संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
समुच्चय अलंकार:

रसगंगाधरः - समुच्चय अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ समुच्चय:-

युगपत्पदार्थानामन्वय: समुच्चय: ॥
प्राग्वदाह-अथेति ।
युगपदिति क्तमव्यावृत्त्यर्थम्‍, न त्वेकक्षणप्रतिपत्त्यर्थम्‍ । तेन किंचि-त्कालभेदेऽपि न समुच्चयभड्र: । स तावाहिउविध:- धर्मिभेद-धर्म्यैक्या-भ्याम्‍ । धर्म्यैक्येऽपि द्वैविध्यम्‍-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये,कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नयाद्योर्भेदयोर्गुणानां क्तियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारम-
णीयानां समन्वय: । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशड्कयम्‍ । समाधौ हि एकेन कार्ये निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषय: । अस्मिंस्तु समुच्चयप्रभेदे यत्रैककार्यं संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति, कार्यस्य च न को‍ऽप्यतिशय: स: । क्रमेणोदाहरणानि-
‘ प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभ: । रक्तं च पथिकह्लदयं कपोलपाली मृगीदृश: पाण्डु: ॥ ’
‘ उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ॥ ’
अत्राद्ये गुणानां द्वितीये क्तियाणां च यौगपद्येन भिन्नधर्म्यन्वय: । ‘ आताम्रा सिन्धुकन्याधवचरणनखोल्लसिकान्तिच्छटाभि- र्ज्योत्स्नाजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्री: । स्वाभाव्यादच्छमुक्ताफलरचितलसद्‍गुच्छसच्छायकाया पायादायासजालादमरसरिदघव्रातजातश्रमान्न: ॥ ’
‘ देव त्वां परित: स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्तोडान्त: कुरुतेतरां वसुमतीमाशा: समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’
अत्राद्ये गुणानां द्वितीये क्तियाणामेकधर्म्यन्वय: । यद्यपि हरिचरणनख-संसर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्यौगपद्यस्यासंभव: , तथापि साहजिकश्वैत्येन सह तयो: प्रत्येकं तस्य संभवोऽस्त्येवेति न दोष: ।
‘ समुत्पत्ति: पद्मारमणपदपद्मामलनखा-न्निवास: कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासड्र: पतितजननिस्तारणविधे-र्न कस्मादुत्कर्षस्तव जननि जागर्ति जगत: ॥ ’
अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयो‍ऽप्युत्कर्षजननार्थं स्पर्धयेवापतन्तो रमणीया: ।
‘ पाटीरद्रुभुजंगपुंगवमुखोद्‍भूता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमा: । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालभृणालकोमलतनु: प्राणान्कथ्म रक्षतु ॥ ’
अत्रापि त्रयोऽपि जीवनाशार्थमापतन्तो‍ऽरमणीया: ।
‘ जीवितं मृत्युनां लीढं संपद: श्वासविभ्रमा: । रामा: क्षणप्रभारामा: शल्यान्येतानि देहिनाम्‍ ॥ ’
अत्र जीवितादय: स्वाभाव्याद्रमणीया इति नि:सारयितुमशक्या: विशेषणमाहात्म्याच्चारमणीया इति दु: खजनकाश्च, अत एव शल्यतुल्या: । रमणीयाऽरमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्व:, सहचर-भिन्नत्वदोषापत्ते: । एबमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चय: संभवति ।
‘ शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रद: । विपद्वैराग्यजननी त्रयं सुखकरं सताम्‍ ॥ ’
शरीरदयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीया: । न च रमणीयानां सभुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणी-यानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ता: सभुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात्‍ । अन्यथा सर्वेषामलंकाराणामनन्त-भेदत्वापत्तेरिति वाच्यम्‍ । ‘ समुत्पत्ति: पद्मारमण-’ इत्यत्र, ‘ पाटीरद्रु-
भुजंग-’ इत्यत्र च समालंकारस्याविवक्षितत्वात्‍ । नहि हरिचरणनख-संभूति-हरजटाजूटनिवास-पतितनिस्तारणव्यासड्रानां परस्परं योगो योग्य इति कवेरभिप्रेतम्‍ । किं तु भगवत्या भागीरथ्या उत्कर्षं जनयितुं त्रयो-‍ऽपि बालाया: प्राणनाशार्थं बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्‍ -खेदो‍ऽनुपपत्र एव स्यात्‍ । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्‍, एवमपि त्रयाणां योगांशो समालंकार-
स्यात्यन्तमप्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्सभुच्चयस्यासं-कीर्णतैव । एवं ‘ जीवितं मृत्युना लीढम्‍ ’ इत्यादौ जीवितादे रमणीयस्य मृत्यु-लीढत्वादिना अरमणीयत्वेऽ‍पि न मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम्‍ । रमणीयानामचिरस्थायित्वस्योत्सर्गत: सिद्धेस्तस्य च स्वाभि-लषिताननुगुणत्वाच्छ यत्वप्रयोजकत्वम्‍ । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धि: । एतेन ‘ सद्योगासद्योगसदसद्योगैर्न सभुच्चय: प्रभेदवान्‍ । समविषमसंकरेणैवान्यथासिद्धे: ’ इति रत्नाकरोक्त-मपास्तम्‍ ।

इति रसगंगाधरे समुच्चयप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP