संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| विषादन अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - विषादन अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत विषादन अलंकार: Translation - भाषांतर अथ विषादनम्-अभीष्टार्थविरुद्धलाभो विषादनम् ॥अस्य चाभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृत: केवलमिच्छैवकृता जातश्च विरुद्धार्थलाभ: स:, यत्र चेष्टार्थं प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभ:, अपि तु स्वकारणवशात्स च विविक्तो विषय: । यत्र त्विष्टार्थ्म प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादृशकारणविरुद्धार्थयो-रुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् , इष्यमाणविरुद्धार्थ-लाभसत्त्वाच्च विषादनमिति संकीर्णतैव । एवं चास्य विषमभेदैर्गतार्थतेति नाशड्कनीयम्, विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात् । यथा-‘ स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात् ।एवं कीरवरे मनोरथमयं पीयूषमास्वादय-त्यन्त: संप्रविवेश वारणकराकार: फणिग्राभणी: ॥ ’अत्र हि विषमप्रभेदस्य नास्ति विषय:, इष्टार्थं कारणप्रयोगाभावात् । इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननु-रूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम् ।‘ चेलाञ्चलेनाननशीतरशिंम संवृण्वतीनां हरिदृश्वरीणाम् । गोपाड्रनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥ ’ अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम्, कारणीभूतत्रपा-संधानपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्स्वकारणादेवोत्पन्नम्, न तुगोपनानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुत्कात्कारणादिष्टानुत्पत्तिरत्रा-स्ति । चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्ते: । अतो विषादनमे-वात्र, न विषमम् ।अत्रेदं बोव्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिरिति यो विषमस्य भेद: प्राक्प्रत्यपादि सोऽनेन विषादनेन ग्रस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु विषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्य:-न विषमस्येति यदुक्तं तत्कस्य हेतो: ? विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननु-रूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात्, भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्ध-लाभेष्टार्थप्रयुक्तकारणयो:संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवो-चाम । तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्य: ।इति रसगंगाधरे विषादनप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP