संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण ५ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण ५ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ५ Translation - भाषांतर विधेयभावाभावादव्याप्त्यापते: । द्वितीये त्वनिह्लुत इति विशेषणवैयर्थ्यम् । अपह्लुताबुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्ट-त्वादेव लक्षणस्याप्रसक्ते: । निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपरमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात् । अपि च ‘ नायं सुधांशु: किं तर्हि सुधांशु: प्रेयसीमुखम् ’ इति कुवलयानन्दे त्वयोक्तायामपह्लुतावतिप्रसड्र: । अत्र सुधांशौ सुधांशुत्वनिह्लुवेऽप्यारोपविषयस्यानिह्लवात् । न चेदं रूपकमेवेतिवाच्यम् । त्वदुक्तिविरोधापत्ते: । यच्चाप्युक्तम व्यंग्यत्वविशेषणाच्चेदमेव लंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यड्रयत्वालंकार-त्वयोर्विरोधोऽस्ति । प्रधानव्यड्रयरूपकवारणाय पुनरुपस्कारकत्वं विशे-षणमुचितमित्यसकृदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यड्रयरू-पकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रातिप्रसड्राच्च ।यच्च ‘ तद्रूपकमभेदोय उपमानोपमेययो: ’ इत्यादि प्राचीनैरुक्तम्, तच्चि-न्त्यम् । अपह्लुत्यादाबुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रस-ड्रात् । अथोपमानोपमेययोरित्युक्त्या उपमेयताच्छेदकं पुसस्कृत्योप-मानतावच्छेदकावच्छिन्नाभेद इत्यर्थलाभादपह्लुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसड्र इति चेत् । न । ‘ नूनं मुखं चन्द्र: ’ इत्याद्युत्प्रे-क्षायां तथाप्यतिप्रसक्ते: । न च-‘ प्रकृतं यन्निषिघ्यान्यत्साघ्यते सा त्वपह्लुति: ।’‘ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP