्हेतूत्प्रेक्षान्त-रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविना-भावित्वात् । किं तु तदवान्रतविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदा-द्धटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ।इति रसगंगाधरे प्रत्यनीकप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP