संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| एकावली अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - एकावली अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत एकावली अलंकार: Translation - भाषांतर अथैकावली-सैव शृड्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली ॥सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम् । स्वसं-बन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम्-‘ स पण्डितो य: स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रिया: । परे च ते ये श्रितसाधुभावा: सा साधुता यत्र चकास्ति केशव: ॥ ’अत्र स्थापकम् ।‘ नार्य: स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम् । न ते परे यैर्नहि साधुताऽऽश्रिता न साधुता सा नहि यत्र माधव: ॥ ’अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोष: ।‘ धर्मेण बुद्धिस्तव देव शुद्धा बुद्धया निबद्धा सहसैव लक्ष्मी: । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्ति: ॥ ’ इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते । अस्मिंश्चैकावल्या द्वितीये भेदे पूर्वपूर्वै: परस्य परस्योपकार: क्तियमाणो यद्येकरूप: स्यात्त-दायमेव मालादीपकशब्देन व्यवह्लियते प्रा़चीनै: । तथा चोक्तम्-‘ माला-दीपकमाद्यं चेद्यथोत्तरगुणावहम् ’ इति । तत्र मालाशब्देन श्रृड्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकभुच्यते । तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनी श्रृड्खलेति पदद्वयार्थ: । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति नभ्रमि-तव्यम्, तस्य सादृश्यगर्भताया: सकलालंकारिकसिद्धत्वात् । इह च श्रृड्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन ‘ दीपकैकावली-योगान्मालादीपकमिष्यते ’ इति यदुक्तं कुवलयानन्दकृता तद्भ्रान्तिमात्र-विलसितमिति सुधीभिरालोचनीयम् ।इति रसगंगाधरे एकावलीप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP