संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
अथाधिकालंकार

रसगंगाधरः - अथाधिकालंकार

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्यातिन्यून-त्वकल्पनमधिकम्‍ ॥

यथा-

‘ लोकानां विपदं धुनोषि, तनुषे संपत्तिमत्युत्कटा-मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम्‍ । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसद्मोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ’

अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयाया: परममहत्त्वं फलितम् तेन च व्याजस्तुति: परिपोष्यते ।

‘ गिरामविषयो राजन्विस्तारस्तव चेतस: । सावकाशतया यत्र शेते विश्वाश्रयो हरि: ॥ ’

अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महत्त्वं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते, तदा श्रृड्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम्‍ ।

‘ ब्रह्माण्डमण्डले भान्ति न ये पिण्डीकृता अपि । परस्परापरिचिता वसन्ति त्वयि ते गुणा: ॥’

अत्रोभयविधस्याप्यलंकारस्य सामानाधिकरण्यम्‍ । लक्षणे कल्पनमि-त्यनेन यत्राधाराधेययोरन्यतस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नाति-प्रसड्र: । एवं च-

काहं तमोमहदहंखचराग्निवार्भू-संवेष्टिताण्डघटसप्तवितस्तिकाय: । क्केदृग्विधाविगणिताण्डपराणुचर्या-वाताध्वरोमविवरस्य च ते महित्वम्‍ ॥ ’

इति श्रीभागवतदशमस्कन्ध ( १४/११ ) गतं ब्रह्मस्तुतिपद्यमस्यालंका-रस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्न: सर्ववेदसि-द्धत्वेन कविप्रतिभानुल्लिखितत्वात्‍ । एतेन-

‘ द्यौरत्र क्कचिदाश्रिता, प्रविततं पातालमत्र क्कचि- त्क्काप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभ: कियदिदं यस्येत्थमेभि: स्थितै-र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्‍ ॥ ’

इत्यलंकारसर्वस्वकारेण यदुदाह्लतं तदपि प्रत्युक्तम्‍ ।

इति रसगंगाधरेऽधिकालंकारप्रकरणम्‍ ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP