संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १३ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १३ Translation - भाषांतर कासारसंबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्ति: । कथ्म तर्हि परम्परितरूपके ‘ सौजन्यचन्द्रिकाचन्द्रो राजा ’ इत्यादौ रूपकत्वम्, अभेदारोपस्यसत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात् । इति चेत् , न । समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वात् । स्यादेतत् । सौजन्यचन्द्रि-काचन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसं-सर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागत: सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति, यत्संबन्धिनि यत्सं-बन्घ्यभेद इत्यादिप्रागुक्तन्यायात् । अपि तु सौजन्ये विषये चद्रिन्काभेद: ।यथा-‘ सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधि: ।’स च दुरुपपाद एव । न चानयो: समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वत्तुम्,प्रात्यक्षिके हि सामग्र्यास्तुयल्त्वात्तत् । न तु शाब्दबोधे व्युत्पत्तिवैचित्र्य-नियन्त्रिते । एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयो-र्निर्वाह्मनिर्वाहकभाव: । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपक-मुच्यते ? पुण्डरीकाभेदात्मकस्य पुण्डरीकतादूप्यस्याभानात् । शश्य-भेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम् । एवं नीलिम-दिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमड्कभृड्रमित्यत्रा-प्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्ति: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP