रूपकालंकारः - लक्षण १९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अपि च तद्नतधर्मवत्त्वबुद्धे: कथं तदभेदबुद्धि: फलं स्यात्‍ । नहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्चिन्नाभेदज्ञाने हेतुत्वं काप्यवगतम्‍ । घटपटयोर्द्रव्यत्वेनाभेदग्रहेऽपि घटत्वादिना भेदग्रहात्‍ । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपति: फलं स्यात्‍ । प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्ति: ।

अत एव-

‘ कृपया सुधया सिञ्ज हरे मां तापमूर्च्छितम्‍ । जगज्जीवन तेनाहं जीविष्यामि न संशय: ॥’

इत्यादावमृताभिन्नत्वबोधे सत्येव कृपाया: सेके करणत्वेनान्वय: । तादृशसेकस्य जीवने हेतुत्वेन इति दिक्‍ ।

अथ कथं ‘ गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथ: ‘ इत्यत्र बोध: । श्रृणु-प्राचां तावल्लक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभे-दस्य वा तृतीयार्थस्यान्वयाद्नाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयम्‍, गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा धी: । लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्‍-कविना स्वे़च्छामात्रादुपकल्पिता

असन्तोऽप्यन्त:करणपरिणामात्मका अर्था उपनिबध्यर्न्त मुखचन्द्रादय: । तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम्‍, तद्दर्शनाधीनत्वात्तन्नि-निर्मिते: । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्य-ज्ञानप्रकारत्वं तृतीयार्थ:, वह्लिमान्धूमादित्यादौ पञ्चम्यर्थ-तया तस्य कल्पनात्‍ । एवं च गम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोध: । तदिदं रूपकं विषयविषयिणो: सामानाधिकरण्ये

अपदार्थतया संसर्ग: । यथा ‘ बुद्धिर्दीपकला ’-इत्यादौ । वैयधिकरण्ये च शब्दार्थतया क्कचिद्विशेष्यम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP