संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण ४ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण ४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ४ Translation - भाषांतर अत्र कर्त्रोरभेदस्य शाब्दत्वेऽपि क्तिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकृता तत्प्रकरण उदाह्लतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाह्लत्म बिम्बप्रतिबिम्बभावेन रूपकम्-‘ कंदर्पद्विपकर्णकम्बु मलिनैर्दानाम्बुभिर्लाञ्छित्म संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रते: । व्योमानोकहपुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिन: सुधासहचरं बिभ्बं कलड्काड्कितम् ॥’अत्र कलड्कस्य दानाम्ब्वादिभि: प्रतिबिम्बनम्, लञ्छितत्वाड्कितत्वयो: शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत् । तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येनकेनचिदूपेण शब्देनाभिहित इत्यर्थ:, उताहो उपमेयतावच्छेदक-रूपेण शब्देनाभिहिते ? । आद्ये ‘ सुन्दरं कमलं भाति लतायामिदमद्भुतम् ’इत्यत्रातिप्रसड्र । सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषय-स्याननस्य प्रतिपादनात् । न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम् । कमलपदेन कमलतादूप्ये-णाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्त:, न तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयितादूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थ: । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलतादूप्यस्याविधानान्नातिप्रसड्र इति चेत् । न । मुखचन्द्रस्तु सुन्दर: ’ इत्यादिरूपके समासगतयोर्विषयविषयिणो: पृथग्विभक्तिमन्तरेणोद्देश्य- N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP