रूपकालंकारः - लक्षण १०

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-
‘ अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरत: ॥ ’

अत्र द्वयोरप्यारोपयो: समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यल्वेऽप्यहि-तानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्राय: । अत एव भड्रश्लेष-निवेदितो‍ऽहिभयाभावोऽपि संगच्छते ।

इदमेव मालारूपं यथा-

कमलावासकासार : क्षमाधृतिफणीश्वर: । अयं कुवलयस्येन्दुरानन्दयति मानवान्‍ ॥’

शुद्धपरम्परितं केवलं यथा-

‘ देवा: के पूर्वदेवा: समिति मम नर: सन्ति के वा पुरस्ता-देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिन: क्षत्रवीरा: । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंग: ॥’

अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमत: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP