संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| प्रतीप अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - प्रतीप अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत प्रतीप अलंकार: Translation - भाषांतर अथ प्रतीपम्-प्रसिद्धौपम्यवैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् ॥ तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया, न तु प्रकारान्तरेण ।उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्षं परि-हर्तुं द्वितीयप्रदर्शनेनाल्लास्यमानं सादृश्यमपंर द्विविधम् ॥अपमानस्य कैमर्थ्यं चतुर्थम् ॥सादृश्यविघटनं पञ्चमम् ॥तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य, यच्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्यय: फलम् । इदमेव चौपम्य-स्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपम्यप्रतिष्ठानं च निषिध्यमानसादृशाव्द्यतितेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, श्रृणु ।उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावन्निर्वि-वादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्यास् । ते च क्रमेण न्यूनत्वाधिक्ये उपमानोपमेययो: प्रयोजयत: । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोष: । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तुनिषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्ति: । पञ्चमस्य प्रथमवदिति । उदाहरणम्-‘ किं जल्पसि मुग्धतया हन्त ममाड्रं सुवर्णवर्णमिति । तद्यदि पतति हुताशे तदा हताशे तवाड्रवर्णं स्यात् ॥ ’अत्र पूर्वार्धोपमागम्यं सुवर्णवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं बालाड्रवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम्,उपमा तु स्वप्नेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते । ‘ माहात्म्यस्य परोऽवधिर्निजगृहं गभ्भीरताया: पिता रत्नानामहमेक एव भुवने को वापरो मादृश: । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो दुग्धाबधे भवता समो विजयते दिल्लीधरावल्लभ: ॥ ’निभाल्य भूयो निजगौरिमाणं मा नाम मानं ह्लदये विधासी: । गृहे गृहे पश्य तवाड्रवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ ’उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् ‘ अभूदप्रत्यूह: 'इत्यादी । पञ्चमो यथा-‘ करिकुम्भतुलामुरोजयो: क्तियमाणां कविभिर्विश्रृड्खलै: । कथमालि श्रृणोषि सादरं विपरीतार्थविदो हि योषित: ॥ ’अत्र कथं श्रृणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तर-न्यासोऽप्यमुमेवार्थ्म पुष्णाति ।तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदा: । चतुर्थ: केषांचिदाक्षेप: पञ्चम-स्त्वनुक्तवैधर्म्ये व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्य-मुपमा । नह्याद्ये प्रतीपे ‘ मुखमिव कमलम् ’ इत्यादौ सादृश्यस्यानिष्पत्तिर-सौन्दर्य वास्ति येनोपमातो बहिर्भाव: स्यात्, सौन्दर्यविशेषस्य त्वयाप्य. भ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलदि-प्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिन: प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम, उपमा-विशेषविरुद्धवाचकत्वेनापि तदुपपत्ते: । एवं चाद्यं प्रतीपं प्रसिद्धोपमावदु-पमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदाबुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमा-सामान्यात्, तदनुस्यूतत्वेनैव तत्प्रतीते: । नहि द्राक्षा माधुर्यातिशयेन पार्थि-वान्तराद्विलक्षणेत्यपार्थिवी भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजक: स्यात्, पुरस्कारोऽपि तथा स्यार्त् । यथा-‘ एको विश्वसतां हराम्यपघृण: प्राणानहं प्राणिना-मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथा: ।भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशया:साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा: खला: ॥ ’अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कार: फलम्, तस्य गर्वितत्वेनाविव-अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कार: फलम्, तस्य गर्वितत्वेनाविव-क्षणात् । किं तु तदनुतापनाश: । एवं च फलवैलक्षण्यमात्रेणालंकारान्त-रत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा ।किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्यात्, न प्रतीपप्रभेदत्वम् प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्ष-णाभावात् । अन्यतमत्वं तु दूषणसहस्रग्रस्तत्वादलक्षणमेवेत्यसकृदुक्तम् । उपमालक्षंण तु सकलसाधारणम् । चतुर्थ: प्रभेदस्तु येषां मते नाक्षेपस्तेषा-मस्तु नाम प्रतीपालंकार: । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य ।इति रसगंगाधरे प्रतीपप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP