संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
व्याघात:

रसगंगाधरः - व्याघात:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ व्याघात:-

यत्र होकेन कर्त्रा येन कारणेन कार्य किंचिन्निष्पादितं निष्पि-पादयिषितं वा तदन्येन कर्त्रा तेनैव कारणेन कारणेन तद्विरुद्धकार्यस्य निष्पा-दनेन निष्पिपादयिषया वा व्याहन्यते स व्याघात: ॥
अत्र व्याघाते पूर्वकर्त्रपेक्षया कर्त्रन्तरस्य वैलक्षण्यप्रत्ययाव्द्यतिरेक-सिद्धि: फलम्‍ । कर्तृत्वं चेह कार्योद्देशेन प्रवर्तमानत्वम्‍ । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्याम: ।
उदाहरणम्‍-
‘ दीनद्रुमान्वचोभि: खलनिकरैरनुदिनं दलितान्‍ । पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणा: ॥’
इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयो: परुष-मधुरवचनयोरेकत्वाध्यवसानात्पुर: स्फुरन्विरोध: प्रातिस्विकरूपेण तत्त-त्कार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम्‍ । इदं तु नोदाहरणम्‍-
‘ पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जना: । तेनैव सज्जना रूढा यान्ति शान्तिमनुत्तमाम्‍ ॥ ’
अत्र दुर्जनसज्जनयोर्मद-शमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरिति लक्षण-गतकर्तृविशेषणेनासंग्रह: । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम्‍ । आश्रयविशेषस्वभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वय-
जनने बाधकविरहाद्‍व्याहतेरेवाभावादुदाहरणत्वासंगते: । नहि लोक-सिद्धोऽर्थ: काव्यालंकारास्पदं भवितुमर्हति-
अपरो ब्याघातो यथा-
विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तद सह नयस्व मां प्रणययन्त्रणायन्त्रित: ।
अथ प्रकृतिभीरुरित्यखिलभीतिभड्रक्षमा-न्न जातु भुजमण्डलादवहितो बहिर्भावय ॥ ’
इदं दण्डकां प्रविविक्षुं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम्‍ । उभयविधे‍ऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यभिति प्राचां सिद्धान्त: । तथा च तेषामुदाहरणम्‍-
दृशा दग्धं मनसिजं जीवयन्ति दृशैव या: । विरूपाक्षस्य जयिनीस्ता: स्तुवे वामलोचना: ॥ ’ इति ।
अत्र विचार्यते-व्यतिरेक एवात्रालंकार: । जयिनीर्विरूपाक्षस्य वाम-लोचना इति तस्यैव प्रकाशनात्‍ । न चात्र व्यतिरेकोत्थापकतया व्याघात: स्थित इति वाच्यम्‍ । एवमपि तस्यालंकारताया असिद्धे: । न ह्यलंकारो-स्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियम: । ‘ आननेनाकलड्केन जय-तीन्दुं कलड्किनम्‍ ’ इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्ते: । नह्यस्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयो‍ऽस्ति येन स्वातन्त्र्यमभ्युपगच्छेम ।.
तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्ति-विशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम्‍ ।
यत्तु-
‘ लुब्धो न विसृजत्यर्थं नरो दारिद्यशड्कया । दातापि विसृजत्यर्थं तयैव ननु शड्कया ॥ ’
इति कुवलयानन्द उदाह्लतम्‍, तन्न ।
एवं श्लेषातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमान-
स्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिता: । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदा:, न तु ततोऽति-रिक्ता: काञ्चनस्येव कड्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणा-मुपमाभेदत्वापत्तेर्बहु व्याकुलीस्यादिति परस्परच्छायामात्रानुसारिणो ब भिन्नविच्छित्तयो भिन्ना एवेत्यपरे ।

इति रसगंगाधरे व्याघातप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP