संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| अथान्योन्यालंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - अथान्योन्यालंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत अथान्योन्यालंकार: Translation - भाषांतर द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् ॥विशेषश्च क्तियादिरूप: । यथा-‘ सदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे कापि रुचि: परस्परम् ॥ ’अत्र गुणरूपविशेषाधानम्, रुचेर्गुणत्वात् । न च विधानरूपक्तिया-त्मकविशेषाधानमिह शड्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारि-त्वेनाविशेषत्वात् ।‘ परपूरुषदृष्टिपातवज्राहतिभीता ह्लदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयत: सत्वरमेव सोऽपि तस्या: ॥ ’अत्र क्तियारूपविशेषाधानम् ।यत्तु-“-‘ यथोर्ध्वाक्ष: पिबत्यम्बु पथिको विरलाडुलि: । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥ ’अत्र प्रपापालिकाया: पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमीभलषन्त्या विरलाडुलिकरणतश्चिरं पानीयपानानुवृत्ति-संपादनेनोपकार: कृत: । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषत: पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकार: कृत: । ”इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुष्मतो ग्रन्थ-कर्तुर्व्युत्पत्तिशैथिल्यभुद्निरति । तथा हि-स्वमुखावलोकनमभिलषन्त्याइत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम् , न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगति: स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्ति-रिति वाच्यम् । तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीय-त्वात् । सा च प्रकृते यद्विशेषणघटकत्वेन स्वनिजादय: शब्दा उपात्तास्त-द्वोधका इत्येवंरूपा । तेन ‘ स्वदाररतानां विप्राणामहं भक्त:, देवदत्तस्य पुत्र: स्वमातृभक्त: ’ इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इतिच न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीति: । अत एव-‘ निजतनुस्व-च्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्या: ’इत्यत्र ‘ दण्डपादगता तनु: प्रतीयते । भवानीगता तु सा अप्रेक्षिता ’ इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टै: काव्यप्रकाशेऽभिहितम् । न चेदं श्रुति-काटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम् । शाब्दव्युत्पत्तौ काव्यस्या-नन्तर्भावात् । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च । किं च परस्परोपकारो हि स्वव्य-धिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटक:, न तु स्वसमाना-धिकरणतत्साध्योऽपि । तत्र हि तुषारशिशिरीकरणन्यायेनान्यव्यापारस्या-नावश्यकतया चमत्कारिताविरहात् । इह हि धारातनूकरणाडुलिविरली-करणयो: कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थं प्रयुक्तयोस्तत्रैवोपयोग-श्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सह्लदया विचारयन्तु ।इति रसगंगाधरेऽन्योन्यालंकारप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP