संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १४ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १४ Translation - भाषांतर तथा-‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेह: ॥’इत्यत्र सुन्दर्यां विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राका-रूपकम् । तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि नानुगु-ण्यमाचरन्ति । तारा-चंद्रिका-पूर्णचन्द्राणां मौक्तिक-धवलांशुक-वदना-भिन्नत्वे सिद्धेऽपि न सुन्दर्यां राकातादात्म्यं सेद्धुमीष्टे । प्रत्युत विपरीतं राकायां सुन्दरीतादूप्यम् , तेषां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति ।अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गो भवति । स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणताया: । एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्ग: । क्कचिदनुयोगित्वमुख:, क्कचिच्च प्रतियोगि-त्वमुख:, विशेषणविशेष्यभाववैचित्र्यात् । न तु मुखचन्द्र इत्यत्र मुखाभेद:संसर्ग: । तथा सति चन्द्ररूपकानापत्ते:, सुखरूपकापत्तेश्च । स्वप्रतियोगि-काभेद एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रह: । एवं च सौचन्यचन्द्रिकेत्यादौ वस्तुत: सौजन्याभेदो न सौजन्यस्य चन्द्रि-काविशेषणस्य संसर्ग:, अपि तु चन्द्रिकाऽभेद एव । तथा च सौजन्य-निष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भड्रयन्तरेण सौजन्ये चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परिते नानुपपत्ति: । शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगि पुण्डरीकमिति पर्यवसितेऽर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्या-हतम् । एवमन्येष्वप्यवयवरूपकेषु बोध्यम् । एवं सुविमलमौक्तिकतारे N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP