संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १८ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १८ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण १८ Translation - भाषांतर अथ बोधो विचार्यते-तत्र प्राञ्च: -“विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ, विषये तस्याऽभेदेन संसर्गेण विशेषणतयान्वय: । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुनवदभिन्नं सुखमिति धी: । अत एवालंकारभाष्यकार: ‘ लक्षणापरमार्थं यावता रूपकम् ’ इत्याह । न च चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेद: । बोधवैलक्षण्याभावेन विच्छित्ति-वैलक्षण्याभावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात् ।निरूढलक्षणातिरिक्ताया लक्षणाया: प्रयोजनवत्तानियमात् । अभेदबुद्धेश्च वृत्तन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम् ” इत्याहु: ।नव्यास्तु-“ नामार्थयोरभेदसंसर्गेणान्वयम्य व्युत्यत्तिसिद्धत्वाच्चन्द्रा-भिन्नं मुखमिति लक्षणां विनैव बोध: । फलस्यान्यथैवोपपत्तेर्लक्षणाकल्प-नस्यान्याय्यत्वात् । किं च यदि च रूपके लक्षणा स्यान्मुख चन्द्र इत्यत्रो-पमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वम-न्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं न चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात । एवं देव-दत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तु न तथा, अपि तु चन्द्रसदृशमित्यादौ नञर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वात्,‘ न चन्द्रसदृशश्चन्द्रसदृशम् ’इति बोधकदर्शनापत्तेश्च । नहि नञ: फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्त:, एतदन्वयवेलायां तस्यानुपस्थिते: । तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम् । यद्वा आहार्यान्यत्वस्येव शाब्दान्यत्वस्यापि बाध-निश्चयप्रतिबध्यतावच्छेदककोटौ निवेश: । सति च बाधनिश्चये तद्वत्ता-शाब्दबुद्धेरनुत्पाद:, योग्यताज्ञानविरहात् । सति च क्कचिदाहार्ये योग्य-ताज्ञाने तद्बुद्धेरिष्टत्वात् । अत एव योग्यताज्ञानस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम् । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्ति: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP