संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण ७ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण ७ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ७ Translation - भाषांतर तत्र-परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघात: सावयवम् ॥तत्रापि-समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्त-वस्तुविषयम् ॥यत्र च क्कचिदवयवे शब्दोपात्तमारोप्यमाणं क्कचिच्चार्थसामर्थ्या-क्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्व-रूपगोपनेनाऽन्यथात्वेन वर्तनादेशविवर्ति ॥यद्वा-एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेक-देशवितर्ति ॥समस्तवस्तुविषयं सावयवं यथा-‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेह: ॥’अत्र समुदायात्मकम्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुत: समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वे-नाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थ-करूपकाणां विषयविषयिणो: पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य-रूपकस्य तयो: पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । यथा भटसंघान्तर्गतस्य मुख्यस्य कस्यापि भटम्य जयपराजयाभ्यां भटसंघातो जित: पराजित-श्चेत्युच्यते ।‘ व्योमाड्रणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमड्कभृड्रं सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥’अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योति: शास्त्रसिद्धम् । तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शड्कनीयम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP