संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
समाधि अलंकार:

रसगंगाधरः - समाधि अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ समाधि:-

एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहित-सौकर्यं समाधि: ॥
तच्च कार्यस्यानायासेन सिद्धया साड्रसिद्धया च । पूर्वोपेक्षया विशेषस्तूक्त एव । उदाहरणम्‍-
‘ आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातड्कं ह्लदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावक्तामनृपातपत्रसुषमं बिम्बं बभासे विधो: ॥ ’
अत्र रात्रिसंनिधानादपि सिद्धयतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धि: । यथा वा-
स्मरदीपदीप्तदृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्या: । झटिति प्रादुरभूवन्सख्यादिव चञ्चला: परित: ॥ ’
इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणा-दुत्प्रेक्षालीढ: । पूर्वस्तु शुद्ध: ।
‘ नवप्रसड्रं दयितस्य लोभादड्रीकरोति स्म यदा नताड्री । श्लथं तदालिड्रनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥’
अत्र घनध्वनिभिरालिड्रनस्य साड्रतासिद्धि: । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धि: ।
‘ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाता: कृतान्ता: । अयमपि बत गुञ्जत्यालि माकन्दमौलौ मनसिजमहिमानं मन्यमानो मिलिन्द: ॥ ’
अत्र जीवितनाशं प्रति वातवान-चञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वा-देकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषय: । किं तु कर्तृरूपभिन्न-धर्मिकेण वानगुञ्जनक्रिययो: समुच्चयेन जीबितनाशरूपैककार्यात्मकैकध-र्मिकस्तयोरेव कारणयो: सभुच्चय: संकीर्ण: ।

इति रसगंगाधरे समाधिप्रकरणम्‍ ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP